________________ 488 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० किं पुनः सिद्धयेत् ? नैव सिद्धयेत्। कुतः ? स्वतः स्वसंवेदनात् निर्विकल्पकात् / यत् निर्विकल्पकेन गृह्यते न तत्सिद्धथति यथा क्षणक्षयस्वर्गप्रापणसामर्थ्यादि, निर्विकल्पेन गह्यते च विकल्पस्वरूपमिति / तर्हि विकल्पान्तरात् तत् सेत्स्यति; इत्यत्राह-'परतः' इत्यादि / न केवलं स्वतः अपि तु परतः विकल्पान्तरादपि किं पुनः सिद्धयेत् इति 'नो सिद्धयेत्' इति सम्बन्धः / कुत एतत् ? इत्याह-अनवस्थितेः अनवस्थानात् विकल्पान्तरस्यापि तदन्तरात् सिद्धिप्रसङ्गात् / कारिकां विवृण्वन्नाह-'सर्व' इत्यादि / सर्वविज्ञानानां विकल्पेतरज्ञानानां - स्वसंवेदनम् आत्मग्रहणं प्रत्यक्षम् अविकल्पकं निर्विकल्पकं यदि वितव्याच्या विवृतिव्याख्यानम्- 1 चेत् इष्यते / अत्र दूषणम् 'निश्चय' इत्यादि / निश्चयस्यापि न 10 केवलम् अनिश्चयस्य कस्यचिद् अनुमानानुमेयव्यवहारहेतोः स्वत एव स्वसंवेदैनादेव 'अनिश्चयात्' निश्चयाभावात् / अंथ अन्यतो निश्चयः स्यादत्राह-'निश्चय' इत्यादि / प्रकृतान्निश्चयाद् अन्यो निश्चयः तदन्तरम् तस्य कल्पनायाम् अनवस्थानात् / कुतः, न कुतश्चित्, तस्मात् संव्यवहारस्य कार्यकारणभावादिलक्षणस्य सिद्धिः / तस्यैव असिद्धेः इत्यभिप्रायः। अस्तु तर्हि धीः निश्चयात्मा बहिरिव अन्तरपि 15 इत्यत्राह-'ततः' इत्यादि / ततः तस्माद् उक्तदोषात् खार्थेऽपि स्वस्य बुद्धेः अर्थो प्राचं बहिःस्वलक्षणं तत्रापि न केवलं सामान्ये कथञ्चित् न सर्वात्मना, 'अभिलप्यते अनेने' 'अभिलप्यते' इति च अभिलापौ शब्दजात्यादी तयोः संसर्गः 'अस्येदं वाचकम् , अस्येदं वाच्यम्' इति योजनं तस्य योग्ययोग्यौ नि सौ तयोरेकं साधारणं ज्ञानं प्रतिपत्तव्यम् सौगतैः। अत्र दृष्टान्तमाह-'खरूपवत्' इति / स्वरूपं इव तद्वदिति / एवं परं प्रति तर्कादिकं प्रमाणान्तरं प्रतिपाय इदानीमुपमानस्य प्रमाणान्तरत्वनियमं विधुरयन्नाह उपमानं प्रसिद्धार्थसाधात् साध्यसाधनम् / तद्वैधात् प्रमाणं किं स्यात्संज्ञिप्रतिपादनम् ? // 19 // (1) विकल्पस्वरूपमसिद्धं निर्विकल्पेन गृह्यमाणत्वात् / (2) नीलादौ क्षणक्षयः, अहिंसाक्षणे च स्वर्गप्रापणसामर्थ्यम्। (3) इति अभिलापः शब्दः / (4) इति अभिलाप: अभिलप्यमानो.जात्यादिः / (5) “अत्र यदित्येतदध्याह्रियते / प्रसिद्धप्रमाणेन निश्चितोऽर्थो गोरूपस्तेन साधात् सादृश्यात् उपजायमानं साध्यस्य ज्ञेयस्य तत्सादृश्यविशिष्टस्य गवयलक्षणस्य साधनं गोसदृशो गवय इति ज्ञानं यापमानं प्रमाणान्तरमभ्युपगम्यते तदा तद्वैधात् प्रसिद्धार्थवैसादृश्यादुपजायमानं साध्यसाधनं गोविलक्षणो महिष इति ज्ञानं किं प्रमाणं स्यात् ? तस्य किन्नामेत्याक्षेपः / नहि तदुपमानमेव तल्लक्षणाभावात् / नापि प्रत्यक्षादि; भिन्नविषयत्वाद् भिन्नसामग्रीप्रभवत्वाच्च / तथा संज्ञिनो वाच्यस्य प्रतिपादनं च 1 कुतः स्वसं-आ०, श्र० 12-तः संवेद-ब०। 3-कल्परूपमिति श्र०। 4 अपि विक-आ० / 5 'नो सिद्धयेदिति' नास्ति आ०, श्र०। 6-स्पंनि-ब०। यदीष्यते ब० / 8-वेदनानिश्च-आ०, श्र० / 9 'अर्थ'नास्ति आ० / 10 अनवस्थाभावात् ब० / 11 अन्तरेऽपि ब०। 12 ब्राभि-ब० / 13 'स्वरूपवविति' नास्ति आ०, ब० /