________________ 502 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० निश्चयवचनम् अंशाब्दस्य मीमांसकसम्बन्धिनः शाब्दस्य च नैयायिकसम्बन्धिनो निश्चयस्य सङ्ग्रहार्थम्, तेन मीमांसकं प्रति यद् व्याख्यानं तदपि सङ्ग्रहीतम् , इतरथा 'अगवयनामनिश्चयः' इति ब्रूयात् / अथ अगवयज्ञानं प्रमाण न भवतीत्युच्यते; अनोत्तरमाह-'हानोपादान' इत्यादि / हानोपादांनोपेक्षाप्रतिपत्तिः फलं यस्य अगव5 यज्ञानस्य तन्न अप्रमाणं भवितुमर्हति किन्तु प्रमाणमेव तदिति प्रमाणेयत्ताव्याघातः / तथाऽपरमपि परस्याऽनिष्टं प्रमाण दर्शयन्नाह प्रत्यक्षार्थान्तरापेक्षा सम्बन्धप्रतिपद्यतः। तत्प्रमाणं न चेत्सर्वमुपमानं कुतस्तथा ? // 20 // विवृतिः-आगमाहितसंस्कारस्य तदर्थदर्शिनः तन्नामप्रतिपत्तिः साकल्येन 10 प्रमाणमप्रमाणं वा न पुनरुपमानमेव / यथा एतस्मात् पूर्व पश्चिममुत्तरं दक्षिणं वा ग्रामधानकमेतन्नामकमित्याहितसंस्कारस्य पुनस्तद्दर्शिनः तन्नामप्रतिपत्तिः / कश्चायं निश्चयः संज्ञासंज्ञिसम्प्रतिपत्तिसाधनमेव समतेऽर्थे प्रमाणान्तरं न पुनः संख्यादिप्रतिपत्तिसाधनमिति ? प्रत्यक्षश्च तदर्थान्तरञ्च तस्य अपेक्षा यस्यां सा तथोक्ता / कासौ ? इत्याह सम्बन्धप्रतिपत् वाच्यवाचकयोः यः सम्बन्धः तस्य प्रतिपत्तिः यतः यस्मात् 'जायते' इत्यध्याहारः, तत्प्रमाणम् / तदनभ्युपगमे दूषणमाह-'न चेत्' इत्यादि / न चेत् प्रमाणं सर्व मीमांसक-नैयायिककल्पितम् उपमानम् कुतः? न कुतश्चित् प्रमाणमिति सम्बन्धः तथा तेन तदप्रामाण्यप्रकारेण। (1) मीमांसका हि सादृश्यज्ञानमुपमानंकथयन्ति अतस्तेषामुपमानं न शब्दात्मकम् / (2) नैयायिकास्तु संज्ञासंज्ञिसम्बन्धज्ञानमुपमानं वर्णयन्ति अतस्तेषामभिप्रायेण तच्छाब्दबोधात्मकं भवति / (3) सूत्रकार:-आ० टि० / अकलङ्कदेवः / (४)"यतो यस्माज्ज्ञानाद् भवति / का? सम्बन्धप्रतिपत् सम्बन्धस्य वाच्यवाचकभावस्य प्रतिपत् ज्ञप्तिः / किं विशिष्टा? प्रत्यक्षार्थान्तरापेक्षा, प्रकृतात् शब्दलक्षणादर्थादन्योऽर्थोऽर्थान्तरं प्रत्यक्षं च तदर्थान्तरञ्च प्रत्यक्षार्थान्तरं वृक्षादि तत्तथोक्तम् , तस्यापेक्षा यस्यां सा प्रत्यक्षार्थान्तरापेक्षा / तज्ज्ञानं चेद यदि न प्रमाणं स्यात्तदा तहिं सर्व नैयायिकमीमांसकादिकल्पितमुपमानं कुतः प्रमाणं स्यादविशेषात् / न हि सादृश्यसम्बन्धज्ञानं प्रमाणं न पुनर्वाच्यवाचकसम्बन्धज्ञानमिति विशेषोऽस्ति। ततः संज्ञासंज्ञिसङ्कलनमपि प्रमाणान्तरमेव भविष्यतीति कुतः प्रमाणसंख्यानियमः?"लघी० ता० पृ०४०। (5) तुलना-"तथा अस्मात्पूर्वमिदं पश्चाद्दीर्घ ह्रस्वमिदं महत् / इत्येवमादिविज्ञाने प्रमाऽनिष्टा प्रसज्यते॥"-तत्त्वसं०५० पृ० 450 / तत्त्वार्थश्लो० पू०२४२। (6) उपमानम्-आ० टि। 1 असादृश्यामीमां-ब०। 2 सादृश्यं च ब०। 3 इतरथा गव-आ०, ब०। 4-दानोपेक्षाः फलं आ०, ब०। 5-धानकं ये तन्ना-ई०वि०। 6 संज्ञामम्प्र-ज० वि०। 7 यस्याः सा श्र०। 8-स्माज्जायते श्र० / 9-ल्पितं कुतः ब०, आ० /