________________ 462 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे 3. परीक्षपरि० गवये गृह्यमाणश्च न गवार्थानुमापकम् / प्रतिज्ञार्थैकदेशत्वाद् गोगतस्य न लिङ्गता // गवयश्चाप्यसम्बन्धान गोलिङ्गत्वमृच्छति / सादृश्यं न च सर्वेण पूर्व दृष्टं तदैन्वयि // एकस्मिन्नपि दृष्टेऽथे द्वितीयं पश्यतो वने / सादृश्येन सेहवास्मिस्तंदैवोत्पद्यते मतिः // " [ मी० श्लो० उपमान० श्लो० 43-46] इति / नाप्येतत् शाब्दम् ; अश्रुताऽतिदेशवाक्यस्य प्रतिपत्तः तत्संभवात् / नाप्यर्थापतिः; अन्यथानुपपद्यमानदृष्ट-श्रुतार्थानपेक्षणात्। नाप्यभावः; प्रमाणप्रमेयनिवृत्त्यनपेक्षणादिति / अत्र प्रतिविधीयते / यत्तावदुक्तम् –'अनेन सदृशो गौः' इत्यादि; तदसमीक्षि ..ताभिधानम् ; तथाविधायाः प्रतीतेरेवाऽसंभवात् / तथाहि-अश्रुतातितन्निरसन पुरस्सरम् उपमानस्य सादृश्य- देशवाक्यो नागरकः कानने पर्यटन अदृष्टपूर्वं गोसदृशं पशुं पश्यन् 10 प्रत्यभिज्ञान एवान्त- एवं बुद्धयते ब्रवीति च-गवा सदृश एव कश्चित् पशुः' इति, नतु भीवप्रदर्शनम्- 'अनेन सदृशो गौः' इत्येवंविधज्ञानमभिधानं वा कस्यचित्तदानीमस्तीति / अस्तु वा, तथापि अस्य प्रत्यभिज्ञारूपत्वान्न प्रमाणान्तरत्वम् / ननु अनुभूतेऽर्थे प्रत्यभिज्ञा प्रवर्तते दर्शनस्मरणनिबन्धनत्वात्तस्याः, न च पुरोवर्तिगवयोवच्छिन्न सादृश्योपाधितया पूर्वं गोपिण्डोऽनुभूतः, गवयाग्रहणे तदवच्छिन्नसादृश्यविशेषितस्य 15 गोपिण्डस्य ग्रहीतुमशक्तेरिति; तदयुक्तम् ; यतः कस्य अनुभवाभावः-गँवयावच्छेदस्य, (1) 'गवामनुमापकम्'-मी० श्लो०। (2) व्यधिकरणत्वात्, सम्बन्धे हि गमको गम्यं गमयति -आ० टि०। (3) न च तदन्वयि गवयगतं सादृश्यं पूर्व दृष्टं किन्तु गवयदर्शनकाल एव सर्वस्यापि प्रमातुरुदीयते, अनेनानधिगतार्थाधिगन्तृत्वं प्रामाण्यबीजमुपमानस्य ज्ञापितम् -आ० टि०। (4) 'सहकस्मिन्'-सन्मति० टी० ए०५७७। (5) उद्धृता इमे-प्रमेयक० 10187 / सन्मति० टी० 50 577 तुलना-"त्ररूप्यानुपपत्तेश्च न च तस्यानुमानता / पक्षधर्मादि नैवात्र कथञ्चिदवकल्पते // (प्राग्गोगतं हि सादृश्यं न ) धर्मत्वेन गृह्यते / गवये गृह्यमाणञ्च न गवामनुमापकम् // प्रतिज्ञार्थंकदेशत्वाद् गोगतस्य न लिङ्गता। गवयश्चाप्यसम्बन्धान्न गोलिङ्गत्वमृच्छति ॥"-तत्त्वसं० का०१५३९-४१। (6) "श्रुतातिदेशवाक्यत्वन्न चातीवोपयुज्यते। येऽपि ह्यश्रुततद्वाक्यास्तेषामपि भवत्ययम् ॥"-मी० श्लो० उपमान श्लो० 10 / (7) तुलना-"अन्यथानुपपद्यमानदृष्टश्रुतार्थानपेक्षत्वान्नापत्तिः। प्रमाणप्रमेयनिवृत्त्यनपेक्षणानाभावः।"-तत्त्वसं० 50 50 450 / (8) पृ०४८९ पं०१६ / (9) तुलना-"एवंविधप्रतीत्यभावात्। प्रसिद्धेन हि सादृश्यमप्रसिद्धस्य गम्यते / गवा गवयपिण्डस्य न तु युक्तो विपर्ययः / तथाहि -अश्रुतातिदेशको नागरकः कानने परिभूमन्नदृष्टपूर्व गोसदृशं प्राणिनमुपलभमान एवं बुद्धयते बूवीति च, अहो नु गवा सदृश एष कश्चन प्राणीति / नत्वनेन सदृशो गौरिति ज्ञानमभिधानं वा तदानीं कस्यचिदस्तीति अतः प्रमितेरेवाभावात् किं प्रमाणचिन्तया।"-न्यायमं० पृ० 146 / (10) तुलना-"एकत्वसादृश्यप्रतीत्योः सङ्कलनज्ञानरूपतया प्रत्यभिज्ञानतानतिक्रमात् ।"-प्रमेयक० पु० 345 / न्यायाव० टी० पृ० 19 / स्या० 20 पृ०४९७ / प्रमाणमी० पृ० 35 / जैनतर्कभा० पृ०१०। (11) प्रत्यभित्ज्ञायाः। (12) गवयनिष्ठसादृश्यविशेषणविशिष्टतया। (13) इदं सादृश्यं गवयनिष्ठमित्याकारस्य / 1 सहकस्मि-ब० / 2 शब्दम् ब०। 3-त्तिरन्यथापत्तेः अन्यथानुप-आ० / 4 प्रमाणं प्रमेयब०, श्र० / / नागरिक: ब० / 6 पश्यन्मेवं ब० ॥7-नत्वात् न च ब०, आ० /