________________ प्रमाणप्र० का० 15] . अभावस्वरूपविचारः 481 उत्पादितानि' इति / नापि घटविनाशकस्य 'कपालान्युत्पादयामि' इत्यनुसन्धानं स्वप्नेऽप्यनुभूयते / न खलु विषादिना शत्रुवधे वह्नथादिना च पटदाहे प्रेवृत्तस्य शत्रुपटविनाशाहते 'अन्यत् किश्चित्तत्र उत्पादयामि' इति हन्तुः पटविनाशकस्य वा अनुसन्धानमस्ति / नापि पार्श्वस्थानाम् 'अन्यत् किञ्चिदनेनोत्पादितम्' इति प्रतीतिः, किन्तु 'तद्विनाश एव अनेन कृतः' इत्यखिलजनानां प्रतीतिः / तद्विनाशे एव चासौ परितुष्यति। / नहि अवयवनिष्पत्त्या तस्य किञ्चित् प्रयोजनम् / ननु भावानां स्वभावतो विनाशस्वभावनियततया विनाशस्य अहेतुकत्वान्न मुद्गरादेः तद्धेतुत्वम् ; इत्यप्यपेशलम् ; तेषां तत्स्वभावनियतत्वस्य अक्षणिकत्वसिद्धौ निराकृतत्वात् / / यदप्युक्तम्- 'कार्यभेदः कारणभेदेन व्याप्तः' इत्यादि; तदप्युक्तिमात्रम् ; एककारणस्य एककार्योत्पादकत्वेन अविनाभावाऽभावात्, प्रदीपादेरेकस्यापि अँनेककार्योत्पादकत्व- 10 प्रतीतेः। अतः सिद्धः सहेतुको विनाशः। तथा च घंटाभावोत्पादकसामग्रीतो भावोत्पादकसामच्या भेदसिद्धेः सिद्धो भावाऽभावयोर्भेदः / . अर्थक्रियाभेदाच्च; सुप्रसिद्धो हि भावाऽभावयोः प्रवृत्तिनिवृत्तिलक्षणोऽर्थक्रियाभेदः, जलाद्यर्थिनः तत्सद्भावस्य प्रवृत्तिहेतुत्वात् , तदभावस्य च निवृत्तिहेतुत्वात् / प्रमोदाद्यर्थक्रियाकारित्वाच्च अनयोर्भेदः; तथा हि शत्रुविनाशः कृतः श्रुतो वा परं प्रमोदमाधत्ते, तत्स- 15 द्भावस्तु विषादम् / न ह्यत्र भावाभावाभ्यामन्यस्य प्रमोद-विषादहेतुत्वं प्रतीयते / यदप्युक्तम्-'अभावोऽपि यदि कुतश्चिवुत्पद्येत काञ्चिदर्थक्रियां कुर्यात् तदा भाव एव स स्यात्' इत्यादि; तदप्यसाम्प्रतम् ; यतो भविप्रतीतिविषयत्वं भावत्वम् , न पुनः अर्थक्रियाकारित्वादि / अभावो हि स्वकारणकलापाद् भावविलक्षणतयोत्पन्न: अर्थक्रियाञ्च कुर्वाण: पदार्थतया प्रतीयते न पुनर्भावतया। . यच्चान्यदुक्तम्-'यदि अभावः स्वाकारं ज्ञाने समर्पयेत् तदा ज्ञानस्याप्यभावरूपता स्यात्' इत्यादि; तदप्यसुन्दरम् ; अर्थाकारतया ज्ञानस्य अर्थप्रकाशकत्वप्रतिक्षेपात् / निराकारमेव हि ज्ञानं 'योग्यतया योग्यदेशस्थं योग्यश्चार्थ प्रकाशयति इत्युक्तं प्रत्यक्षप्ररूपणप्रस्तावे। (1) पुरुषस्य / (2) प्रेक्षकजनानाम् / (3) विषदायिना, पटविनाशकेन वा पुरुषेण / (4) विनाशस्वभावनियतत्वस्य / (5) पृ० 386 / (6) पृ० 480 50 10 / (7) वर्तिकामुखदाह-तैलशोष-कज्जलोत्पादन-अन्धकारविनाशादि / (8) मुद्गराद्यभिघातादिरूपायाः। (9) घटोत्पादकमृत्पिण्डादिरूपायाः / (10) तुलना-"सुखदुःखसमुत्पत्तिरभावे शत्रुमित्रयोः / कण्टकाभावमालक्ष्य पदं पथि निधीयते / / ....."पश्यन्नभावं को नाम निह्नवीत सचेतनः।"-न्यायमं० पृ० 59 / (11) पृ० 477 पं०२। (12) तुलना-"सत्प्रत्ययगम्यो हि भाव इष्यते असत्प्रत्ययगम्यस्त्वभाव इति ।"-न्यायमं० पृ०५९ (13) पृ० 477 पं०४। (14) स्वावरणक्षयोपशमलक्षणया। (15) पृ० 171 / / 1 प्रवृत्तः श-आ० / 2-स्य चानुस-श्र० / 3 घटादिभावो-ब०। 4 कृतः परं ब० / 5-दुत्पद्यते आ० / 6 भाव एव स्यात् श्र०, ब० / 7-या प्रदेशस्थं ब०। 11 . 20