________________ प्रमाणप्र० का 0 16] उपमानप्रमाणनिरासः अतिदेशवाक्योच्चारणवैयर्थ्यश्च / यत् यत्पतिपत्त्यर्थिनः तद्विषयां प्रतिपत्तिं मनागपि नोत्पादयति न तत्तं प्रति प्रेक्षावद्भिः प्रयुज्यते यथा जलपतिपत्त्यर्थिनोऽनलवाक्यम्, नोत्पादयति च गवयप्रतिपत्त्यर्थिनः तत्प्रतिपत्ति मनागपि अतिदेशवाक्यमिति / अथ विशेषतः; तदा आगमप्रमाणाय दत्तो जलाञ्जलिः, तस्य प्रत्यक्षवत् देशकालाकारविशेषतः कचिदपि विषये विज्ञानजनकत्वासंभवात्, सामान्यत एवागमात् सर्वत्र 5 संवित्तिसंभवात् / अथ तत्प्रतीत्युपायस्य अपरस्योपदेशान्नास्य आगमफलत्वम् , यत्र हि शब्दप्रत्ययादेव अर्थतथात्वम् उपायान्तरनिरपेक्षमवधार्यते स आगमः, यत्र तु पुरुषः अर्थप्रतीतौ उपायान्तरमपरमुपदिशति तत्र तत एवोपायात् प्रसिद्धसाधादिलक्षणात् संज्ञासंज्ञिसम्बन्धाद्यवधारणम् , उपायमात्रावगम एव तु शब्दव्यापार इति; तदसाम्प्रतम् ; 10 शब्दव्यापारप्रभवस्याप्यस्य एतावता विशेषेण यद्यागमात् प्रमाणान्तरत्वमिष्यते, तदा प्रमाणानामानन्त्यप्रसङ्गात् नैयायिकस्य चत्वारि प्रमाणानि' इति संख्याव्याघातः स्यात् / तथाहि-'यः सिंहासनाधिरूढः स राजा, पयोऽम्बुभेदी हंसः, षट्पादैः मधुपः, (1) गवयप्रतिपत्त्यर्थिनोऽतिदेशवाक्योच्चारणं व्यर्थम् तत्प्रतिपत्त्यजनकत्वात् / (2) “ननु शब्दस्वभावत्वादस्याप्तोपदेशः शब्दः इत्यनेन गतार्थत्वान्नेदं प्रमाणान्तरं भवेत् ....."उच्यते-यत्र / शब्दप्रत्ययादेव तत्प्रणेतृपुरुषप्रत्ययादेव वा अर्थतथात्वमुपायान्तरानपेक्षमवगम्यते स आगम एव ततस्तदर्थप्रतीतेः। यत्र तु पुरुषः प्रतीत्युपायमपरमुपदिशति तत्र तत एवोपायात्तदर्थावधारणम् / उपायमात्रावगमे तु शब्दव्यापारः, यथा परार्थानुमाने अग्निमानयं पर्वतो धूमवत्त्वान्महानसवदिति / अत्र हि न पुरुषोपदेशविश्वासादेव शैलस्य कृशानुमत्तां प्रतिपत्ता निमित्तान्तरनिरपेक्षः प्रतिपद्यते अपि तु तदवबोधकधूमाख्यलिङ्गसामर्थ्यादेव / तदिह यद्याटविको नागरकाय गवयार्थिने तदवगमोपायं प्रसिद्धसाधयं नाभ्यधास्यत्तर्हि तदुपदेश आगम एव अन्तरभविष्यत् / तदुपदेशात्तु तत एव तदर्थावगम इति सत्यपि शब्दस्वभावत्वे प्रमाणान्तरमेवेदम् ।"-न्यायमं० 10 142 / (3) उपायान्तरनिर्देशमावादेव / (4) "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ।"-न्यायसू० 1 / 1 / 3 / (5) तुलना-"अनन्तोपायजन्याश्च समाख्यायोगसंविदः / साधर्म्यमनपेक्ष्यापि जायन्ते नरपादिषु // सितातपत्रपिहितबध्नपादो नराधिपः / तेषां मध्य इति प्रोक्त उपदेशविशेषतः // कालान्तरेण तदृष्टौ तन्नामास्येति या मतिः। सा तदाऽन्या प्रमा प्राप्ता साधाद्यनपेक्षणात् ॥"-तत्त्वसं० पृ० 455 / “ननु चाप्तोपदेशात् प्रतिपाद्यस्य तत्संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरागमफलमेव ततोप्रमाणान्तरमिति चेत; तर्हि आप्तोपदिष्टोपमानवाक्यादपि तत्प्रतिपत्तिरागमज्ञानमेवेति नोपमानं श्रुतात्प्रमाणान्तरम्। सिंहासनस्थो राजा, मञ्चके महादेवी, सुवर्णपीठे सचिवः, एतस्मात्पूर्वत एतस्मादुत्तरत एतस्माद्दक्षिणत एतन्नामाणवयं (नामकमिदं) ग्रामवानक ( ग्रामधानक ) मित्यादिवाक्याहितसंस्कारस्य पुनस्तथैव दर्शनात् सोऽयं राजेत्यादि संज्ञासंज्ञिसम्बन्धप्रतिपत्ति:, षडाननो गुहश्चतुर्मुखो ब्रह्मा तुङ्गनासो भागवतः क्षीराम्भोविवेचनतुण्डो हंसः सप्तच्छद इत्यादिवाक्याहितसंस्कारस्य तथाप्रतिपत्तिर्वा यद्यागमज्ञानं तदा तद्वदेवोपमानमवसेयं विशेषाभावात् ।"-तत्त्वार्थश्लो० पृ० 243 / “पयोम्बुभेदी हंसः स्यात् षट्पादभू मरः स्मृतः। सप्तपर्णैस्तु तत्त्वजैविज्ञेयो विषमच्छदः // पञ्चवर्णं भवेद्रत्नं मेचकाख्यं पृथुस्तनी। युवतिश्चैकशृङ्गोपि गण्डकः परिकीर्तितः // शरभोऽप्यष्टभिः पादः सिंहश्चारुसटान्वितः / इत्येवमादिशब्दश्रवणात्तथाविधानेव मराला 1 जलप्रत्यधि-ब०। 2 यत्र पुरु-ब०।