________________ 19 468 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० नागरकस्य अटव्यां गवयं पश्यतः प्रसिद्धपिण्डसारूप्यज्ञानं तत्सम्बन्धप्रतिपत्तिं विदध्यात् / अथ तैद्वाक्यश्रवणसहायस्यैवास्य तत्प्रतिपत्तिजनने सामर्थ्य न केवलस्य, तेनायमदोषः; तर्हि श्रुतविस्मृतातिदेशवाक्यस्यापि प्रतिपत्तुः तत् तत्प्रतिपत्तिं विदध्यात् / अथ तत्स्मृतिसहायं सत् तत् तत्प्रतिपत्तेरङ्गम् ; तर्हि प्रत्यभिज्ञानप्रसादादेव साक्षात् 5 तत्प्रतिपत्तिरङ्गीकृता स्यात् , तस्यैव गोगवययोः सादृश्यपरामर्शद्वारेण संज्ञासंज्ञिसम्बन्ध प्रतिपत्तिहेतुत्वोपपत्तेः। तत्स्मृतिसहायेन हि गवयप्रत्यक्षेण उपलब्धोपलभ्यमानयोः गोगवययोः सारूप्यपरामर्शिप्रत्यभिज्ञाख्यं ज्ञानं जन्यते अन्यतस्तत्परामर्शायोगात् / नहि गवयप्रत्यक्षं गोस्मरणमुभयं वा तत्पराम्रष्टुं समर्थमित्युक्तं मीमांसकोपकल्पितोपमानविचारावसरे / तेनं च तत्परामर्श कुर्वता संज्ञासंज्ञिसम्बन्धप्रतिपत्तिर्विधीयते इति / एतेन ‘परम्परया तत्प्रतिपत्त्यङ्गस्य उपमानता' इत्यपि प्रत्युक्तम् ; साक्षात् तत्सम्बन्धप्रतिपत्त्यङ्गप्रत्यभिज्ञानजनकत्वेन प्रसिद्धसारूप्यज्ञानादेरपि उपचारेण उपमानताभ्युपगमे सिद्धसाध्यताप्रसङ्गात्। चक्षुरादिना अतिप्रसङ्गाच्च; तस्यापि परम्परया तज्जनकत्व... संभवात् / ततः 'तद्धि इन्द्रियजनितमपि' इत्यादि प्रत्याख्यातम् ; प्रत्यभिज्ञानस्यैव इन्द्रि यागोचरसंज्ञासंज्ञिसम्बन्धप्रतिपत्तिप्रसाधनात् प्रमाणान्तरत्वोपपत्तेः / 15 . यदप्युक्तम्-'नाप्यागमस्य तत्फलम्' इत्यादि; तत्र सिद्धसाधनमेव, तत्सम्बन्ध ज्ञानस्य-प्रत्यभिज्ञानफलत्वात् / किञ्च, शब्दादनुत्पद्यमानत्वाद्वास्य आगमाऽफलत्वम् , तत्प्रतीतावुपायस्य अपरस्योपदेशात् , वाच्यसंवित्त्यपेक्षणाद्वा ? तत्राद्यपक्षे किं सामान्यतोऽतिदेशवाक्यात् संज्ञासंज्ञिसम्बन्धज्ञानानुत्पत्तिः, विशेषतो वा ? यदि सामान्यतः; तदा 'अयमसौ गवयः यस्य मया पूर्व संज्ञा श्रुता' इत्येवमाकारा प्रतिपत्तिरतिदुर्घटा स्यात् , - (1) प्रसिद्धपिण्डसारूप्यज्ञानस्य। (2) अतिदेशवाक्य / (3) प्रसिद्धपिण्डसारूप्यज्ञानम् / (4) गवयप्रत्यक्षात्-आ० टि०। (5) पृ० 494 पं० 12 / (6) प्रत्यभिज्ञानेन / (7) साक्षात्सम्बन्धबोधकारणं यत् प्रत्यभिज्ञानं तस्य जनकत्वेन, कारणे कार्योपचारादित्यर्थः / (8) 104965010 // (9) 50 497 पं०४। (10) तुलना-"यादृशो गौस्तादृशो गवय इति श्रुतातिदेशवाक्यस्य बने गवयमपलभमानस्यायं गवय इति प्रतीतिरुपमानफलमुच्यते / तत्र तावद् गोसदृशो गवय इति प्रथमावगतिः पुरुषवाक्यमात्रप्रभवा नोपमानं भवति / यदपि वनगतस्य गवये तद्गते च गोसादृश्य ज्ञानं तदपि प्रत्यभिज्ञाप्रत्यक्षम् / या त्वेतस्य गवयशब्दवाच्यतावगति: सापि गवयशब्दप्रयोगादानुमानिकी / यस्य शब्दस्य यत्र प्रयोगः तस्य तद्वाच्यतया सम्बन्धनियमोऽवगतः / वने च सञ्जिनमुपलभ्यतस्यैव सा मया सञ्ज्ञाऽवगतेति तज्ज्ञानं स्मरणमेवेति नोपमानस्यावकाशः।"-प्रक०६० पृ०११२। प्रश०क० पृ० 22122 / “तथा गोसदृशो गवय इति सङ्केतकाले गोसदृश-गवयाभिधानयोः वाच्यवाचकसम्बन्ध प्रतिपद्य पुनर्गवयदर्शनात्तत्प्रतिपत्तिः प्रत्यभिज्ञेति किन्नेष्यते ?"-प्रमेयक० पृ० 347 / स्या० र०प० 498 / (11) “न निराकाङक्षताबुद्धिस्तदानीमुपजायते / तदुत्पादनपर्यन्तःशब्दव्यापार इष्यते // न चासौ निर्वहत्यत्र वाच्यसंवित्त्यपेक्षणात् / शब्देन तदनिर्वाहान्न स्वकार्यं कृतं भवेत् ॥"-ज्यायम०पू०१४४ / ' 1 तद्वाक्यात् श्रव-ब० / 2-पत्तुस्तत्प्रति-श्र०। 3-यं सत्तत्प्रति-ब० / 4-जनकमपि ब० / 6-त्तिरितिदुर्घ-ब०।