________________ 504 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० विवृतिः-दृष्टेष्वर्थेषु परस्परव्यपेक्षालक्षणम् अल्पमहत्त्वादिज्ञानमधरोत्तरादिज्ञानं द्वित्वादिसंख्याज्ञानमन्यच्च प्रमाणमविसंवाकत्वादुपमानवत् / अर्थापत्तिः 'अनुमानात् +प्रमाणान्तरं न वा' इति किन्नश्चिन्तया सर्वस्य पैरोक्षेऽन्तर्भावात्।। तत्समञ्जसं प्रत्यक्षं परोक्षश्चेति द्वे एव प्रमाणे अन्यथा तत्संख्यानवस्थानात् / विकल्पशब्दः प्रत्येकमभिसम्बध्यते, इदमल्पमिति विकल्पः, इदं महदिति विकल्पः, इदं दूरमिति विकल्पः, इदमासन्नमिति कारिकार्थः विकल्पः, इदं प्रांशु इति विकल्पः, तथा अल्पं नेति विकल्पः महन्नेति, दूरं नेति, आसन्नं नेति, प्रांशु नेति / वाशब्दः पक्षान्तरसूचकः / कुतोऽसौ विकल्पो जायते ? इत्याह-'व्यपेक्षातः' इति / आमलकापेक्षया बिल्वं 10 महत् देवदत्तसमीपकूपापेक्षया पर्वतादिकं दूरम् , एवमन्यत्रापि योज्यम् / इदमल्पमित्यादिग्रहणमुपलक्षणम् , तेन अधरोत्तरादिविकल्पस्य द्वित्वादिविकल्पस्य च ग्रहणम्। कासौ जायते ? इत्याह-समक्षेऽर्थे। स किम् ? इत्याह-साधनान्तरं प्रमाणान्तरम्। . कारिकां विवृण्वन्नाह-'दृष्टेषु' इत्यादि। दृष्टेषु प्रत्यक्षेषु अर्थेषु परस्परम् अन्योन्य ___ व्यपेक्षालक्षणं यस्य तत्तथोक्तम् / किं तत् ? अल्पमहत्त्वादिज्ञानम् , विवृतिव्याख्यानम् आदिशब्देन दूरादि गृह्यते / तथा अधरोत्तरादिज्ञानम् अत्रापि आदिशब्देन मध्यादिज्ञानपरिग्रहः / द्वित्वादिसंख्याज्ञानम् , इहापि आदिशब्देन त्रित्वादिसंख्याज्ञानपरिग्रहः / अन्यच्च पूर्वापरादिज्ञानम् / तत्किम् ? इत्याह-प्रमाणम् / यतीत्यर्थः ।"-लघी० ता०पू० 40 / तुलना-“एकविषाणी खङ्गः सप्तपर्णो विषमच्छदः इत्याहितसंस्काराणां पुनस्तत्प्रत्यक्षदर्शिनामभिज्ञानं किन्नाम प्रमाणं स्यात् ? तथा स्त्र्यादिलक्षणश्रवणात् तथाशिनः समभिज्ञानं संख्यादिप्रतिपत्तिश्च पूर्वापरनिरीक्षणात् पश्यताञ्च नामयोजना उपमानवत् सर्व प्रमाणान्तरम् ।"-सिद्धि वि०,टी० पृ०१५०B. परीक्षामु० 35-10 // प्रमाणनय०३१५-६। प्रमाणमी०१।२।४। उद्घतोऽयं श्लोक:-'समक्षार्थे'-स्या० 2010 498 / प्रमेयर० 315 / प्रमाणमी०पू०३५ / (1) तुलना-"तेषां द्वयादिसंख्याज्ञानं प्रमाणान्तरम्, गणितज्ञसंख्यावाक्याहितसंस्कारस्य प्रतिपाद्यस्य पुनर्रयादिषु संख्याविशिष्टद्रव्यदर्शनादेतानि द्वयादीनि तानीति संज्ञासंज्ञिसम्बन्धप्रतिपत्तिद्वर्यादिसंख्याज्ञानप्रमाणफलमिति प्रतिपत्तव्यम् / तथोत्तराधर्यज्ञानं सोपानादिषु स्थविष्ठज्ञानं पर्वादिषु महत्त्वज्ञानं स्ववंशादिषु, संस्थानज्ञानं व्यस्रादिषु, वक्रर्वादिज्ञानञ्च क्वचित्प्रमाणान्तरमायातम् / " -तत्त्वार्थश्लो० पृ० 242 / (2) तुलना-"अनुमानोपमानागमापत्तिसंभवाभावान्यपि प्रमाणानीति केचिन्मन्यन्ते तत्कथमेतदिति ? अत्रोच्यते-सर्वाण्येतानि मतिश्रुतयोरन्तर्भूतानि इन्द्रियार्थसन्निकर्षनिमितत्वात् ।"-तत्त्वार्थाधि० भा० 1 / 12 / “उपमानार्थापत्त्यादीनामत्रवान्तर्भावात्"-सर्वार्थसि०११११ / "अर्थापत्त्यादेरनुमानव्यतिरेकेऽपि परोक्षेन्तर्भावात् ।"-अष्टश०, अष्टसह० पृ० 281 / (३)तुलना"तरुपङ क्त्यादिसन्दृष्टौ एकपादपदर्शनात्। द्वितीयशाखिविज्ञानादाद्योसाविति निश्चयः॥ प्रमाणान्तरमासक्तं सादृश्याद्यनपेक्षणात् ।"-तत्त्वसं० पृ० 450 / 1 परस्परं व्य-ई० वि०। 2 अल्पबहुत्वादि-ई० वि०। / एतन्दतर्गतः पाठो नास्ति ई० वि० / 3 जात ब०। 4 दृष्टेत्यादि ब०। / इत्यत्राह ब०, श्र० /