________________ . लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० 465 रूपप्रतिपत्तिः / प्रतिपत्ता हि गवयमुपलभ्य पूर्वानुभूतं गोपिण्डसंस्थानविशेषम् अवहितचेतसा परिभाव्य तयोः सादृश्यव्यवहारं प्रवर्त्तयति सङ्कलयति चैवम्-'मया पूवमेव गौः अनेन प्राणिना तुिल्यसंस्थानः प्रतिपन्नः, ततस्तांतुल्यसंस्थानतां स्मृत्वा सादृश्यं व्यवहरामि' इति / ततो यः सङ्कलनात्मकः प्रत्ययः स प्रत्यभिज्ञानमेव यथा 'स एवायम्' इति प्रत्ययः, सङ्कलनात्मकश्च 'अनेन सदृशो गौः' इति प्रत्यय इति / सङ्कलनं हि पूर्वोत्तरसमयसमधिगतयोः वस्तुरूपयोः एकधर्मयोगितया सदृशादिधर्मयोगितया वा प्रत्यवमर्शनम् / तदात्मकत्वश्च अत्रास्ति, गोगवययोः सदृशधर्मान्वितत्वेन प्रत्यवमर्शसम्भवात् / ___ ननु चास्य प्रत्यभिज्ञानत्वे स्मृतिप्रत्यक्षप्रभवत्वप्रसङ्गः तत्सामग्रीत एवास्य आवि10 र्भावात् , न चात्र सास्ति, गवयप्रत्यक्षादिसामग्रीमात्रात्तदुत्पत्तेः / न च विलक्षणसामग्री प्रभवं ज्ञानं प्रत्यभिज्ञानं युक्तमतिप्रसङ्गात् ; इत्यप्यसाम्प्रतम् ; अत्रापि तत्सामग्र्या विद्यमानत्वात् / तथाहि-स्मरणापेक्षं गवयप्रत्यक्षम् एवंविधं ज्ञानमुपजनयति, अनपेक्षं वा ? तत्र अनपेक्षस्य जनकत्वे अप्रसिद्धगोपिण्डस्यापि एतत् स्यात् / अथ स्मरणापेक्षं जनकत्वम् ; तत्रापि किं स्मरणमात्रापेक्षम् , गोपिण्डस्मरणापेक्षं वा. तत्तजनयेत् ? 15 यदि स्मरणमात्रापेक्षम् ; तदा अश्वादिस्मरणेऽपि तत् तजनयेत् / अथ गोपिण्डस्मरणा पेक्षम् ; तत्रापि किं गोपिण्डस्मृतिमात्रापेक्षम्, सादृश्यावच्छिन्नगोपिण्डस्मरणापेक्षं वा ? प्रथमपक्षे महिष्यादिस्मरणेऽपि तस्य तज्जनकत्वप्रसङ्गः, सादृश्याप्रतिपत्तेः उभयत्राप्यविशेषात् / गवयसादृश्यावच्छिन्नगोपिण्डस्मरणांपेक्षित्वे तु सिद्धः पूर्वमेव सादृश्यानुनुभवः, तदसिद्धौ संस्कारविशेषाभावतः तत्स्मरणस्यैवाऽनुपपत्तेः / पूर्व तदननुभवे च (1) अनेन सदृशो गोरिति प्रत्ययः प्रत्यभिज्ञानात्मकः सङ्कलनात्मकत्वात् / (2) स एवायमिति प्रत्यभिज्ञाने-आ० टि०। (3) तुलना-'तत्र किं स्मरणापेक्षमिन्द्रियमेवं ज्ञानं जनयति अनपेक्षं वेति ? अनपेक्षस्य ज्ञानजनकत्वे अप्रसिद्धगोपिण्डस्य स्मरणेऽप्येतत् स्यात् / अथ पिण्डमात्रस्मरणे; अश्वादिपिण्डस्मरणे स्यात् / अथ गवयसादृश्यावच्छिन्नस्मरणापेक्षं जनकम् ; तत्रापि यदि स्मरणमात्रमपेक्षेत, गजादिस्मरणेऽपि स्यात्। अथ गोपिण्डस्मरणापेक्षम् ; तत्रापि कि गोपिण्डमात्रस्मरणमपेक्षते, गवयसादृश्यावच्छिन्नं गोपिण्डस्मरणं वेति ? गोपिण्डमात्रस्मरणे अश्वादिपिण्डस्मरणेऽपि स्यात् / गवयादिसादृश्यावच्छिन्नगोपिण्डस्मरणापेक्षित्वे पूर्वमेवानुभवो वाच्यः, तदन्तरेण संस्कारानुत्पत्तैः स्मरणस्यैवाभावात् / अतः सविकल्पज्ञानाभावेऽपि गवयसादृश्यावच्छिन्ने गोपिण्डे पूर्वमनुभवोऽभ्युपगन्तव्यः / येन हि संस्कारोत्पत्तौ स्मरणान्मदीयया गवा सदृशोऽयं गवय इति ज्ञानं स्यात् / पूर्वं च गवयसादृश्यावच्छिन्नगोपिण्डेऽनुभवप्रसिद्धौ गवयोपलम्भात् 'मदीया गौरनेन सदृशी' इति कथमेतत् स्मरणं न स्यात् ? तथा पृष्टो ब्रवीति एतत्सदृशी मयोपलब्धा न तु प्रमाणान्तरं निर्दिशति ।"-प्रश० व्यो० पृ० 588 / (4) अनेन सदृशो गौरिति-आ० टि०। (5) गवयप्रत्यक्षम् / (6) गवयप्रत्यक्षस्य / (7) यथा हि महिष्यादिस्मरणे न गोसादृश्यं प्रतीयते तथा गोपिण्डस्य स्मरणमात्रेऽपि न सादृश्यस्य प्रतिपत्तिः / (8) सादृश्यस्मरणस्यैव। 1 संकल्पयति ब०। एतदन्तर्गतः पाठो नास्ति आ० / 2 एकधर्मयोगितया वा प्र-ब० / 3-विधज्ञान-ब०,-विधविज्ञान-श्र०। 4-णापेक्षत्वे ब०।।