________________ 482 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० न चाऽवस्तुत्वादभावस्य किं प्रसाधनप्रयासेनेत्यभिधातव्यम् ; प्रमाणतः प्रेतीयमानत्वादिसाधनात् तस्य वस्तुत्वप्रसिद्धेः / तथाहि-अभावो वस्तु, प्रमाणतः प्रतीमानत्वात् , यत् प्रमाणतः प्रतीयमानं तद् वस्तु यथा भावः, प्रमाणतः प्रतीयमानश्चाऽभाव इति / तथा, यत् कारणादुत्पद्यते तद्वस्तु यथा घटादि, कारणादुत्पद्यते चाऽभाव इति / तथा, / यदर्थक्रियाकारि तद्वस्तु तथा प्रदीपः, अर्थक्रियाकारी चाऽभाव इति / तथा, यद् अवा न्तरभेदेन भिद्यते तद्वस्तु यथा रूपरसादि, प्रोगभावाद्यवान्तरभेदेन भिद्यते चाऽभाव इति / ततः सिद्धो भाववद् अभावो वास्तवो वस्तुधर्मः प्रमेय इति / प्रमाणं तु तत्परिच्छेदकम् अभावाख्यं प्रत्यक्षादिभ्यो भिन्नं वास्तवं न प्रसिद्धम् , प्रत्यक्षादितोऽपि तत्परि च्छेदसिद्धेः / यत् प्रमाणान्तरादपि परिच्छिद्यते न तत्र प्रमाणनियमः यथा वह्नयादौ, 10 प्रमाणान्तरादपि परिच्छिद्यते चाऽभाव इति / यत् पुनः यत्प्रकारप्रमाणान्तरान्न परिच्छिद्यते तत्र तत्प्रकारप्रमाणनियमो यथा रूंपरसादाविति / .. तत: सूक्तम्-'अदृश्यस्यापि परचित्तविशेषस्य अभावः तदाकारविकारादेरन्यथानुपपत्तितः' इति / सर्वत्र हि गमकत्वं अन्यथानुपपत्तिप्रसा दादेव, सा च अदृश्यानुपलब्धावप्यस्ति इति कथं नास्या गमकत्वम् ? 15 'अदृश्य' इत्यादिना व्यतिरेकमुखेन कारिकां व्याचष्टे-अदृश्यानुपलब्धेः __ सकाशात् संशयैकान्ते अङ्गीक्रियमाणे न केवलं परिचित्ताभावो न विवृतिव्याख्यानम्tara सिद्ध्यति सौगतस्य अपि तु स्वचित्तभावश्च न सिद्ध्यति / कुत एतद् ? इत्यत्राह-'तंद्' इत्यादि / तस्य स्वचित्तस्य यद् अनशं तत्त्वं संजातीयविजातीय व्यावृत्तं मध्यक्षणस्वरूपं तस्य अदृश्यात्मकत्वात् / ततः किं जातम् ? इत्यत्राह 'तथा च' 20 इत्यादि। तथा च तेनं च स्वचित्तभावाऽसिद्धिप्रकारेण कुतः न कुतश्चित् परमार्थसतो मानाद् भावस्य क्षणभङ्गसिद्धिः धर्मिहेतुदृष्टान्तादेरसिद्धेः / न खलु बहिरन्तर्वा अनंशतत्त्वस्य अदृश्यात्मतर्यांऽसिद्धौ धादेः सिद्धिर्युक्ता, तदसिद्धौ च कुतः क्षणभङ्गादेः (1) अभावस्य / (2) “स च द्विविधः प्रागभावः प्रध्वंसाभावश्चेति / चतुर्विध इत्यन्ये इतरेतराभावः, अत्यन्ताभावश्च तौ च द्वौ। षट्प्रकार इत्यन्ये --अपेक्षाभावः सामर्थ्याभावश्च ते च चत्वार इति / " -न्यायमं० पृ०६३। 'अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः / प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च // एवं त्रैविध्यमापन्न: संसर्गाभाव इष्यते ।"-मुक्ता० का० 12-13 / (3) अभावपरिच्छेदकं पृथगभावाख्यं प्रमाणं नास्ति प्रत्यक्षादिप्रमाणान्तरादपि तस्य परिच्छिद्यमानत्वात् / (4) रसो यथा रूपग्राहिचाक्षुषप्रत्यक्षान्न परिच्छिद्यते अतः तद्ग्रहणाय रासनप्रत्यक्षस्य नियमो भवति, नचैवमभावे प्रत्यक्षादिभिः परिच्छिद्यमाने प्रमाणान्तरत्वनियमः / (5) स्वचित्तसद्भाव / (6) अदृश्यात्मकत्वादसिद्धौ सत्याम् / 1 प्रमीयमान-ब०12 प्रदीपादि अर्थ-ब० ॥3-नियमोऽपि यथा ब० / 4 तत्तत्प्रका-आ०। 5 तत्प्रमाणनि-आ०16-लब्धावस्तीति आ० / 7 तदित्यादि' नास्ति आ०, ब० 18 सजातीयव्या-ब० / 9 तेन स्वचि-आ० / 10-सतो भावस्य अनुमानात् क्ष-श्र० /