________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० सप्तपर्णैर्विषमच्छदः' इत्येवमादिवाक्यैर्जनितसंस्कारस्य यथोक्तविशेषणविशिष्टं राजादिकं पश्यतः 'अयमसौ राजा' इत्येवमादिर्या संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरुत्पद्यते सा भवन्मते प्रमाणचतुष्टयानन्तर्भूतत्वात् प्रमाणान्तरं स्यात् / न ह्यसौ उपमानम् ; प्रसिद्धसाधानपेक्षणात् / नाप्यागमः; तत्प्रतीतौ सिंहासनाधिरूढत्वादेरुपायान्तरस्योपदेशात् / तथाप्यस्य आगमेऽन्तर्भावे उपमानस्यापि तत्रान्तर्भावोऽस्तु अविशेषात् / ___ एतेन 'वाच्यसवित्त्यपेक्षणात्' इत्यपि प्रतिव्यूढम् ; उक्तप्रतीतेस्तदपेक्षणेऽपि ऑगमे अन्तर्भावाऽभ्युपगमात् / ननु उपायान्तरादर्थप्रतीतावपि उपमानस्य आगमेऽन्तर्भावाभ्युपगमे 'अग्निमानयं पर्वतो धूमवत्त्वात् महानसवत्' इत्यादेः परार्थानुमानस्य कुतस्तत्रान्तर्भावो न स्यादिति चेत् ? 'अनुमानकारणकार्यत्वात्' इति ब्रूमः / तथाहि-प्रतिपादकस्वार्थानुमानकार्यत्वात् प्रतिपाद्यस्वार्थानुमानकारणत्वाच वचनरूपस्यापि परार्थानुमानस्य अनुमानता ने विरुध्यते / नचैतद् भवत्कल्पितोपमाने संभवति / न खलु उपदिष्टप्रसिद्धसाधर्म्यलक्षणोपायादर्थप्रतीतिं विहाय अन्यदुपमानं किश्चिद् भवतः .. प्रसिद्धमस्ति यत्कारणकार्यतया अस्य उपदेशप्रभवस्याप्युपमानता स्यादिति / एतेन वृद्धनैयायिकैर्यदुक्तंमुपमानलक्षणम्-'प्रसिद्धतरयोः सारूप्यप्रतिपादकम15 तिदेशवाक्यमेव उपमानम्' इति; तदपि प्रत्याख्यातम् ; अतिदेशवाक्यात्मनोऽस्य आगम स्वभावतया उपमानत्वायोगात् / किश्चिद्विशेषमादाय अस्य अनागमस्वभावत्वाभ्युपगमे प्राक्प्रतिपादिताशेषदोषानुषङ्गः स्यात् / ततो गोगवययोः सारूप्यपरामर्शात्मकं ज्ञानमेव प्रत्यभिज्ञाख्यं मुख्यतः उपमानं युक्तं नान्यदिति प्रेक्षादक्षैः प्रतिपत्तव्यम्, अत्र उक्तदोषाणां लेशतोप्यवकाशासंभवात् // छ / कारिकायामनुक्तमपि दूषणं 'प्रसिद्ध' इत्यादिना दर्शयन्नाह-प्रसिद्धार्थसाधर्म्यम् विवृतिव्याख्यानम्- अन्यथानुपपन्नत्वेन साध्याभावप्रकारेण निर्णीतं चेत् यदि तर्हि दीनवलोक्य तथा सत्यापयति यदा तदा तत्सङ्कलनमपि प्रत्यभिज्ञानमुक्तं दर्शनस्मरणकारणत्वाविशेषात् / परेषां तु तत्प्रमाणान्तरमेवोपपद्यत उपमानादौ तस्यान्तर्भावाभावात्।"-प्रमेयर पृ०८४ / स्या०र० पृ०४९८ प्रमाणमी० ए०३४ / जनतर्कभा०पृ०१०। (1) नैयायिकमते / (2) तुलना-"वाक्यादेव सङ्केतस्य प्रतीतत्वात् / तथाहि-सादृश्यवाक्य. स्यायमर्थो यो गोसदृशः स गवय इत्येवं व्यवहर्त्तव्यः। स च वाक्यादुपलब्धसङ्केतः सादृश्यावच्छिन्नं पिण्डमुपलभमानः परं व्यवहरति अयं गवय इति।"-प्रश० व्यो० पृ० 589 / "उपमानं तावत् यथा गौस्तथा गवय इति वाक्यम् , तज्जनिता धीरागम एव ।"-सांख्यतत्त्वको० पृ० 39 / वैशे० उप० पृ० 337 / (3) अतिदेशवाक्यावगतप्रसिद्धपिण्डसारूप्यज्ञानात्। (4) आगमे-आ० टि०। (5) “तद्वचनमपि तद्धेतुत्वात्"-परीक्षामु० 3.56 / (6) संज्ञासंज्ञिसम्बन्धस्य-आ० टि०। (7) अतोऽस्यागमेऽन्तर्भावो युक्त इति तात्पर्यम्-आ० टि० / (8) पृ० 497 509 / ___1-विशेषविशि-श्र०। 2-माविकायाः सं-ब०,-मादित्यासं-श्र०। 8-सौ तु उप-श्र० / 4-सौ हि सिंहा-श्र०। 6-तः प्रमाणं युक्तं ब०। 6-वादिति ब।