________________ प्रमाणप्र० का० 16) उपमानप्रमाणनिरासः त्यभिधातव्यम् ; प्रत्यक्षप्रतिपन्ने एव अर्थे स्मरणस्य आविर्भावात् / न च गोप्रत्यक्षकाले तत्प्रत्यक्षेण गवयाप्रतिपत्तौ तैत्सादृश्यं प्रत्येतुं शक्यम् / "भूयोऽवयवसामान्ययोगो यद्यपि मन्यते / सादृश्यं तस्य नु (तु) ज्ञप्तिः गृहीते प्रतियोगिनि // " न्यायमं० पृ० 146 ] इत्यभिधानात् / नाप्यनुमानरूपताऽस्य; लिङ्गादनुत्पत्तेः। अत्र हि लिङ्गम्-सादृश्यं परिकल्प्येत, / परिदृश्यमानो गवयो. वा? यदि सादृश्यम् ; तत्किं गोगतम् , गवयगतं वा लिङ्गं स्यात् ? न तावद् गोगतम् ; गवयदर्शनात् प्राक् तस्य असिद्धत्वात् / नचाऽसिद्धस्य लिङ्गत्वम् ; अतिप्रसङ्गात् / प्रतिज्ञार्थंकदेशत्वप्रसङ्गाच्च, गोगतत्वेन हि सादृश्यं प्रमेयम् तदेव च लिङ्गमिति / गवयगतं तत्तर्हि लिङ्गमस्तु उक्तदोषद्वयासंभवादिति चेत् ; न; अत्रापि व्यंधिकरणासिद्धत्वप्रसक्तेः / न च व्यधिकरणासिद्धस्य गमकत्वं कांककाादिवत् / 19 ___ एतेन गवयस्यापि लिङ्गता प्रत्याख्याता; व्यधिकरणत्वाविशेषात् / उक्तश्च"न चैतस्यानुमानत्वं पक्षधर्माद्यसंभवात् / प्राक् प्रमेयस्य सादृश्य धर्मत्वेन नै गृह्यते // (1) तुलना-"न च स्मरणमेवेदं प्रमेयाधिक्यसम्भवात् / मवयेन हि सादृश्यं न पूर्वमवधारितम् ॥"-न्यायमं० पृ० 146 / (2) गोप्रत्यक्षेण / (3) गवयसादृश्यम् / (4) गवयसादृश्यस्य प्रतियोगी गवयः / (5) "ननु च ज्ञातसम्बन्धिता तुल्या, सा चात्र लक्षणम्, तत्र वान्यत्र वेति क्वेदमु बाढमुपयुज्यते, एकदेशदर्शनादिति हि तत्र लक्षणम्, ज्ञातसम्बन्धस्यति विशेषणम् / अतो न गवयस्थं सादृश्यं सदृशावगतेरेकदेशः। किञ्च असकृद् दृष्टसम्बन्धो ह्यनुमानस्य हेतुः असजातीयव्यावृत्तिसच्यपेक्षश्च, द्वयमत्र नास्तीति प्रमाणान्तरम् ।”-बृह० पृ० 108 / प्रक० पं० पृ० 111 / शास्त्रदी० पृ० 287 / (6) गोसादृश्यस्य। (7) साध्यम् / (8) सादृश्यम् / (9) साध्यं हि गविगतं सादृश्यं लिङ्गञ्च गवयगतं सादृश्यमिति व्यधिकरणासिद्धः -आ० टि० / (10), 'धवल: प्रासाद: काकस्य कात्'ि इतिवत् / (11) गवयो हि वनवर्ती सादृश्यञ्च गवि साध्यमिति व्यधिकरणासिद्धता। (12) व्याख्या-"ये तु शाक्याः प्रमाणद्वयवादिनः सांख्या वा प्रमाणत्रयवादिनोऽस्यानुमानान्तर्भावं मन्यन्ते तान् प्रत्याह न चेति / असम्भवमेव दर्शयति-प्रागिति। प्रमेयो गौः तद्गतं तावत्सादृश्यं न लिङ्ग तस्य प्रागुपमानात्तद्धर्मत्वेनाऽग्रहणादिति / गवयगतमपि सादृश्यं गवि प्रमेये न पक्षधर्म इत्याह गवये इति। गोगतस्य च प्रतिज्ञार्थंकदेशत्वादपि न लिङ्गता. तदेव हि गोगतं प्रमेयमित्याह-प्रतिज्ञेति / सादृश्यविशिष्टो गवयोऽपि पक्षधर्मत्वाभावादेव न लिङ्गमित्याह गवये इति / ननु तत्सम्बन्धितामात्रमेव तद्धर्मत्वं न संयोगसमवायावेव, अस्ति गवयस्य गोसम्बन्धः तस्यासौ सदृशः, तत्र कथमपक्षधर्मत्वमत आह-सादृश्यमिति / भवतु कथञ्चित्पक्षधर्मता, न त्वन्वयोऽस्ति / नहि गवयगतं गोसादृश्यं गोगतेन गवयसादृश्यनान्वितं दृष्टम्, इदानीमेव गवयसादृश्यं गृह्यते। ननु युगपद् गवयं गाञ्च पश्यतोऽन्यद्वाऽर्थद्वयं परस्परसदृशं येन यत्सदृशं तदपि तेन सदशमिति शक्यमेवान्वयग्रहणं कर्त्तम् अत उक्तं सर्वेणेति / सत्यं दृष्टं न तु सर्वेण गवयं दृष्ट्वा तत्सादृश्यं गृह्णतैवमन्वयो गृहीतो भवतीति / अस्ति चादृष्टसदृशद्वयस्याप्येकमेव गां दृष्ट्वैव वने द्वितीयं गवयं पश्यतस्तदैव सादृश्यविशिष्टे प्रत्यय इत्याह-एकस्मिन्निति।" -मी० श्लो० न्यायर० पृ० 447 / (13) गवयदर्शनात् प्राक्-आ० टिः / 1 तस्य तज्ज्ञप्तिःश्र०, ब० // 2 प्रत्ययोगिनि ब० / परिकल्पत आ० / 4-प्रसंगाद् गोग-ब० / 5नच तस्यानु-श्र० 16 न दृश्यते ब० / पयुज्यते?