________________ प्रमाणप्र का० 16 ] पराभिमत-अनुपलब्धिहेतुनिरासः 483 सिद्धिः स्यात् ? कस्य तर्हि क्षणभङ्गसिद्धिः स्यात् ? इत्याह-'तद्' इत्यादि / तस्माद् अनंशतत्त्वाद् विपरीतं साशं तत्त्वं तस्य / कथम्भूतस्य ? अभेदलक्षणस्य युगपत् क्रमेण वा अनेकस्वभावात्मकस्य स्याद् भवेत् क्षणभङ्गसिद्धिः नान्यस्य इति एवकारार्थः / . ननु चाभेदलक्षणतत्त्वस्य सविकल्पकप्रत्यक्षेण सर्वात्मना प्रतिपन्नत्वात् किं तत्र क्षणभङ्गाद्यनुमानेन ? इत्याशङ्कापनोदार्थमाह वीक्ष्याणुपारिमाण्डल्यक्षणभङ्गाद्यवीक्षणम् / स्वसंविद्विषयाकारविवेकानुपलम्भवत् // 16 // विवृतिः-स्थलस्यैकस्य दृश्यात्मन एव पूर्वापरकोट्योरनुपलम्भात अभावसिद्धेरनित्यत्वं बुद्धेरिव वेद्यवेदकाकारभेदस्य परमार्थसत्त्वम्, न पुनः परिमण्डलादेः विज्ञानानंशतत्त्ववत् / नापि क्षणिकपरिमण्डलादेः अविभागज्ञानतत्त्वस्य वा 10 जातुचित् स्वयमुपलब्धिः तथैवाप्रतिभासनात् / तत्कथञ्चित् तत्स्वभावप्रतिभासे अनेकान्तसिद्धिः। वीक्ष्यम् , उपलब्धिलक्षणप्राप्तं स्थूलमेकं ग्राह्यम्, तस्य ये अणवः अतिसूक्ष्मा ___भागाः तेषां पारिमाण्डल्यंवर्तुलत्वं यच्च क्षणभङ्गादि आदिशब्देन कारिकार्थः - कार्यकारणसामादिपरिग्रहः तस्याऽवीक्षणम् अग्रहणम् / अत्र दृष्टा- 15 न्तमाह 'ख' इत्यादि। स्वसंविदो बौकल्पितनिरंशबुद्धेर्यः विषयाकारस्य स्थूलाद्याकारस्य विवेकः निवृत्तिः तस्य अनुपलम्भवत्। नहि तस्यौं प्रतिभासमानायां (1) अनेकपर्यायेषु अनुगताकारतया व्यापिनः अभेदलक्षणस्य द्रव्यस्येति यावत्, अथवा अनेकावयवेषु कथञ्चित्तादात्म्यतया व्यापिन: अभेदलक्षणस्य स्कन्धस्येति / (2) “वीक्ष्यमुपलब्धिलक्षणप्राप्तं स्थूलं तस्याणवः सूक्ष्मा भागा अवयवास्तेषां पारिमाण्डल्यं वर्तुलत्वम् अन्योन्यविवेकः क्षणे क्षणे भङ्गः क्षणभङ्गः समयं प्रति नाश इत्यर्थः। स आदिर्यस्य कार्यकारणसामर्थ्यादेरसौ तथोक्तः, वीक्ष्याणुपारिमाण्डल्यं च क्षणभंगादिश्च तत्तथोक्तम्, तस्याऽवीक्षणं प्रत्यक्षेणानुपलम्भोऽशक्तिः। न खलु सांव्यवहारिकप्रत्यक्षेण क्षणभङ्गादिर्वीक्ष्यते तेन स्थिरस्थूलसाधारणाकारस्यैव वीक्षणात्, योगिप्रत्यक्षस्यैव तद्वीक्षणसामर्थ्यादित्यर्थः, सत्त्वात्प्रमेयत्वादर्थक्रियाकारित्वादित्यादिहेतूनां कथञ्चिदनेकानित्यादिधर्मव्याप्यत्वात्तदविनाभावप्रसिद्धः। प्रकृतार्थे दृष्टान्तमाह-स्वसंविदित्यादि। स्वसंवित् स्वसंवेदनं तस्या विषयाकारो घटाद्याकारस्तस्माद्विवेको व्यावृत्तिस्तस्यानुपलम्भः प्रत्यक्षेणाग्रहणं तद्वत् / यथा ज्ञानस्य स्वरूपप्रतिभासने बहिराकारनिवृत्तिविद्यमानेनापि न प्रतिभासते सौगतानां तस्य तादृक् सामर्थ्याभावात् तथा बहिरन्तश्चाणुपारिमाण्डल्यादि प्रत्यक्षेण न प्रतिभासते तथाशक्त्यभावात् / ततोऽनुमानमनेकान्तमते सफलमित्यर्थः ।"-लघी० ता० पृ० 36 / (3) घटपटादि / (4) “नित्यं परमाणुमनःसु तत्तु पारिमाण्डल्यम् ,परिमाण्डल्यमिति तस्य नाम, तथाहि-परिमण्डलानि परमाणुमनांसि तेषां भाव: पारिमाण्डल्यं तत्परिमाणमेव।"-प्रश० भा०, व्यो० पु. 473 / “पारिमाण्डल्यमिति सर्वापकृष्टं परिमाणम् ।"-प्रश० कन्द०१०१३३ / “पारिमाण्डल्यं परमाणुपरिमाणम्"-सप्तप०टी० पृ० 49 / मुक्ता० का० 15 / (5) स्वर्गप्रापणादौ -आ०टि० / (6) संविदि-आ० टि०। 1-स्यादृश्या-ज० वि०। 2-करणसा-ब० / 3-द्धपरिक-श्र० /