________________ प्रमाणप्र० का 0 16] उपमानप्रमाणनिरासः लिङ्गमेव तल्लक्षणत्वात् लिङ्गस्य / अथ तथात्वेन तदनिर्णीतं तत्र दूषणमाह-'ततः' इत्यादि / ततः प्रसिद्धार्थसाधर्म्यात् प्रतिपत्तिः साध्यसंवित्तिः अन्यथा अन्यथानुपपन्नत्वनिर्णयाभावप्रकारेण न युज्यते / 'प्रत्यक्ष' इत्यादिना प्रथमं कारिकार्द्ध क्याचष्टे-प्रत्यक्षे दर्शनेन विषयीकृते अर्थे गवयलक्षणे 'गवयः' इति संज्ञा तस्या गवयलक्षणोऽर्थः संज्ञी तयोर्वाच्यवाचकभावलक्षणः सम्बन्धः तस्य प्रतिपत्तेः / 'गवयोऽयम्' इति संवित्तेः प्रमाणान्तरत्वे अङ्गीक्रियमाणे दूषणमाह-'वृक्ष' इत्यादि / अयं दृश्यमानो भावः वृक्षः इति यत् ज्ञानं तत् 'प्रमाणान्तरं स्यात्' इत्यध्याहारः / कस्य तज्ज्ञानम् ? इत्याह-वृक्षदर्शिनः। अत्र निदर्शनमाह-'गवय' इत्यादि / 'अयं गवयः' इति ज्ञानं यथा गवयदर्शिनः उपमानाख्यं प्रमाणान्तरं तथा प्रकृतमपि तदन्तरं स्यात् / उपमानं कस्मात् तन्न भवतीति चेत् ? अत्राह-'प्रसिद्ध' इत्यादि / 10 प्रसिद्धार्थसाधाद् या साध्यसिद्धिः तस्या अभावात् तत्प्रमाणान्तरम् / कथं तज्ज्ञानमुत्पद्यत इति चेत् ? उच्यते वृक्षानभिज्ञो यदा कश्चित् कश्चित् पृच्छति 'कीदृशो वृक्षः' इति ? स तं प्रत्याह-शाखादिमान वृक्षः' इति / तद्वाक्याचाहितसंस्कारः प्रष्टा पुनः शाखादिमन्तं पदार्थं पश्यन् 'अयं वृक्षः' इति प्रतिपद्यते / अनेन च तद्वैधात् तत्प्रतिपत्तिवैलक्षण्यात् इत्ययमर्थो व्याख्यातः। . 16 तथाऽपरमपि प्रमाणान्तरं परस्य आपादयितुं 'गौरिव' इत्याद्याह / अस्यायमर्थःयदा कश्चिदाटविकः नगरस्थेन 'कीदृशो गवयः' इति पृष्टः इदमाह-गौरिव गवयः' इति / तदा तस्य नागरकस्य 'गौरिव गवयः' इत्येवं वाक्यं श्रुत्वा पर्यटतो गंवयदर्शिनः तन्नामप्रतिपत्तिवत् / तच्छब्देन दृष्टो गवयः परामृश्यते, तस्य 'गवयः' इति नाम तस्य प्रतिपत्ति: सेर्वं तद्वदिति / प्रत्यक्षेषु दर्शनविषयीकृतेषु इतरेषु प्रसिद्धार्थ- 20 विसदृशेषु तिर्यक्षु महिष्यादिषु तस्यैव 'गौरिव गवयः' इति वाक्यं श्रुतवतः पुनः पश्चाद् 'अगवयोऽयम्' इति निश्चयः किन्नाम किमभिधानं प्रमाणं स्यात् ? सामान्येन (1) तुलना-“योऽप्ययं गवयशब्दो गोसदृशस्य वाचकः' इति प्रत्ययः सोऽप्यनुमानमेव / यो हि शब्दो यत्र वृद्धः प्रयुज्यते सोऽसति वृत्त्यन्तरे तस्य वाचकः यथा गोशब्दो गोत्वस्य, प्रयुज्यते चैवं गवयशब्दों गोसदृशे इति तस्यैव वाचक इति तज्ज्ञानमनुमानमेव।"-सांस्यतत्त्वको० पृ० 40 / न्यायली० पृ० 56 / वैशे० उप०पृ० 337 / (2) अन्यथानुपपत्तिलक्षणत्वात्। (3) तुलना-"वृक्षोऽयमित्यादि"परीक्षाम० 3 / 10 / प्रमेयक० पृ० 347 / (4) प्रमाणान्तरम-आ० टि०। (५)न पनरुपमानरूपमआकटि०। (६)महिष्यादिषु वैधात् प्रमाणान्तरत्वापत्ति:-आ० टि०। (7) ग्रहणवाक्यम्-आ० टि०। (8) यथा तन्नामप्रतिपत्तिर्भवतः प्रमाणान्तरं तथा गवये दृष्टेऽर्थप्रतिपत्तिः प्रमाणान्तरं प्राप्नोति इति भावः-आ० टि० / 1 अथातथा-आ०। 2 तत्प्रसिद्धा-ब०। 3 प्रत्यक्षत इत्या-श्र०। 4 वृक्षोऽयमित्या-श्र०। 5 गवयोऽयमित्या-श्र०, ब०। 6 वृक्षाज्ञो आ०, वृक्षायज्ञो ब०। 7 तेन च आ०। 8 ध्याख्यायते ब०। 9 गवय इति दर्शिनः श्रः।