________________ प्रमाणप्र० का० 16] उपमानप्रमाणनिरासः 465 मोपिण्डसंस्थानविशेषविषयं निपुणनिरूपणमनर्थकमेव स्यात् / पिण्डमात्रस्मरणेऽपि सन्निकृष्टसादृश्यदर्शनबलेन विप्रकृष्टसादृश्यप्रतीतेरुत्पादप्रसङ्गात् / न च पिण्डमात्रामनुस्मरतः संस्थानविशेषमनिरूपयतः सादृश्यप्रतीतिरुत्पद्यते / अतो मन्यामहे-गवयसाहश्यावच्छिन्नगोपिण्डानुभवभावितेयं स्मृतिरिति। तथाविधस्मृतिसहायश्च गवयप्रत्यक्षम् 'अनेन सदृशो गौः' इति ज्ञानमुत्पादयतीति सिद्धमस्य स्मृतिप्रत्यक्षप्रभवत्वम् / अतः / नोपमानं प्रत्यभिज्ञानाद् भिद्यते, अभिन्नसामग्रीप्रभवत्वात् , यदभिन्नसामग्रीप्रभवं तदभिन्नम् यथा अविनाभावलक्षणलक्षितहेतुतः समुपजायमानं कार्यस्वभावाद्यनुमानम् , स्मृतिप्रत्यक्षलक्षणाऽभिन्नसामग्रीप्रभवश्च प्रत्यभिज्ञानोपमानलक्षणं ज्ञानद्वयमिति / यदप्युक्तम्-विप्रकृष्टसादृश्यप्रतीतौ सन्निकृष्टं सादृश्यं करणम्' इत्यादि; तत्र किमिदं सन्निकृष्टसादृश्यस्य करणत्वम्-तदनुमापकत्वम् , तत्स्मारकत्वम् , तदुपमापकत्वं 10 वा ? प्रथमपक्षे पूर्वापरविरोधः-पूर्वं तस्य तदनुमापकत्वप्रतिषेधात् इह चाभ्युपगमात् / द्वितीयपक्षे तु सन्निकृष्टसादृश्यस्य विप्रकृष्टसादृश्यस्मृतिहेतुत्वात् उपमानहेतुत्वानुपपत्तिः, स्मृतेः उपमानत्वाऽसंभवात् / तत्स्मृतिसहायं तु तेत् तद्धर्तुः स्यात् न केवलम् , तथा च 'दृश्यमानाद् यदन्यत्र'' इत्यादि दुर्घटम् / एतेन तृतीयपक्षोऽपि प्रत्याख्यातः; केवलँस्य तत्सादृश्यस्य तदुपमापकत्वासंभवात् / न च सादृश्यस्य ज्ञानजनकत्वं 15 संभवति; अर्थे ज्ञानजनकत्वस्य अग्रे निराकरिष्यमाणत्वात् / अतः सदृशवस्तुविषयाभ्यां दर्शनस्मरणाभ्यां गो-गवययोः सादृश्यपरामर्शि प्रत्यभिज्ञानाऽपरपर्यायमुपमानं जन्यते . . इत्यभ्युपगन्तव्यम् / तस्मात् उपमानस्य प्रत्यभिज्ञास्वभावत्वान्न प्रमाणान्तरत्वं युक्तम् / ___अनुमानस्वभावत्वाद्वा / कथमस्यानुमानत्वमिति चेत् ? उच्यते स्मर्यमाणो गोपिण्डो विवक्षितगवयावच्छिन्नसारूप्यमान् , तेन अवच्छिद्यमानत्वात् , यद् यदेवम् तत्तत्तथा 20 .(1) प्रतीतिः / (2) पृ० 490 पं० 1 / (3) गवयगतसादृश्यस्य। (4) विप्रकृष्टस्मृति-आ० टि०। (5) सन्निकृष्टसादृश्यम्-आ० टि०। (6) उपमान-आ० टि०। (7) विप्रकृष्टसादृश्यस्मृतिनिरपेक्षस्य / (8) न प्रमाणान्तरत्वं युक्तमिति सम्बन्धः / तुलना-"तेषां तदगोचरत्वेऽपि भवत्येवानुमैव हि / त्रिरूपलिङ्गजन्यत्वमस्य चैवं प्रतीयते // यो गवा सदृशोऽसौ हि गवयश्रुतिगोचरः / संकेतग्रहणावस्थो बुद्धिस्थो गवयो यथा // गोसदृशत्वं हेतुः, गवयश्रुतिगोचरत्वं साध्यधर्मः, संकेतग्रहणकाले विकल्पबुद्धिप्रतिभासी बुद्धिस्थो गवयो दृष्टान्तः दृश्यमानो गवयो धर्मी ॥"-तत्त्वसं० पं० 10 453-54 / “तथाप्यनुमानजन्यत्वान्न प्रमाणान्तरमाविशति / स्मर्यमाणो गौः धर्मी एतत्सदृश इति साध्यो धर्मः एतदवयवसामान्ययोगित्वात् सन्निहितद्वितीयगवयपिण्डवत् / तदसन्निधाने सामान्येन * व्याप्तिदर्शयितव्या। यत्र यदवयवसामान्ययोगित्वं तत्र तत्सादृश्यं यथा यमयोरिति ।"-न्यायमं० पृ० 148 / "यदा च प्रत्यक्षेण प्रतियन्नपि गवारवादी भूयोऽवयवसामान्ययोगं तद्वियोगं वा व्यामूढः सदृशासदृशव्यवहारं न प्रवर्त्तयति तदा विषयदर्शनेन विषयिणो व्यवहारस्य साधनात् त्रैरूप्यसद्भावादनुमानप्रमाणता समस्त्येव / तथाहि-गवाश्वादौ विषाणाद्यवयवसामान्ययोगः तद्वियोगो वा प्रागुपलब्ध इदानीं स्मर्यमाण इति नासिद्धता हेतोः.."-सन्मति० टी० पृ० 583 / 1-भवप्रभावि-श्र०, ब०। 2-कृष्टसा-श्र०। 3-स्य स्मृति-ब० / 4-नत्वाद्वा ब० /