________________ प्रमाणप्र० का० 16] उपमानप्रमाणनिरासः सादृश्यस्य वा ? प्रथमपक्षे 'स एवायम्' इत्यादि प्रतीतेरपि प्रत्यभिज्ञानता न स्यात् उत्तरपर्यायावच्छेदस्य पूर्वमननुभवात् / अथात्रे अवच्छेदकस्य उत्तरपर्यायस्य पूर्वमननुभवेऽपि अवच्छेद्यस्य अन्वितद्रव्यस्य अनुभवात् प्रत्यभिज्ञानता; तदन्यत्रापि समानम्अवच्छेदकस्य गवयस्य तदानधिगमेऽपि सादृश्यस्य अवच्छेद्यस्य अधिगमात् / कथमप्रतीतस्य गवयस्य सादृश्यविशेषणतेति चेत् ? कदा तदप्रतीतिः-गोदर्शनसमये, उत्तर- 5 कालं वा ? प्रथमविकल्पे उत्तरपर्यायस्यापि द्रव्यविशेषणत्वाभावप्रसङ्गः, पूर्वपर्यायप्रतीतिसमये तस्याप्यप्रतीतेः / अथ उत्तरप्रत्यक्षेण प्रतीतस्य तस्य तद्विशेषणता; तदेतदन्यत्रीप्यविशिष्टम् / तन्न गवयावच्छेदस्य अनुभवाभावः / नापि सादृश्यस्य तद्धि असन्निहितत्वान्नानुभूयते, प्रतिबन्धकसद्भावाद्वा ? न तावदसन्निहितत्वात् ; सन्निहितपदार्थवृत्तित्वेन असन्निहितत्वाऽसिद्धेः / नापि प्रतिब- 10 न्धकसद्भावात् तस्यानुपलम्भः ; गोपिण्डोपलम्भवत् सादृश्योपलम्भेऽपि प्रतिबन्धकस्य कस्यचिदप्यनुपलम्भात् / ननु उभयवृत्तित्वात् सादृश्यस्य कथमेकपिण्डोपलम्भसमये प्रतियोगिग्रहणमन्तरेणोपलम्भः स्यात् ? इत्यप्यसुन्दरम् ; एकैकत्र अस्य समाप्ततया प्रति योगिग्रहणमन्तरेणापि उपलम्भोपपत्तेः / कथमन्यथेदं शोभेत. . "सामान्यवञ्च सादृश्यमेकैकत्र समाप्यते / प्रतियोगिन्यदृष्टेऽपि तत्तस्मादुपलभ्यते // " 15 [मी० श्लो० उपमान० श्लो० 35 ] इति / 'इदमनेन सदृशम्' इति सादृश्यव्यवहार एव हि प्रतियोगिग्रहणापेक्षो न पुनः तत्स्व ' (1) उत्तरपर्यायनिष्ठमिदमेकत्वमित्याकारस्य / (2) एकत्वप्रत्यभिज्ञाने / मीमांसकाभिमतोपमानस्य प्रशस्तपादभाष्यादिषु आगमस्मरणयोरप्यन्तर्भावः प्रादर्शि; तथाहि-"आप्तेनाप्रसिद्धस्य गवयस्य गवा गवयप्रतिपादनादुपमानमाप्तवचनमेव ।"-प्रश० भा०पू० 576 / “किञ्च स्मृतिस्वभावत्वाद्वान प्रमाणमुपमानं स्मृत्यन्तरवत् "एवं तु युज्यते तत्र गोरूपावयवैः सह / गवयावयवाः केचित्तुल्यप्रत्ययहेतवः // तत्रास्य गवये दृष्टे स्मृतिः समुपजायते ।"-तत्त्वसं० पृ० 448 / “भवतु वैषा बुद्धिरनेन सदृशो गौः तथापि स्मृतित्वान्न प्रमाणफलम्।"-न्यायमं०१०१४६। "तस्साद गवयग्रहणे सति असन्निहितगोपिण्डावलम्बिनी सादृश्यप्रतीतिः सदृशदर्शनाभिव्यक्तसंस्कारजन्या स्मृतिरेव न प्रमाणान्तरम् ।"-प्रश. कन्द० पृ० 221 / “सादृश्यज्ञानस्य चोत्पत्तावयं क्रमः-पूर्वं तावत् गोगवययोविषाणित्वादिसादृश्यं गवि प्रत्यक्षतः प्रतिपद्यते, पश्चाद् गवयदर्शनानन्तरं 'यदेतद् विषाणित्वादिसादृश्यं पिण्डेऽस्मिन्नुपलभ्यते मया तद् गव्यप्युपलब्धम्' इति स्मरति तदनन्तरं विषाणित्वादिसादृश्यप्रतिसन्धानं जायते 'अनेन पिण्डेन सदृशो गौः' इति / एवञ्च स्मार्तमेतद् ज्ञानं कथं प्रमाणान्तरं भवेत् ?" -सन्मति० टी० पृ०५८२ / (3) सादृश्यप्रत्यभिज्ञानेपि। (4) स एवायमिति एकत्वप्रत्यभिज्ञानस्थले। (5) उत्तरपर्यायस्यापि / (6) उत्तरपर्यायस्य-आ० टि०। (7) अन्वितद्रव्यस्थानीयमत्र गोगवयगतं सादृश्यं विवक्षितम् , अत्रापि गवयप्रत्यक्षेण प्रतीतस्य सादृश्यस्य गोविशेषणत्वोपपत्तेरिति तात्पर्यम्-आ० टि०(८) सादृश्यस्य / (9) 'तस्मात्तदुपपद्यते'-मी० श्लो। 'तस्मात्तदुपलभ्यते'-न्यायमं० पृ० 147 / उद्धृतोऽयम्न्यायमं० पृ० 147 / प्रमेयक० पृ० 346 / प्रश० कन्द० पृ० 221 / तुलना-“सामान्यवद्धि सादृश्यं प्रत्येकं च समाप्यते / प्रतियोगिन्यदृष्टेऽपि यस्मात्तदुपलभ्यते ॥"-तत्त्वसं० पृ०४४५। 1 गवय एवायम् ब०। 2 प्रतीतस्य तद्वि-श्र०।