________________ 484 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० स्यात् / किं न किञ्चित् तस्य अनंशस्य कार्य हेतुः / कार्यग्रहणमुपलक्षणम् , तेन . साध्याद् भिन्नानां संयोगिसमवाय्यादीनां निरास: सिद्धो भवति, अतो न परमते किञ्चित् लिङ्गं घटते यतोऽनुमा स्यात् / / कारिकां विवृण्वन्नाह-'साक्षात्' इत्यादि / साक्षात् स्वभावं स्वरूपम् अप्रद___ _ शयतो भावस्य यत् निरंशं तत्त्वं स्वरूपं तस्य अनुमितौ क्रियमा - णायां स्वभावहेतोरसंभवः / कुत इत्याह-'स्वभाव' इत्यादि / खभावस्य स्वरूपस्य विप्रकर्षाद् अदृश्यत्वात् / तत एव तद्विप्रकर्षादेव कार्यहेतोरप्रतिपत्तिः / कुत एतत् ? इत्याह-'कार्य' इत्यादि / कार्यकारणयोः सर्वत्र बहिरन्तर्वा अनुपलब्धेः अदर्शनात् / किश्च, सिद्धे कार्यकारणभावे कार्यहेतोः प्रतिपत्तिर्युक्ता, न चात्र सोऽस्ति इत्याह-'नच' इत्यादि / नच नैव अत्र योग-सौगतकल्पिते एकान्ते प्रत्यक्षानुपलम्भौ साधनं यस्य स तथोक्तः। कः ? प्रभवः, कार्यकारणभावः भवति' 'प्रमवति अस्मात्' इति च व्युत्पत्तेः / यथा च तत्कल्पितैकान्ते प्रभवो न घटते तथा . . विषयपरिच्छदे प्रपश्चितम् / ननु न सर्वत्र प्रत्यक्षानुपलम्भसाधनः प्रभवः, किन्तु कचित् इन्द्रियशक्तिवत् कार्यव्यतिरेकसाधनोऽपि, सोऽत्र स्यात् ; इत्याशक्य आह–'कार्य' 15 इत्यादि / कार्यस्य व्यतिरेकः विवक्षितकारणव्यतिरिक्तकारणसाकल्येऽपि अनुत्पादः तेन उपलक्षिता वा। पक्षान्तरसूचको वाशब्दः। कारणशक्तिः 'न चात्र' इति सम्बन्धः। निरंशयोः कार्यकारणयोः मूलतोऽप्यदर्शने कारणव्यतिरेकतः कार्यव्यतिरेकाऽसिद्धिः इत्यभिप्रायः / नच प्रमाणान्तरमन्तरेण कारणशक्त्यङ्गीकरणं युक्तम् इत्याह-'तदङ्गीकरणम्' इत्यादि / तस्याः कारणशक्तेः अङ्गीकरणम् कार्यव्यतिरेकत: सद्भावस्वीकरणं प्रमाणान्तरमन्तरेण ऊहाख्यप्रमाणं विना अनुपपन्नम् / प्रसिद्धे हि कार्यकारणभावे कार्यव्यतिरेकतः कारणशक्तिपरिकल्पना स्यात् / नच प्रत्यक्षानुमानयोः कार्यकारणभावादिसम्बन्धप्रतिपत्तौ सामर्थ्यमित्युक्तम्-'अविकल्पधिया लिङ्गं न किञ्चित् सम्प्रतीयते' [लघी० का० 11] इत्यत्र। कुतः पुनस्तदङ्गीकरणं तदन्तरेणाऽनुपपन्नम् ? इत्याह-'स्वयम्' इत्यादि / स्वयम् आत्मना उपलब्धस्य मध्यदशायां दृष्टस्य प्रागू25 वंश्च या तस्यैव अनुपलब्धिः स्वयमेव अदर्शनं तस्या यत् सिद्धं कृतकत्वं कार्यत्वं तस्माद् अनित्यत्वं शब्दादेः सिद्धयेत् नान्यथा न प्रकारान्तरेण / नच प्रत्यक्षमनुमानं (1) अनुमानम् / (2) प्रभवति यत्कार्यमिति कार्यव्युत्पत्तिः, प्रभवति कार्य यस्मात् कारणात् इति कारणव्युत्पत्तिः-आ० टि०। (3) पृ० 220, पृ० 384 / (4) कारणशक्तिरस्ति कार्योत्पत्त्यन्यथानुपपत्तेः / (5) कारणशक्तिस्वीकारः। (6) ऊहप्रमाणमन्तरेण / 1 कार्यहेतुः श्र०। 2-नुमानं स्यात् आ०, श्र०। 3 स्वरूपं दर्शय-ब०। 4 एतद्वेत्याह-ब०, एतदित्यत्राह श्र०। 5 प्रभवति अस्मात् इति व्यु-ब०,श्र०। 6 प्रपञ्चितः ब०। 7-क्षितो वा ब०। 8-ञ्च तया ब० /