________________ प्रमाणप्र० का 0.21 ] अापत्तिप्रमाणनिरासः 507 10 पत्तौ, तत्प्रतिपत्तिश्चानुमानप्रवृत्तौ, तत्प्रतिपत्ति (तत्प्रवृत्ति)श्च प्रतिबन्धग्रहणे इति। अथान्यतोऽनुमानात्तत्प्रतिबन्धप्रतिपत्तिः; ननु तदपि प्रतिबन्धप्रतिपत्तौ सत्यां प्रवर्त्तते, तत्र च प्रतिबन्धप्रतिपत्तिः प्रथमानुमानात्, तदन्तराद्वा स्यात् ? प्रथमपक्षेऽन्योन्याश्रयःसिद्धे हि द्वितीयानुमाने ततः प्रसिद्धप्रतिबन्धाल्लिङ्गात् प्रथमानुमानसिद्धिः, तत्सिद्धौ च अतः प्रसिद्धप्रतिबन्धाल्लिङ्गाद् द्वितीयानुमानसिद्धिरिति / द्वितीयपक्षे त्वनवस्था-अनु- 5 मानान्तरेऽपि प्रतिबन्धप्रतिपत्तेः अनुमानान्तरादेव प्रसिद्धेः / नहि तत् प्रतिबन्धप्रतित्ति विना स्वसाध्यसिद्धये प्रभवति / शब्दोपमानयोस्तु शक्तिप्रतिपत्तौ संभावनैव नास्ति; शब्दसादृश्याभ्यां विनैव तत्पैतिपत्तिप्रतीतेः / अतः अर्थापत्तेरेव शक्तिविषयत्वं युक्तम् / ___तथा शब्दसाधनार्थप्रतिपत्त्यन्यथानुपपत्त्या शब्दस्य वाचकशक्तिमवगम्य तदन्यथानुपपत्त्या तस्य नित्यत्वकल्पना अर्थापत्तिपूर्विकाऽर्थापत्तिः।। __'पीनो देवदत्तो दिवा न भुङ्क्ते' इति वाक्यश्रवणात् रात्रौ भोजनकल्पना श्रुतार्थापत्तिः / नहीदं श्रूयमाणं वाक्यमेव तत्प्रतिपत्तिनिबन्धनम् ; पीनादिपदानां स्वार्थप्रतिपादनपरतया रात्रिभोजनलक्षणार्थप्रतिपादनसामर्थ्यानुपपत्तेः / अथ पदसमुदायात् तत्प्रतिपत्तिः, तन्न; अस्य अन्यार्थप्रतिपादनपरत्वात् / श्रूयमाणेन हि पदसमुदायेन देवदत्तस्य पीनस्य रसायनाद्यभावे दिवाभोजननिषेध एव प्रतिपाद्यते न तु रात्रि- 15 (1) प्रथमानुमानात् / (2) अनुमानान्तरम् / (3) शक्तिप्रतिपत्तेः। (4) वाचकशक्त्यन्यथानुपपत्त्या ।(५)शब्दस्य / (6) "वचनस्य श्रुतस्यैव सोऽप्यर्थः कश्चिदाश्रितः। तदर्थोपप्लतस्यान्यरिष्टोवाक्यान्तरस्य तु / न तावछ्रयमाणस्य वचसोऽर्थोऽयमिष्यते। न ह्यनेकार्थता युक्ता वाक्ये वाचकता तथा। पदार्थान्वयरूपेण वाक्यार्थो हि प्रतीयते / न रात्र्यादिपदार्थश्च दिवावाक्येन गम्यते। न दिवादिपदार्थानां संसर्गो रात्रिभोजनम् / न भेदो येन तद्वाक्यं तस्य स्यात् प्रतिपादकम् / अन्यार्थव्यापृतत्वाच्च न द्वितीयार्थकल्पना। तस्माद्वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते / प्रमाणं तस्य वक्तव्यं प्रत्यक्षादिषु यद्भवेत् / न ह्यनुच्चारिते वाक्ये प्रत्यक्षं तावदिष्यते / नानुमानं न चेदं हि दृष्टं तेन सह क्वचित् / यदि त्वनुपलब्धेऽपि सम्बन्ध लिङ्गतेष्यते / तदुच्चारणमात्रेण सर्ववाक्यमितिर्भवेत् / श्रुतस्यैव शब्दस्य तत्प्रतिपादकत्वं केचित्कल्पयन्ति, अन्ये तु शब्दान्तरमेव तत्प्रतिपादकमिति; तत्रानन्तरपक्षं निराकरोति न तावदिति। कारणमाह- हीति / किञ्च यदि वाक्यं वाचकं स्यात् स्यादप्यनेकार्थता न तु वाक्यं वाचकमित्याह बाचकतेति / कथं तर्हि वाक्यार्थप्रतीतिरत अह-पदार्थेति / किमिति रात्रिभोजनं दिवावाक्यस्यार्थो न भक्त्यत आह-न रात्रीति। न हि रात्र्यादिपदार्था दिवावाक्यपदैरभिधीयन्ते. ते कथमन्वितरूपतया तद्वाक्यार्थीभवेयुरिति / यद्यपदार्थोऽपि रात्रिभोजनं दिवादिपदानां संसर्गो भेदो वा स्यात्ततोऽपि तस्यैव वाक्यस्यार्थः स्यात् न तु तदस्तीत्याह न दिवेति / यद्यपि चानेकार्थता, तथापि एकस्मिन् प्रयोगे व्यापतस्य नार्थान्तरं संभवतीत्याह-अन्यार्थेति / तस्माद्वाक्यान्तरस्यैव कल्पितस्यायमर्थो न तु श्रुतस्येत्याह तस्मादिति / तस्य तु वाक्यस्य किं प्रमाणमिति विचारणीयमित्याह-तस्येति / यच्च तदर्थान्तरं तदा यद्यपि वाक्यार्थत्वादागमिकं न निष्प्रमाणकं तथापि तदेव वाक्यं किं प्रमाणकमिति चिन्त्यमिति / तत्रापत्तिरेव प्रमाणमिति वक्तु पूर्वेषां तावदसम्भवं दर्शयितुमाह न हीति ।"-मी० श्लो० अर्था०, न्यायर० पृ० 464-65 / (7) दिवा न भुक्ते इति निषेधार्थप्रतिपादनपरत्वात् / 1 'अतः' नास्ति आ०। 2-र्थप्रतीत्यन्य-श्र०,ब०।