________________ 506 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० र्थोऽन्यथा नोपपद्यते इत्यदृष्टार्थकल्पना / तत्र दृष्टः प्रत्यक्षादिभिः पञ्चभिः प्रमाणैरुपलब्धः, श्रुतः लौकिकाद् वैदिकाद्वा वाक्यादवगतः तस्मादनुपपद्यमानाद् या अर्थान्तरकल्पना सा अर्थापत्तिः। सा च षट्प्रकारा भवति प्रत्यक्षादिनिमित्तभेदात्। तत्र प्रत्य क्षप्रतिपन्नदाहाख्यकार्यान्यथानुपपत्त्या वह्वेदाहशक्तिकल्पना प्रत्यक्षपूर्विका अर्थापत्तिः / 5 देशान्तरप्राप्तेर्लिङ्गादनुमिताऽऽदित्यगत्यन्यथानुपपत्त्या आदित्ये गमनशक्तिकल्पना अनु मानपूर्विका / तथा उपमानज्ञानावगतगवयसारूप्यविशिष्टगोपिण्डान्यथानुपपत्त्या तस्यै तज्ज्ञोनग्राह्यशक्तिकल्पना उपमानपूर्विका / ता एता अर्थापत्तयः प्रमाणान्तरम् अतीन्द्रियशक्तिविषयत्वात् / न खलु शक्तयः प्रत्यक्षपरिच्छेद्याः अतीन्द्रियत्वात् / नाप्यनुमानपरिच्छेद्याः; प्रत्यक्षाविषये अनुमान10 स्याऽप्रवृत्तेः तत्पूर्वकत्वात्तस्यं / प्रत्यक्षेण हि प्रतिपन्ने प्रतिबन्धे अनुमान प्रवर्तते / न च शक्रतीन्द्रियत्वेन अध्यक्षागोचरत्वे तत: केनचिल्लिङ्गेन सह अस्याः प्रतिबन्धप्रतिपत्तिर्युक्ता / नाप्यन्वयव्यतिरेकाभ्यां तत्प्रतिपत्तिः; प्रत्यक्षाविषये तत्प्रवृत्तेरेवाऽसंभवात् / / नाप्यनुमानात् प्रतिबन्धप्रतिपत्तिः; तद्धि इदमेव, अन्यद्वा तत्प्रतिपत्तौ प्रवर्तेत ? न तावदिदमेव; चक्रकप्रसङ्गात्-सति हि प्रतिबन्धग्रहणे अनुमानप्रवृत्तिः, तद्ब्रहणश्च शक्तिप्रतिरकल्पना साऽर्थापत्तिः।"-प्रक० पं० पृ० 113 / “प्रमितस्यार्थस्य अर्थान्तरेण विनाऽनुपपत्तिमालोच्य तदुपपत्तये याऽर्थान्तरकल्पना सार्थापत्तिः ।"-शास्त्रदी०१० 290 / नयवि० पृ० 152 / तन्त्ररह० पृ०१३। प्रभाकरवि० पृ०५३। (1) "दृष्टः पञ्चभिरप्यस्माद् भेदेनोक्ता श्रुतोद्भवा / प्रमाणग्राहिणीत्वेन यस्मात्पूर्वबिलक्षणा॥"-मी० श्लो० अर्था०श्लो०२। “दृष्टशब्देन यद्यप्युपलब्धमा त्रमुच्यते तथापि श्रुतशब्दसन्निधानात् गोबलीवर्दन्यायेन शब्दप्रमितव्यतिरिक्तमुच्यते।"-बृह०पं० 10117 / मी० श्लो० न्यायर० पृ० 450 / (2) स्फोट-आ० टि०। (3) सादृश्य। (4) सारूप्यविशिष्टगोपिण्डस्य-आ० टि०। (5) उपमानज्ञान / (6) "शक्तयोऽपि च भावानां कार्यार्थापत्तिकल्पिताः। प्रसिद्धाः पारमार्थिक्यः प्रतिकार्य व्यवस्थिताः ।"-मी० श्लो० शन्य० श्लो० 254 / “तेनार्थापत्तिपूर्वत्वमत्र यत्र च कारणे / कार्यादर्शनतः शक्तेरस्तित्वं सम्प्रतीयते। कार्यस्य ननु लिङ्गत्वं न सम्बन्धानपेक्षणात् / दृष्ट्वा सम्बन्धितां चैषा शक्तिर्गम्येत नान्यथा / तद्दर्शने तदानीं च प्रत्यक्षादेरसंभवात् / अर्थापत्तेः प्रमाणत्वं त्रैलक्षण्याद्विना भवेत् / शक्तिकल्पनाप्यर्थापत्तिरेवेत्याह यत्रेति / चोदयति कार्यस्येति / कारणवत्तया शक्तिः कल्प्यते, कार्याच्च कारणबुद्धिरनुमानमिति / निराकरोति नेति / कारणमाह सम्बन्धेति / बीजे सत्यङकुरोत्पत्तिदर्शनाद् बीजकारणत्वमवगम्यते,सत्यपि तस्मिन् मूषिकाघाते अकुरानुत्पत्तेरकारणत्वं तदिदं कारणाकारणत्वव्याघातपरिजिहीर्षया शक्तिकल्पनम् , सम्बन्धज्ञानानपेक्षत्वान्नानुमानम् इतश्च नानुमानमित्याह-दृष्ट्वेति सार्द्धन / सम्बन्धिग्रहणपूर्वकं हि सम्बन्धग्रहणम् , न च शक्तेः प्रत्यक्षग्रहणं सम्भवति अतोऽवश्यं सम्बन्धग्रहणवेलायां शक्तिग्रहणमभ्युपगन्तव्यम् / अर्थापत्तिर्हि त्रैलक्षण्यवजिता शक्नोति तां ग्रहीतुमिति ।"-मी० श्लो० अर्था०, न्यायर० पृ० 462-63 / शास्त्रदी०पृ० 306 / (7) प्रत्यक्षपूर्वकत्वात्। (8) अनुमानस्य। (9) अविनाभावे-आ० टि०। (10) प्रत्यक्षात्-आ० टि। (11) अविनाभाव / (12) अन्वयव्यतिरेक / 1 तज्ज्ञानप्राहकशक्ति-श्र०।