________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० अत्र च विप्रेकृष्टसादृश्यप्रतीतौ सन्निकृष्टं सादृश्यं करणम् / उक्तञ्च "दृश्यमानाद् यदन्यत्र विज्ञानमुपजायते / ____सादृश्योपाधितस्तज्जैरुपमानमिति स्मृतम् // " [ ] अस्य च अनधिगतार्थाधिगन्तृत्वात् प्रामाण्यम्। यद्यपि गौरने प्रागेव उपलब्धः, 6 सादृश्यञ्चेदानी प्रत्यक्षत एव गवये दृश्यते, तथापि 'गवयसदृशो गौः' इति प्रागप्रतिपत्तेः अनधिगतार्थाधिगन्तृत्वम् / तर्हि इदानीमेव गोः स्मृत्या सादृश्यस्य च अध्यक्षतोऽधिगमात् अधिकप्रमेयाभावाच्च अधिगतार्थाधिगन्तृत्वमस्य; इत्यप्ययुक्तम् ; तद्विशिष्टत्वस्य तंत्रे ताभ्योमनधिगतेः। यद्यपि प्रत्यक्षेण सादृश्यं प्रतिपन्नं गौश्च स्मृत्या, तथापि सादृश्यविशिष्टस्य गोपिण्डस्य स्मृत्या प्रत्यक्षेण उभाभ्यां वाऽप्रतीतेः तद्विषयत्वेन उपमा10 नस्य अनधिगतार्थाधिगन्तृत्वात् प्रामाण्यम् / नहि अनुमानेऽपि अंतोऽन्यत् प्रामाण्य निबन्धनम्। प्रत्यक्षेऽपि हि प्रदेशीदौ धर्मिणि स्मृत्या चानौ प्रतिपन्नेऽपि अग्निविशिष्टप्रदेशादिविषयत्वेन अनुमानस्य प्रामाण्यं तद्वदुपमानस्यापि / तदुक्तम्"तस्माद्येत्स्मयते तत्स्यात् सादृश्येन विशेषितम् / प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् // प्रत्यक्षणावबुद्धेऽपि सादृश्ये गवि च स्मृते / "विशिष्टस्यान्यतोऽसिद्धरुपमानप्रमाणता // 15 प्रत्यक्षेऽपि यथा देशे स्मर्यमाणे च पावके / विशिष्टविषयत्वेन नानुमानाऽप्रमाणता // " . [ मी० श्लो० उपमान० श्लो० 37-39 ] इति / ननु अस्तु उपमानंप्रमाणम् , नतु प्रत्यक्षादिभ्यो भिन्नं तदन्यतमस्वभावत्वात्तस्य; इत्यप्यनुपपन्नम् / तदन्यतमस्वभावत्वस्य तंत्राऽसंभवात् / तथाहि-न तावत् प्रत्यक्षरूपं तत् ; परोक्षे गवि इन्द्रियार्थसम्प्रयोगाभावेऽपि उत्पद्यमानत्वात् / नापि स्मरणमेवेदमि (1) विप्रकृष्टो गौः। (2) सन्निकृष्टं गवयनिष्ठं सादृश्यम् / (3) साधकतमं करणम्आ० टि०। (4) गवयात्। (5) गवि। (6) उद्धृतोऽयम्-आप्तप० पृ०५३। प्रमेयक० पृ०१८५ / 'तत्त्वज्ञः'-सन्मति०टी० 10575 / (7) उपमानस्य / (8) पुरुषेण। (9) स्मृतिवत्-आ० टि०। (10) उपमानस्य / (11) सादृश्य -आ० टि० / (12) गवि / (13) स्मरणप्रत्यक्षाभ्याम् / (14) विशिष्टविषयत्वेन / (15) विशिष्टविषयत्वात् / (16) पर्वतादौ-आ०टि०। (17) गौः / 'तस्माद् दृश्यते'-न्यायाव० टी० पृ० 19 / (18) इति सादृश्यावधारणम् -आ० टि०। (19) तयोः गोगवययोरन्वितम्। 'तदाश्रितं'-तत्त्वसं०। व्याख्या-"यस्मादेव प्रत्यक्षे गवये न किञ्चिदुपमानस्य प्रमेयमस्ति तस्मात्समयमाणैव गौर्गवयसादृश्यविशिष्टा तद्विशिष्टं वा सादृश्यमुपमानस्य प्रमेयमिति.। ननु गवये सादृश्यं प्रत्यक्षं गृहीतं गौः स्मर्यते किमन्यदुपमेयमत आह-प्रत्यक्षेणेति / तत्रैव दृष्टान्तमाह प्रत्यक्षे इति।"-मी० श्लो० न्यायर० पृ० 445 / (20) 'विशिष्टस्यान्यतः सिद्धे'-प्रमेयक० पृ० 345 / (21) उद्धृता इमे-तत्त्वसं० पृ० 445 / प्रमेयक० पृ० 345 / सन्मति० टी० पृ० 576 / आद्यौ द्वौ-स्या० 20 पृ० 497 / जैनतर्कभा० पृ०१०। (22) प्रत्यक्षाद्यन्यतम / (23) उपमाने। (24) "तदिदमुपमानं न प्रत्यक्षम् ; तिरोहिते गवि चक्षुःसन्निकर्षातिवतिनि जायमानत्वात् / न च स्मृतिः; गोदर्शनसमयेप्रतीतगवस्य तत्सादृश्यानुभवाभावात् ।"-प्रक० 50 पृ० 111 / 1-स्य ताभ्या-ब० / 2-मानप्रमा-ब०।