________________ प्रमाणप्र० का 0 17 ] पराभिमत-स्वभावादिहेतुनिरासः 455 'विज्ञान' इत्यादि / विज्ञानस्य यद् अनशं तत्त्वं स्वरूपं तस्य इव तद्वदिति / ननु बहिरन्तश्च अनंशस्यैव तत्त्वस्य उपलम्भः अतस्तस्यैव परमार्थसत्त्वम्, अनुपलम्भाच्च पूर्वापरकोट्योरसत्त्वं सिद्धयति इति यौग-सौगताः; तत्राह-'नापि' इत्यादि / नापि नैव क्षणिकाः परिमण्डलाः परमाणवः आदयो यस्य अवयव्यादेः स तथोक्तः तस्य अविभागविज्ञानतत्त्वस्य वा जातुचित् कदाचिदपि स्वयम् आत्मना उपलब्धिः / / कुत एतदित्यत्राह-'तथैव' इत्यादि / तथैव परपरिकल्पितप्रकारेणैव अप्रतिभासनात् / अथ बहिरन्तस्तत्त्वस्य क्षणिकाऽनंशादिस्वभावतया अप्रतिभासनेऽपि सच्चेतनादिरूपतया प्रतिभासनादयम्दोषः, अत्राह- 'तत्कथञ्चिद्' इत्यादि / तस्य बहिरन्तस्तत्त्वस्य कथश्चित् न सर्वात्मना तत्स्वभावप्रतिभासे सच्चेतनादिस्वरूपप्रतिभासने अङ्गीक्रियमाणे अनेकान्तसिद्धिः एकस्य दृश्येतरस्वभावसिद्धेः / 10 एवं परस्य अनुपलब्धिं निराकृत्य अधुना स्वभावादिहेतुं निराकुर्वन्नाह अनंशं बहिरन्तश्चाप्रत्यक्षं तदभासनात् / कस्तत्वभावो हेतुः स्यात् किं तत्कार्य यतोऽनुमा // 17 // विवृतिः-साक्षात् स्वभावमप्रदर्शयतो निरंशतत्त्वस्यानुमितौ खभावहेतोरसंभवः स्वभावविप्रकर्षात् / तत एव कार्यहेतोः, कार्यकारणयोः सर्वत्रानुपलब्धेः। 15 न चात्र प्रत्यक्षानुपलम्भसाधनः प्रभवः कार्यव्यतिरेकोपलक्षिता वा कारणशक्तिः। तदङ्गीकरणं प्रमाणान्तरमन्तरेणानुपपन्नम् / स्वयमुपलब्धस्य प्रागूप्रश्चानुपलब्धेः कृतकत्वादनित्यत्वं सिद्धयेत् नान्यथा / योगसौगतकल्पितं यद् अनंशं तत्त्वम् , क ? बहिरन्तश्च / तत्किम् ? . अप्रत्यक्षं प्रत्यक्षग्राह्यं न भवति / कुत एतद् ? इत्यत्राह-तदप्र- 20 कारिकार्थः तिभासनात् तस्य अनशतत्त्वस्य अप्रतीतेः। ततः किं जातम् ? इत्यत्राह-'कस्तद्' इत्यादि / कः, न कश्चित् तस्य अनंशस्य खभावो हेतुः (1) यौगानां मते अन्त: अनंशस्य निरवयवस्य व्यापिनः आत्मन उपलम्भः, बहिश्च निरंशावयविनः / सौगतमते च स्वलक्षणस्य पूर्वापरक्षणयोरनुपलम्भात् अभावः, मध्यमक्षण एव च स्थायिता / (2) “यत् सौगतैः परिकल्पितं बहिरचेतनम् अन्तश्चेतनम्, निरंशम्, अंशा द्रव्यक्षेत्रकालभावविभागाः तेभ्यो निष्क्रान्तं निरंशं तदप्रत्यक्षं प्रत्यक्षाविषयः / कुतः ? तदभासनात् तस्य निरंशतत्त्वस्याभासनादननुभवात् / न खलु द्रव्यादिविभागरहितं चिदचिद्वा तत्त्वं प्रत्यक्षबुद्धौ प्रतिभासते, तत्र नित्यानित्याद्यनेकांशव्यापित्वेन वस्तुनः प्रतीतेः / ततस्तस्य निरंशस्य प्रत्यक्षतोऽसिद्धस्य स्वभावो धर्मः को हेतुलिङ्गं स्यात्, न कोऽपि इत्यर्थः / प्रमाणतोऽसिद्धस्याहेतुत्वात् / तस्य कार्यञ्च किन्नु हेतुः स्यात् , सर्वथा निरंशस्यापरिणामिन: कार्यकरणायोगात् यतोऽनुमा भवेदित्याक्षेपवचनं न कुतोऽपीत्यर्थः / तन्न सौगतमतेऽनुमानं प्रामाण्यमास्कन्दत्यनुपपत्तेः ।"-लघी० ता० पृ० 37 / (3) “प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः।"-हेतुबि० टी०प०७३ / "भावे भाविनि तद्भावः भाव एव च भाविता। प्रसिद्ध हेतुफलते प्रत्यक्षानुपलम्भतः // " (सम्बन्धप०)-प्रमेयक० पृ० 510 / स्या० र० पृ० 818 / 1-भावादिसिद्धेः ब० / 2 किमप्रत्यक्षपामु ब० /