________________ 480 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० अङ्गम् ; तदा सुषुप्तावस्थायामपि नास्तीतिव्यवहारः स्यात् सब्यवहारानुदयस्य तत्राप्यविशेषात्। ततो निर्बाधयोर्भावाऽभावप्रतीत्यो_लक्षण्यसिद्धेः सिद्धो भावाऽभावयोर्वास्तवो भेदः। स्वरूपभेदाच्च; अभावस्य हि भावप्रतिषेधकत्वं स्वरूपं नेतरस्य / स्वरूपभेदेऽपि अनयोरेभेदे भेदवातॊच्छेदप्रसङ्गः, परस्परतो भेदस्य सर्वत्र घटपटादौ स्वरूपभेदा5 दन्यतोऽप्रसिद्धः। सामग्रीभेदाच्च अनयोर्भेदः, सुप्रसिद्धश्च तद्भेदैः / तथाहि-घटादिभावमुत्पादयितुकामः तदुत्पादनानुकूलामेव मृत्पिण्डादिसामग्रीमुपादत्ते, विनाशयितुकामस्तु ते द्विलक्षणां, मुद्रादिसामग्रीमिति / ननु मुंगरादिसामग्री परस्पराऽसंसृष्टकपालोत्पाद एव व्याप्रियते नाऽभावे, न च तदुत्पादवत् तदभावोप्यंत एव भविष्यतीत्यभिधातव्यम् ; यतः सर्वोऽपि कार्यभेदः कारणभेदेन व्याप्तः / न च अभाव-कपाललक्षणकार्यभेदे कारणभेदोऽस्ति, मुद्गरलक्षणस्यैकस्यैव कारणस्य प्रतीतेः / न च तस्यैकस्यैव अन्योन्यविरुद्धकार्यद्वयजनकत्वं . युक्तं विरोधात् ; इत्यप्यसमीचीनम् ; प्रतीतिविरोधानुषङ्गात् / तथाहि-मुद्रादिव्यापारानन्तरं लौकिकेतरयोः 'अनेन विनाशितो घटः' इति प्रतीतिः, न पुनः 'कपालानि उपलब्धपूर्वी / तदुपलम्भे वा कृतमत्र भूमोपन्यासेन / तस्मादप्रमिते भान्त्यनुपपत्तेरयुक्तमेतदित्यर्थः / " -विधिवि०, न्यायकणि० पृ० 73-74 / (1) तुलना-"स्वरूपभेदस्योपपत्तेः; यथाहि कारणादुत्पद्यमानाः रूपादयः परस्परं स्वरूपभेदाद् भिद्यन्ते तथाऽभावोऽपि भावादिति। अस्ति च द्रव्यादिषडलक्षणाऽलक्षितत्वं भावपरतन्त्रण गृह्यमाणत्वमभावस्य रूपमिति ।"-प्रश० व्यो० पृ० 400 / (2) भावस्य / (3) भावाभावयोः / (4) सामग्रीभेदः / (5) उत्पादसामग्रीभिन्नाम् / (6) "तस्मात् स्वरसतो निवर्तते काष्ठादिः, अग्न्यादिभ्यस्तु अङ्गारादिजन्म इत्येव भद्रकम् ।"-हेतुबि० टी०पू०८३ A. | "तदयमत्र समुदायार्थ:मुद्गरव्यापारानन्तरं द्वयं प्रतीयते, घटनिवृत्तिः कपालञ्च। तथैते विनाशरूपतया प्रतीयते। तत्र घटनिवृत्तेर्नीरूपत्वेनाकार्यत्वादिति वक्ष्यति / तत्कार्यत्वेन तु तत्प्रतीतिमन्तिरेव, कार्यत्वे वास्या न घटनिवृत्तिरूपत्वं स्यात घटसम्बन्धित्वेन कृतकत्वात, विनाशरूपतया च न प्रतीतिः स्यात् घटस्य सत्त्वात् / निर्हेतुके तु विनाशे स्वरसतो निवर्तमान एव घटो मुद्गरादिसहकारी कपालजनकत्वेन सदृशक्षणानारम्भकत्वात् मुद्गरव्यापारानन्तरं घटनिवृत्तेः कपालस्य च सद्भावात् तयोविनाशरूपतया विनाशस्य च सहेतुकत्वेन मन्दमतीनामवसायो युज्यत एव / " प्रयोगस्तु ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः तद्यथाऽसम्भवत्प्रतिबन्धा कारणसामग्री कार्योत्पादने, अन्यानपेक्षश्च कृतको भावो विनाश इति स्वभावहेतुः ।"-प्रमाणवा० स्ववृ० टी०१।१९६-९७ प्रमाणवा० मनोरथ०३।२६९-७०। तत्त्वसं० पृ० 132 / (7) घटविनाशोऽपि / (8) मुद्गरादिव्यापारादेव / (9) मुद्गरादिव्यापारस्य / (10) घटविनाश-कपालोत्पादलक्षण। (11) तुलना-"तस्मात्कार्यकारणयोरुत्पादविनाशौ न सहेतुकाहेतुको सहभावाद्रसादिवत् / मुद्गरादिव्यापारानन्तरं कार्योत्पादवत कारणविनाशस्यापि प्रतीतेः विनष्टो घट: उत्पन्नानि कपालानि इति व्यवहारद्वयसद्भावात् ।"-अष्टश०, अष्टसह०पू० 200 / / ___1-दयस्य च त-च०। 2 तत्रानिर्बा-श्र। 3-भेदाद्वाऽभा-ब०। 4 एतयोर-ब० / 6-भेवाद्वाऽन-ब० / 6-श्च तथा तभेदः ब० / 7 प्रतीतेः ब० /