________________ प्रमाणप्र० का० 16] उपमानप्रमाणनिरासः 467 गवयः' इति स्मृत्वा प्रतिपद्यते 'अयं स गवयशब्दवाच्यः' इति / तदेतत् संज्ञासंशिसम्बन्धज्ञानं प्रत्यक्षाद्यजन्यत्वात् उपमानफलम् / नहि प्रत्यक्षस्य तत्फलम् ; वनस्थगवयाकारमात्रपरिच्छेदफलत्वात्तस्य / नाप्यनुमानस्य; पक्षधर्म-अन्वय-व्यतिरेकादिसामग्रीमन्तरेणापि संज्ञासंज्ञिसम्बन्धप्रतिपत्तेरुत्पादप्रतीतेः / नाप्यागमस्य तत्फलम् ; न खलु नागरकः प्रतिपत्ता आरण्यकवाक्यादेव अरण्यस्थप्राणिनं गवयशब्दवाच्यतया 5 प्रतिपद्यते, किन्तु सारूप्यं प्रसिद्धेन गवा तस्य पश्यन् / नहि गवयादर्शने 'अयं स गवयशब्दवाच्यः' इति संज्ञासंज्ञिसम्बन्धप्रतीतिर्युक्ता अतिप्रसङ्गात् / तदर्शने तु तदेव 'श्रुतातिदेशाक्यस्य हि' इत्यायुक्तप्रकारेण तत्प्रतीतिफलमुपमानमुच्यते इति / / वृद्धनैयायिकास्तु प्रसिद्धेतरयोः सारूप्यप्रतिपादकमतिदेशवाक्यमेव उपमानं वर्णयन्ति / गवयार्थी हि नागरकः अनवगतगवयस्वरूपः तदभिज्ञमारण्यकं पृच्छति 10 'कीदृशो गवयः' इति ? स तं प्रत्याह-'यादृशो गौः तादृशो गवयः' इति / तदेतद्वाक्यम् अप्रसिद्धस्य गवयस्य प्रसिद्धेन गवा सारूप्यमभिदधत् तद्द्वारकम् अप्रसिद्धस्य पशोः गवयसंज्ञाभिधेयत्वं ज्ञापयति इत्युपमानमुच्यते इति // छ / अत्रोच्यते / यत्तावदभिनवनैयायिकैरभिहितम्-'श्रुतातिदेशवाक्यस्य' इत्यादि; पनि विद्याप तत्र किं साक्षात् संज्ञासंज्ञिसम्बन्धप्रतिपत्त्यङ्गस्य उपमानता उच्येत, 15 उपमानस्य सादृश्य- . परम्परया वा ? प्रथमपक्षे न मीमांसकोपवर्णितोपमानादस्य कश्चिप्रत्यभिज्ञान एवाऽन्त- द्विशेषः, अतस्तत्पक्षोक्तदूषणगणप्रसङ्गोऽत्राप्यनिवारितप्रसरः प्रतिभर्भावसमर्थनम् पत्तव्यः / न खलु भवत्कल्पितम् अप्रसिद्धपिण्डे प्रसिद्धपिण्डसारूप्यज्ञानमिन्द्रियप्रभवं साक्षात् तत्प्रतिपत्तेरङ्गं भवितुमर्हति / तद्धि केवलं तदङ्गं भवेत् , संज्ञासंज्ञिसम्बन्धस्मृतिसहायं वा ? यदि केवलम् ; तदा अश्रुतातिदेशवाक्यस्यापि दृष्टगो: 20 (1) "प्रत्यक्षं तावदेवैतद्विषये न कृतश्रमम् / वनस्थगवयाकारपरिच्छेदफलं हि तत् // अनुमानं पुनर्नात्र शङ्कामप्यधिरोहति / क्व लिङ्गलिङ्गिसम्बन्ध: क्व संज्ञासंज्ञितामतिः / / आगमादपि तत्सिद्धिर्न बनेचरभाषितात् / तत्कालं संज्ञिनो नास्ति गवयस्य हि दर्शनम् ॥"-न्यायमं० 10 142 / 'सेयं न तावद्वाक्यमात्रफलम् ; अनुपलब्धपिण्डस्यापि प्रसङ्गात् / नापि प्रत्यक्षफलम् ; अश्रुतवाक्यस्यापि प्रसङ्गात् / नापि समाहारफलम् ; वाक्यप्रत्यक्षयोर्भिन्नकालत्वात् / वाक्यतदर्थयोः स्मृतिद्वारोपनीतावपि गवयपिण्डसम्बन्धेनापीन्द्रियेण तद्गतसादृश्यानुपलम्भे समयपरिच्छेदासिद्धेः...."-ज्यायकुस० 3 / 10 / (2) गवयस्य। (3) “अत्र वृद्धनैयायिकास्तावदेवमुपमानस्वरूपमाचक्षते-संज्ञासंज्ञिसम्बन्धप्रतीतिफलं प्रसिद्धतरयोः सारूप्यप्रतिपादकमतिदेशवाक्यमेवोपमानम्। गवयार्थो हि नागरकोऽनवगतगवयस्वरूपः तदभिज्ञमारण्यकं पृच्छति कीदृग्गवय इति, स तमाह यादृशो गौस्तादृशो गवय इति। तदेतद्वाक्यमप्रसिद्धस्य प्रसिद्धन गवा सादृश्यमभिदधत् तद्द्वारकमप्रसिद्धस्य गवयसंज्ञाभिधेयर्व ज्ञापयतीत्युपमानमुच्यते।"• न्यायम० पृ० 141 / (4) पृ० 496 पं० 8 / (5) संज्ञासंज्ञिसम्बन्ध।। 1-तेरुत्पत्तेः ब० / 2-स्थं प्राणिनं ब० / 3-वाक्यो हि आ०, ब०। 4 असिद्धस्य, आ०। b अत्र प्रतिविधीयते ब०, श्र० / 6 असिद्ध-ब०। 7 संज्ञासम्बन्ध-आ० / 13