SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रमाण० का० 21 ] उपमानप्रमाणनिरासः 503 कारिकां विवृण्वन्नाह-'आगम' इत्यादि / यो यस्य अविसंवादकः पुरुषः स तस्य ___ आप्तः तस्य वचनम् आगमः तेन आहितः संस्कारो यस्य तदर्थदर्शिन विवृतिव्याख्यानम्- - - आगमार्थदर्शिनः तन्नामप्रतिपत्तिः आगमार्थाभिधानप्रतिपत्तिः साकल्येन अनवयवेन या काचित् तदर्थदर्शिनः तन्नामप्रतिपत्तिः सा प्रमाणमप्रमाणं वा ? 'स्यात्' इत्यध्याहारः / यदि प्रमाणम् ; प्रमाणसंख्याव्याघातः / अथ अप्रमाणम् ; 5 तर्हि उपमानमप्यप्रमाणं स्यादविशेषात्, अतः स एव तत्संख्याव्याघातः / ननु तस्य तत्प्रतिपत्तिरुपमानमेव तचं प्रमाणमिष्टमेव इत्युक्तदोषानवकाश इत्याशङ्क्याह-'न पुनः' इत्यादि / न पुनः नैव उपमानमेव तत्प्रतिपत्तिरित्यनुवर्तते / किन्तु ततोऽन्यापि विद्यते इत्यभिप्रायः / अत्रोदाहरणमाह-'यथा' इत्यादि / 'यथा' इत्युदाहरणप्रदर्शने, एतस्मानगरादेः पूर्व पश्चिममुत्तरं दक्षिणं वा ग्रामधानकं ग्रामविशेषस्येयं संज्ञा एतन्ना- 10 मकं एतदनिर्दिष्टं नाम यस्य तत्तथोक्तम् इत्येवमाहितसंस्कारस्य पुंसः पुनस्तद्दर्शिनो यत् तत् 'एतस्मात्' इत्यनेन 'ग्रामधानकम्' इत्यनेन चोक्तम् तत्पश्यतीत्येवंशीलस्य तमामप्रतिपत्तिः ग्रामधानकनामप्रतिपत्तिः। चशब्दोऽत्र द्रष्टव्यः। एतस्मात्' इत्यनेन अपेक्षं प्रत्यक्षार्थान्तरमुक्तम् 'पूर्वम्' इत्यादिना तु तदपेक्षं ग्रामधानकम्। अंत ऐवाऽस्य विशेषः / भवतु इयं प्रमाणं को दोषः इति चेत् ? अत्राह-'कश्च' इत्यादि / कश्च? 15 न कश्चिद् अयम् परेणोच्यमानो निश्चयोऽवश्यंभावः। कोऽसौ ? इत्याह-संज्ञासंज्ञिसम्प्रतिपत्तिसाधनमेव समक्षेऽथै प्रमाणान्तरं न पुनः संख्यादिप्रतिपत्तिसाधनमिति किन्तु तदपि स्यादिति भावः / एतदेव दर्शयन्नाह इदमल्पं महद्दरमासन्नं प्रांशु नेति वा / व्यपेक्षातः समक्षेऽर्थे विकल्पः साधनान्तरम् // 21 // 20 (1) तुलना-"रजस्तमोभ्यां निर्मुक्तास्तपोज्ञानबलेन ये। येषां त्रिकालममलं ज्ञानमव्याहतं सदा // आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम् / सत्यं वक्ष्यन्ति ते, कस्मादसत्यं नीरजस्तमाः॥" -चरक० सू०११६१८-१९। “आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा।"-न्यायभा० 1 / 17 / सांख्यका० माठर० का०५ / युक्तिदी० ए० 46 / “आप्तेनोच्छिन्नदोषेण सर्वज्ञेनागमेशिना। भवितव्यं....."-रत्नक० श्लो० 5 / 'यो यत्राविसंवादकः स तत्राप्तः ततोऽपरोनाप्तः।"-अष्टश० अष्टसह पृ० 236 / (2) आगमार्थदर्शिनः / (3) तन्नामप्रतिपत्तिः। (4) उपमानम्। (5) नगरादि:-आ० टि०१(६) प्रसिद्धसाधाद्यभावात-आ० टि०। (7) नामप्रतिपत्तिः-आ० टि०। (8) द्वित्वादिसंख्याया अपि अपेक्षाबुद्धिजन्यत्वात् प्रमाणान्तरत्वप्रसक्तिरिति भावः -आ० टि०। (9) “साधनान्तरं प्रमाणान्तरं स्यात् / किम् ? विकल्पो निश्चयः / तस्योल्लेखमाहइदमस्मादल्पम्, इदमस्मान्महत्, इदमस्मादासन्नम्, इदमस्मात्प्रांशु दीर्घञ्च, इदमस्मान्न प्रांशु इति / वाशब्द: परस्परसमुच्चये / कस्मिन् ? समक्षे प्रत्यक्षे पदार्थे / कुतः ? व्यपेक्षातः, विरुद्धस्य प्रतिपक्षस्यापेक्षा कथञ्चिदजहदवत्तिः तत इति / एवम अल्पमहत्त्वादिसङ्कलनमपि परप्रमाणसंख्यानियम विघट 1-तरं वा प्रा-श्र०। 2-नाचतव-ब०, श्र०13 एव योऽस्य आ०14-संज्ञिप्रतिपत्ति-श्र०।
SR No.004327
Book TitleNyayakumudchandra Part 2
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1941
Total Pages634
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy