________________ प्रमाणपं० का० 15 ] अभावस्वरूपविचार: 476 अभावतया कश्चित् प्रतिपत्तुमर्हति / अथ निषिध्यमानघटाद्याश्रयतयाऽभिप्रेतः भूतलादिभावः तदभावप्रतीतेर्निबन्धनम् / तत्रापि किं भूतलमात्र घटाभावप्रतीतेर्निबन्धनम् , विशिष्टं वा ? प्रथमविकल्पे सघटेऽपि भूतले घटाभावव्यवहारः स्यात् तदविशेषात् / द्वितीयपक्षेऽपि किङ्कतमस्यै वैशिष्टयम्-स्वरूपकृतम्, घटसंसर्गरहितत्वकृतं वा ? न तावत् स्वरूपकृतम्; सघटेऽपि / भूतले अभावप्रतीतिप्रसङ्गात् स्वरूपसत्त्वस्य तत्राप्यविशिष्टत्वात् / घटसंसर्गरहितत्वनिबन्धनत्वे तु नाम्नि विवादः घटाभावस्य घटसंसर्गरहितत्वशब्देन अभिधानात् / / नचैतद्वक्तव्यम्-अभिमानमात्रमेवायं 'नास्ति' इति व्यवहारः, सद्व्यवहारानुदय एव तत्संभवादिति; यतः प्रतीयमानस्य बाधारहितस्यास्याभिर्मानिकत्वे 'अस्ति' इत्यादिव्यवहारस्याप्याभिमानिकत्वप्रसङ्गः। यदि च सद्व्यवहारानुदय एव नास्तीतिव्यवहारस्य 10 (1) तुलना-" त इदं प्रष्टव्याः नास्तीति संविदः किमालम्बनम् ? यदि न किञ्चित्; दत्तः स्वहस्तो निरालम्बनं विज्ञानमिच्छतां महायानिकानाम् / अथ भूतलमालम्बनम् ; कण्टकादिमत्यपि भूतले कण्टको नास्तीति संवित्ति; तत्पूर्वकश्च निःशंक गमनागमनलक्षणो व्यापारो दुनिवारः / केवलभूतलविषयं नास्तीति संवेदनम्, कण्टकसद्भावे च कैवल्यं निवृत्तमिति प्रतिपत्तिप्रवृत्योरभाव इति चेत; ननु कि कैवल्यं भूतलस्य स्वरूपमेव, किमुत धर्मान्तरम् ? तत्स्वरूपं तावत् कण्टकादिसंवेदनेऽप्यपरावृत्तमिति स एव प्रतिपत्तिप्रवृत्त्योरविरामो दोषः / धर्मान्तरपक्षे च तत्त्वान्तरसिद्धिः ।"-प्रश० कन्द० पृ० 229 / प्रश० किर० पृ० 329 / (2) भूतलमात्रस्य तत्रापि सद्भावात् / (3) भूतलस्य / (4) सघटेऽपि भूतले। (5) प्राभाकरैः / "अप्रमीयमाणत्वमेव हि नास्तित्वं नाऽपरम्न चाप्रमीयमाणतैव प्रमेयम; यस्मात्तदर्थासंसष्टानुभवयुक्ततवात्मनः तस्यार्थस्याप्रमीयमाणता, सा चावस्था आत्मनः स्वसंविदितव / अतः प्रमेयं नावशिष्यते।"-बह० पं० 10 119-20 / "तस्माद् भावग्राहकप्रमाणाननुवृत्तिरेवाऽभावावगमं प्रसूते (पृ० 119) अभावस्य तु स्वरूपावगतिर्नास्ति इति न प्रमाणाभावादन्यः प्रमेयाभावः, प्रमाणाभावोऽपि च स्वरूपान्तरानवगमादेव न भावान्तरप्रमितेभिद्यते, भावान्तरप्रमितिश्च स्वयंप्रकाशरूपा न प्रमेयतामनुभवतीति प्रमेयमभावाख्यस्य प्रमाणस्य नोपपद्यते / प्रमेयासद्भावाच्च न प्रमाणान्तरमवकल्पत इति स्थितम् / ( पृ० 124) नास्तित्वञ्च प्रमाणानामनत्पत्त्यैव गम्यते / नास्तित्वप्रतिपत्तिहि तां विना नास्ति कुत्रचित् // योग्यप्रमाणानुत्पत्तेः कारणत्वपरिग्रहात् / अतिप्रसङ्गदोषोऽपि नावकाशमुपाश्नुते ॥"-प्रकरणपं० पृ० 129 / नयवि० पृ० 162 / तन्त्ररह० 10 17 / प्रभाकरवि०५०५७। (6) काल्पनिकत्वे। (7) तुलना-"ज्ञानाभावे ज्ञानभमः व्यवहाराभावे व्यवहारभूमः आलोकादर्शने अन्धकारभमवत्; न; सुषुप्त्याद्यवस्थासु प्रसङ्गात् / अप्रमिते च भूमाऽयोगात् सुषुप्त्यादिवत् ।-अथापि वैयात्यादुच्यते न च तत्त्वतो नास्तीति बुद्धिव्यवहारौ स्तः, किन्तु चैत्रदर्शनाभावे चैत्रो नास्तीति ज्ञानं भमः चैत्रोचितव्यवहाराभावे च तदभावे व्यवहारभूमः / अत्रैव निदर्शनमाह-आलोकादर्शनेऽन्धकारभमवत् तदेतन्निराकरोति-न; सुषुप्त्याद्यवस्थासु प्रसङ्गात् / यदि हि ज्ञानव्यवहारयोरभावे तद्विभमः सुषुप्त्याद्यवस्थास्वपि तथाप्रसङ्गः। नहि तदा ज्ञानं नापि व्यवहारः, समस्तविज्ञानोपसंहृतिलक्षणत्वात्सुषप्त्याद्यवस्थायाः। हेत्वन्तरमाह-अप्रमिते च भ्रान्त्ययोगात् सुषुप्त्यादिवत् / प्रमितस्य हि भावस्य प्रमित एव भावे समारोपभान्तिन पुनरसतो ज्ञानाकारस्य नाप्यग्रह इत्युपपादितं विभमविवेके, अत्रापि सूचयिष्यति / न च ज्ञानव्यवहाराभावी 1-घटाद्याश्रयः तथाऽभि-आ० / 2 किहतमस्य ब०। 3-हृतम् ब० / 4-हृतम् ब्र० /