________________ प्रमाणप्र० का० 18] परमते विकल्पस्यापि न सिद्धिः 487 वा तथा प्रत्येतुं समर्थमित्यूहस्यैव अत्र व्यापार इति मन्यते / कृतकत्वानित्यत्वग्रहणमुपलक्षणं सकलहेतुसाध्यानाम् / ननु सर्वोऽयं कार्यकारणभावोऽनुमानानुमेयभावोवा कल्पनाशिल्पिकल्पितो न पारमार्थिकः तत्कथं प्रमाणान्तरप्रसक्तिः? इत्यप्यनुपपन्नम् ; यतो विकल्पबुद्धौ सिद्धायां तत्कल्पि तोऽखिलोऽयं व्यवहारः स्यात्। न च तैत्सिद्धिः स्वत: परतो वा घटते इत्यावेदयति- 5 धीविकल्पाविकल्पात्मा बहिरन्तश्च किं पुनः। निश्चयात्मा स्वतः सिद्धयेत् परतोऽप्यनवस्थितेः॥१८॥ विवृतिः-सर्वविज्ञानानां स्वसंवेदनं प्रत्यक्षमविकल्पं यदि, निश्चयस्यापि कस्यचित् स्वत एव अनिश्चयात्, निश्चयान्तरपरिकल्पनायामनवस्थानात् कुतस्तत्संव्यवहारसिद्धिः 1 ततः स्वार्थेऽपि कथञ्चिदभिलापसंसर्गयोग्यायोग्य- 10 विनि सैकज्ञानं प्रतिपत्तव्यं स्वरूपवत् / धीः बुद्धिः, कथम्भूता ? निश्चयात्मा विकल्पबुद्धिः इत्यर्थः / पुनरपि कथ म्भूता ? इत्याह-'विकल्प' इत्यादि / विकल्पो व्यवसाय:, अविकल्पो निर्विकल्पकः, तौ आत्मानौ यस्याः सा तथोक्ता। क? बहिरन्तश्च; बहिर्विकल्पात्मा अन्तश्च अविकल्पात्मा इति / सा किम् ? इत्यत्राह- 15 (1) "तथा चानुमानानुमेयव्यवहारोऽयं सर्वो हि बुद्धिपरिकल्पितो बुद्धयारूढेन धर्ममिभेदेनेत्युक्तम् ।-आचार्यदिग्नागेनाप्येतदुक्तमित्याह तथा चेत्यादि / सर्व एवेति यत्रापि साध्यसाधनयोरग्निधूमयोर्वास्तवो भेदः तत्रापि स्वलक्षणेन व्यवहारायोगात् / अनुमीयतेऽनेनेत्यनुमानं लिङ्गम् अनुमेयः साध्यधर्मी साध्यधर्मश्च तेषां व्यवहारो नानात्वप्रतिरूपः, बुद्धचारूढेन धर्ममिणोदस्तेन बुद्धिप्रतिभासगतेन भिन्नेन रूपेण भेदव्यवहार इति यावत ।"-प्रमाणवा० स्वव०टी०१४। (2) विकल्पसिद्धिः / (3) "किं पुनः सिद्धयेत् ? न सिद्धयेदित्यर्थः / का ? धीः बुद्धिः / किं विशिष्टा? निश्चयात्मा अनुमानबुद्धिरित्यर्थः / पुनरपि कथम्भूता ? विकल्पाविकल्पात्मा, विकल्पो व्यवसायः अविकल्पोऽव्यवसायः तावात्मानौ यस्याः सा तथोक्ता / क्व ? बहिरन्तश्च, अत्र यथासंख्यमभिसम्बन्धः कर्तव्यः, बहिर्घटादिविषये विकल्पात्मा, अन्तः स्वरूपे निर्विकल्पात्मा चेति / कतो न सिद्धयेत? स्वतः स्वसंवेदनात्, तस्य निविकल्पकत्वेन विकल्पाविषयत्वात / सर्वचित्तचत्तानामात्मसंवेदनं स्वसंवेदनमिति वचनात् / न केवलं स्वतः, अपि तु परतोऽपि / किं पुनः सिद्धयति ? परस्माद्विकल्पान्तरादपि न सिद्धयतीत्यर्थः / कुतः ? अनवस्थितेः / तदपि विकल्पान्तरतः स्वतो न सिद्धयति अगोचरत्वात तत्रापि तत्सिद्ध्यर्थं विकल्पान्तरं कल्पनीयमिति क्वचिदप्यनुपरमात् / ततोऽनुमानस्यासिद्धेः कथं बौद्धकल्पितः प्रमाणसंख्यानियमो घटत इति भावः ।"-लघी० ता०प०३८ / (4) "सर्वचित्तचतानामात्मसंवेदनम / चित्तमर्थमात्रग्राहि, चैत्ता विशेषावस्थाग्राहिणः सुखादयः / सर्वे च ते चित्तचैत्ताश्च सर्वचित्तचत्ताः / सुखादय एव स्फुटानुभवत्वात् स्वसंविदिताः नान्या चित्तावस्थेत्येतदाश ड्रानिवत्त्यर्थं सर्वग्रहणं कृतम् / नास्ति सा काचिच्चित्तावस्था यस्यामात्मनः संवेदनं न प्रत्यक्षं स्यात् / येन हि रूपेणात्मा वेद्यते तद्रपमात्मसंवेदनं प्रत्यक्षम् ।"-न्यायबि० टी० पृ० 19 / (5) तुलना-"स्वत एव विकल्पसंविदां निर्णये स्वलक्षणविषयोऽपि विकल्पः स्यात्, परतश्चेदनवस्थानादप्रतिपत्तिः।"-अष्टश०, अष्टसह० 10 170 / 1-विकल्पकं ई० वि० / 2 निर्विकल्पः ब०, श्र० /