________________ प्रमाणप्र० का० 21 ] अर्थापत्तिप्रमाणनिरासः 505 कुतः ? अविसंवादकत्वात् / किमिव ? इत्याह-उपमानवदिति / एवं नैयायिकमीमांसकयोः प्रमाणान्तरसम्प्लवं तदभिमतप्रमाणसंख्यानियमनाशकं निरूप्य इदानीं मीमांसकाभिताऽर्थापत्तिं विचिन्तयन्नाह-'अर्थापत्तिः' इत्यादि / याऽसौ. "प्रेमाणषटविज्ञातो यत्रार्थोऽनन्यथाभवन् / अदृष्ट कल्पयेदन्यं सार्थापत्तिरुदाहृतौ // " [मी० श्लो० अर्था० श्लो० 1] / इत्येतल्लक्षणलक्षिता मीमांसकैः परिकल्पितार्थापत्तिः सा 'अनुमानात् प्रमाणान्तरं नेवा' इति किन्नश्चिन्तया ? अयमभिप्रायः-अर्थापत्त्युत्थापकार्थस्य सांध्याभावे नियमेनाऽनुपपद्यमानस्य अविनाभावस्वभावलिङ्गलक्षणलक्षितत्वात् लिङ्गत्वमेवोपपपन्नम् / तत्प्रभवश्च ज्ञानमनुमानमेवेति / अत: "प्रत्यक्षमनुमानञ्च शाब्दश्चोपमया सह / . अर्थापत्तिरभावश्च षट्प्रमाणानि जैमिनेः // " [षड्दसमु०श्लो०७२ (?)] इति कुमारिलस्य वदतः प्रमाणसख्याव्याघातः, प्रभाकरस्य च अभाव प्रत्यक्षविशेष वदतः 'पञ्चे प्रमाणानि' इति / ननु चार्थापत्तेः स्वरूपादिभेदात् प्रत्यक्षादिभ्यो भेदप्रसिद्धेः कथं प्रमाणसंख्याव्याअर्थापत्तिः अनुमा - घातः ? तथा च प्रयोगः-अर्थापत्तिः प्रत्यक्षादिभ्यः प्रमाणान्तरम्, 15 नादतिरिक्तं प्रमाणमि- विभिन्नस्वरूपत्वात्, यद्यतो विभिन्नस्वरूपं तत्ततः प्रमाणान्तरं यथा ति वदतो मीमांसक- प्रत्यक्षादनुमानम् , प्रत्यक्षादिभ्यो विभिन्नस्वरूपा चार्थापत्तिरिति। नच स्य पूर्वपक्षः- विभिन्नस्वरूपत्वमसिद्धम् ; तथाहि-तस्याः स्वरूपम् दृष्टः श्रुतो वाऽ (1) एकत्र प्रमेये बहूनां प्रमाणानां प्रवृत्तिः सम्प्लवः / (2) व्याख्या-'यत्र देशकालादौ प्रत्यक्षानुमानोपमानशाब्दार्थापत्त्यभावलक्षणैः षड्भि: प्रमाणैः परिच्छिन्नोऽर्थोऽन्यथा नोपपद्यते यद्येवम्भूतोऽर्थों न भवेदित्येवं या परोक्षार्थविषया कल्पना साऽपित्तिः प्रमाणमुदाहृता शबरस्वामिना ।"-तत्त्वसं० पं० पृ० 456 / (3) उद्धृतोऽयम्-'नान्यथा भवेत्'-मी० श्लो०। प्रश० व्यो० पृ० 590 / तत्त्वार्थइलो० पृ० 216 / सन्मति० टी० पृ० 578 / 'कल्पयत्यन्यं'-तत्त्वसं० पृ० 456 / सन्मति० टी० पृ० 578 / प्रकृतपाठः-प्रमेयक० पृ० 187 / स्या० र० पृ० 276 / रत्नाकराव० 2 / 1 / (4) पीनत्वस्य-आ० टि०। (5) रात्रिभोजनाभावे-आ० टि०। (6) लिङ्गप्रभवञ्च। (7) तुलना"प्रत्यक्षमनुमानञ्च शाब्दञ्चोपमया सह / अर्थापत्तिरभावश्च षडेते साध्यसाधकाः।"-तत्त्व सं०५० पृ० 450 / (8) अर्थापत्तेरनुमानेऽन्तर्भावात् पञ्चसंख्यापत्तेः-आ० टि०। (9) "तत्र पञ्चविधं मानं प्रत्यक्षमनुमा तथा / शास्त्रं तथोपमानाथपित्तीति गुरोर्मतम् ।।”-प्रक० पं० पृ० 127 / (10) प्रमाणसंख्याव्याघात इति सम्बन्धः, तस्य चत्वारि [ एव स्युः]-आ० टि० / (11) "अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यते इत्यर्थकल्पना, यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पना।"-शाबरभा० 11115 / "विना कल्पनयाऽर्थेन दृष्टेनानुपपन्नताम् / नयना दृष्टमर्थं सार्थापत्तिस्तु कल्पना // दृष्टेनार्थेन दृष्टस्यार्यस्यार्थान्तरकल्पनायामसत्यामनुपपत्तिमापादयता साऽर्थान्त 1 इत्यत्राह ब०, श्र०।2-नियमविना-श्र०। 3-सकपरिकल्पि-ब०। 4 न चेदिति ब०.न वेति श्र०। / प्रत्यक्षादिविशेषं ब०, श्र०। 14