________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० यथा सन्निहितो गवयपिण्डः, तथा चायम् , तस्मात्तथेति। यदि वा, अविलक्षणविषाणाद्यवयवयोगित्वादिति हेतुः, साध्य-दृष्टान्तौ तौ एव / ननु माभूत् मीमांसकाभ्युपगतमुपमानं प्रत्यभिज्ञानादेः प्रमाणान्तरम् , नैयायिकै रभ्युपगतं तु भविष्यति / 'ते हि "प्रसिद्धसाधात् साध्यसाधनमुपसंज्ञासंज्ञिसम्बन्धज्ञानफलस्य उपमानस्य HTML मानम्" [ न्यायसू० 11116] इत्युपमानलक्षणं वर्णयन्ति / तत्र पथक प्रामाण्यं वर्ण- प्रेसिद्धश्च तत्साधर्म्यञ्च, प्रसिद्धेन वा गवा साधर्म्य गवयस्य, प्रसिद्धं यतो नैयायिकस्य वा साधर्म्य यस्य स प्रसिद्धसाधो गवयः तस्मात्, तमाश्रित्य पूर्वपक्षः- साध्यस्य संज्ञासंज्ञिसम्बन्धस्य साधनं बोधनम् उपमानम् / श्रुतातिदेशवाक्यस्य हि प्रमातुः अप्रसिद्ध पिण्डे प्रसिद्धपिण्डसारूप्यज्ञानं यद् इन्द्रियजं संज्ञासंज्ञिसम्बन्धप्रतिपत्तिफलं तदुपमानं प्रतिपत्तव्यम् / तद्धि इन्द्रियजनितमपि धूमज्ञानमिव तेदगोचरप्रमेयप्रमितिप्रसाधनात् प्रमाणान्तरम् / श्रुतातिदेशवाक्यो हि नागरकः कानने परिभ्रमन गोसदृशप्राणिदर्शनानन्तरम् आटविकवचः 'यादृशो गौस्तादृशो . (1) "प्रज्ञातेन सामान्यात् प्रज्ञापनीयस्य प्रज्ञापनमुपमानमिति / यथा गौरेवं गवय इति / कि पनरत्र उपमानेन क्रियते ? यदा खल्वयं गवा समानधर्म प्रतिपद्यते तदा प्रत्यक्षतस्तमर्थ प्रतिपद्यते इति समाख्यासम्बन्धप्रतिपत्तिरुपमानार्थ इत्याह / यथा गौरेवं गवय इत्युपमाने प्रयुक्ते गवा समानधर्ममर्थम इन्द्रियार्थसन्निकर्षादुपलभमानोऽस्य गवयशब्दः संज्ञेति संज्ञासंज्ञिसम्बन्ध प्रतिपद्यत इति / यथा मुद्गस्तथा मुद्गपर्णी यथा माषस्तथा माषपर्णी इत्युपमाने प्रयुक्ते उपमानात् संज्ञासंज्ञिसम्बन्धं प्रपिपद्यमानस्तामौषधीं भैषज्यायाहरति ।"-न्यायभा० 1 / 16 / (2) "प्रसिद्धसाधादिति-प्रसिद्ध साधर्म्य यस्य, : प्रसिद्धन वा साधर्म्य यस्य सोऽयं प्रसिद्धसाधो गवयस्तस्मात् साध्यसाधनमिति समाख्यासम्बन्धप्रतिपत्तिरुपमानार्थः / किमुक्तम्भवति ? आगमाहितसंस्कारस्मृत्यपेक्षं सारूप्यज्ञानमुपमानम् / यदा ह्यनेन श्रुतं भवति यथा गौरेवं गवय इति, प्रसिद्धे गोगवयसाधर्म्य पुनर्गवा साधर्म्यं पश्यतोऽस्य भवति अयं गवय इति समाख्यासम्बन्धप्रतिपत्तिः ।''-न्यायवा० पृ० 57 / “प्रसिद्धसाधर्म्यात् इत्यत्र प्रसिद्धिरुभयी श्रुतिमयी प्रत्यक्षमयी च / श्रुतिमयी यथा गौरेवं गवय इति / प्रत्यक्षमयी च यथा गोसादृश्यविशिष्टोऽयमीदृशः पिण्ड इति / तत्र प्रत्यक्षमयी प्रसिद्धिरागमाहितस्मृत्यपेक्षा समाख्यासम्बन्धप्रतिपत्तिहेतुः / ... तस्मादागमप्रत्यक्षाभ्यामन्यदेवेदमागमस्मृतिसहितं सादृश्यज्ञानमुपमानाख्यं प्रमाणमास्थेयम् ।"-न्यायवा० ता० पृ० 198 / (3) "अद्यतनास्तु व्याचक्षते-श्रुतातिदेशवाक्यस्य. प्रमातुरसिद्ध पिण्डे प्रसिद्धपिण्डसारूप्यज्ञानमिन्द्रियजं संज्ञासंज्ञिसम्बन्धप्रतिपत्तिफलमुपमानम् / तद्धीन्द्रियजनितमपि धूमज्ञानमिव तदगोचरप्रमेयप्रमितिसाधनात् प्रमाणान्तरम् / श्रुतातिदेशवाक्यो हि नागरकः कानने परिभ्रमन् गोसदृशं प्राणिनमवगच्छति, ततो वनेचरपुरुषकथितं यथा गौस्तथा गवय इति वचनमनुस्मरति, स्मृत्वा च प्रतिपद्यते अयं गवयशब्दवाच्य इति / तदेतत्संज्ञासंज्ञिसम्बन्धज्ञानं तज्जन्यमित्युपमानफलमित्युच्यते।" -न्यायमं० पृ० 142 / न्यायकलि० 103 / “सम्बन्धस्य परिच्छेदः संज्ञायाः संज्ञिना सह / प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥"-न्यायकुसु० ३।१०।-"ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् / सादृश्यधीर्गवादीनां या स्यात्सा करणं मतम् // वाक्यार्थस्यातिदेशस्य स्मृतियापार उच्यते। गवयादिपदानां तु शक्तिधीरुपमाफलम् // " मुक्ता०का० 79-80 / तर्कसं० उपमानपरि०। (4) सारूप्यज्ञानम् / (5) इन्द्रियागोचर। 1 तथाहि ब० /