________________ 15 484 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० विषयाकारविवेकः प्रतिभासते स्थूलाद्याकारभ्रान्तेरभावप्रसङ्गात् / यत्र यदा वास्तवो यदाकारः प्रतीयते न तत्र तदा तद्विपरीताकारस्य प्रतीतिरस्ति यथा नीले प्रतीयमाने न पीतस्य, प्रतीयते च विषयाकारविवेकः सौगतकल्पितायां संविदि इति / कारिकार्थं विवृण्वन्नाह-'स्थूलस्य' इत्यादि / स्थूलस्य महतः एकस्य क्रमाऽ ____ क्रमानेकविवर्त्तव्यापिनः प्रतिपादितप्रकारेण दृश्यात्मन एव उपलभ्यविवृतिव्याख्यानम् स्वभावस्यैव अनित्यत्वं सिद्ध्यति 'नान्यस्य' इति सम्बन्धः। कुत एतत् ? अनुपलम्भात् हेतोः तस्यैव पूर्वापराकारकोव्योः अभावसिद्धेः। तथा च यदुक्तं परेण-"यद् यत्र उपलब्धिलक्षणप्राप्त सन्नोपलभ्यते तत् तत्र नास्ति यथा क्वचित्. प्रदेशविशेषे घटः, नोपलभ्यते च उपलब्धिलक्षणप्राप्तो मध्यक्षण: पूर्वापरकोट्योः" [ ] 10 इति; तदयुक्तम् ; यतः कथञ्चित्तत्र तदभावसाधने सिद्धसाधनम् / सर्वथा तत्साधने पक्षस्य प्रत्यक्षबाधनं हेतोश्चाऽसिद्धिः, तथा तत्र तैर्दैनुपलम्भाऽसिद्धेरिति / ननु चास्तु स्थूलादिस्वभावस्यार्थस्य अनित्यत्वं न तु परमार्थसत्वम् मरीचिकाजलादिवदसत्त्वात् , इत्याशङ्क्याह-'बुद्धेः' इत्यादि। यथोक्तस्यैवार्थस्य परमार्थसत्त्वं बुद्धेवेद्यवेदकाकारप्रभेदस्य इव / प्रयोगः-यद् अनेकस्वभावं तदेव परमार्थसत् यथा वेद्यवेदकाद्यनेकस्वभावा संवित्, अनेकस्वभावञ्च अन्तर्बहिर्वा जैनाभ्युपगतं वस्तु इति / तथापि मरीचिकातोयनिदर्शनेन अस्याऽसत्त्वे बुद्धेरप्यतोऽसत्त्वप्रसङ्गः विशेषाभावात् / ननु नाऽनेकस्वभावस्यार्थस्य अनित्यत्वं परमार्थसत्त्वं वा अपि तु परमाण्वादेः; इत्यत्राह-'नपुनः' इत्यादि / न पुनः नैव परिमण्डलसम्बन्धात् परिमण्डलः परमाणुः आदिर्यस्य यौगकल्पिताऽवयव्यादेः स तथोक्तः तस्याऽनित्यत्वं परमार्थसत्त्वश्च / निदर्शनमाह (1) ग्राह्याकाररहितत्वम् / (2) यदि हि संविदि ग्राह्याद्याकाराः प्रतिभासेरन्, तदैव तस्यां प्रतिभासमानस्य स्थूलाद्याकारस्य भ्रान्तत्वं शक्येत कल्पयितुम्, यदा च संवित्तिः ग्राह्याद्याकारशून्यैवास्ति तदा कथं तत्र भ्रान्तत्वेनापि स्थूलाद्याकारः प्रतिभासेत ? (3) संविदि न भ्रान्ततयापि स्थूलाद्याकारप्रतिभासः, वास्तवस्य ग्राह्याद्याकाररहितत्वस्य तत्र प्रतिभासमानत्वात् / (4) स्कन्धस्य / (5) निरंशपरमाणुरूपस्वलक्षणस्य / (6) सौगतेन। (7) पूर्वापरक्षणयो:-आ० टि। (8) मध्यक्षणाभाव-आ० टि० / (9) सर्वथा। (10) पूर्वापरक्षणयोः / (11) मध्यक्षण। (12) बौद्धमते-आ० टि०। (13) स्थूलादिस्वभाव एवार्थः परमार्थसन् अनेकस्वभावत्वात्। (14) "यथोक्तम् आर्यरत्नावल्याम-मरीचितोयमित्येतदिति मत्त्वा गतोऽत्र सन् / यदि नास्तीति तत्तोयं गृह्णीयान् मूढ एव सः / / मारीचिप्रतिमं लोकमेवमस्तीति गृह्णतः / नास्तीति चापि मोहोऽयं सति मोहे न मुच्यते / / अज्ञानकल्पितं पूर्व पश्चात्तत्त्वार्थनिर्णये / यदा न लभते भावमेवाभावस्तदा कुह // इति / तदेवं निःस्वभावानां सर्वभावानां कुतो यथोक्तप्रकारसिद्धिः / तस्माल्लौकिकं विपर्यासमभ्युपेत्य सांवृतानां पदार्थानां मरीचिकाजलकल्पानामिदं प्रत्ययतामात्राभ्युपगमेनैव प्रसिद्धिर्नान्येन।"-माध्यमिकवृ० 10188 / (15) स्थूलाद्यनेकस्वभावस्य वस्तुनः / (16) मरीचिकातोयदृष्टान्तात् / (17) परिमण्डल: वर्तुलाकारः / 1-ति विव-ब० / 2 पूर्वापरकोटयोर-श्र०, ब० / तदुपलम्भासिद्धिरिति ब० / 4 नानकब०। 5-व्यादिः ब०। 6 -त्वं निद-ब। .