________________ 478 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० स्थापकत्वेन प्रामाण्योपपत्तेः प्रतिपादितत्वात् / तत्सामर्थेनोत्पन्नाऽभावविकल्पाद् अंभावाऽसिद्धौ भावसिद्धिरपि अंतोऽतिदुर्लभा / अथ प्रत्यक्षादेव भावसिद्धिः; अभावसिद्धौ तत् किं काकैर्भक्षितम् ? प्रथमं हि इन्द्रियादिसामग्रीतः समुत्पन्न प्रत्यक्षम् अनेकभावाभावोपाधिखचितमुपाधिमन्तं प्रतिपद्यते, ततः शब्दार्थयोः प्रतिपन्नप्रतिबन्धः प्रतिपत्ता अर्थदर्शनोत्तरकालं यस्य यस्य विवक्षा भवति तत्तद्वाचक शब्दं स्मृत्वा 'इदमिहास्ति, इदं नास्ति' इति विकल्पव्यापारं दर्शयति / यदि च तेऽभावविशेषाः प्रत्यक्षतो न प्रतिपन्नाः तदा पँतियोगिस्मरणमपि अनुपपन्नमेव स्यात् / नहि अप्रतिपन्ने घटाभावे घटस्य प्रतियोगितया स्मृतियुक्ता अतिप्रसङ्गात् / अतः प्रतिनियतप्रतियोगिस्मरणाऽन्यथानुपपत्त्या प्रतिनियताभावप्रतिपत्तिः प्रत्यक्ष प्रतिपत्तव्या इति / न च 'इह भूतले घटो नास्ति' इति विशिष्टायाः प्रतीते: विशेषणमन्तरेणोपपत्तियुक्ता। या विशिष्टा प्रतीतिः नासौ विशेषणमन्तरेण उपपद्यते यथा दण्डीत्यादिप्रतीतिः, विशिष्टा च 'इह भूतले घटो नास्ति' इत्यादिप्रतीतिरिति / अथ भाव अभावप्रतीतेर्निबन्धनम् अतः स एवास्या विशेषणं भविष्यति, एवञ्च भवतो न किञ्चिदिष्टं सिद्धयेत् ; इत्यप्यसाम्प्रतम् ; यतः किं निषिध्यमानो घटादिर्भावः अस्या निबन्धनमभ्युपगम्यते, तैदाश्रयो भूतलादिर्वा ? प्रक्षमपक्षोऽयुक्त:; भावाऽभावप्रतीत्योर्निर्बाधतया प्रतीयमानयो लक्षण्यस्य विषयवैलक्षण्यव्यतिरेकेण अनुपपत्तेः / यन्निर्बाधतया प्रतीयमानयोः प्रतीत्यो(लक्षण्यं तद् विषयवलक्षण्यपूर्वकम् यथा रूपादिप्रतीतिवैलक्षण्यम् , वैलक्षण्यश्च निर्बाधतया प्रतीयमानयोः भावाऽभावप्रतीत्योरिति / न च तत्प्रतीत्योर्निर्बाधता वैलक्ष ण्येन प्रतीयमानत्वञ्चाऽसिद्धम् ; तद्बाधकस्य कस्यचिदप्यभाभावात् , परस्पराऽसङ्कीर्णस्व20 भावतयाऽनुभूयमानत्वाच्च / नहि कश्चिदबालिशो भावमेव अभावतया प्रतिपद्यते, अन्या हि भावप्रतीतिः अन्या चाभावप्रतीतिरिति / यदि च भाव एव अभावः स्यात् ; तर्हि तत्सत्ताक्षणे तद्देशे चाऽभावप्रतीतिः स्यात् / न चैवम् , नहि स्वदेशकालनियतां भावसत्तामेव (1) पृ० 47 / (2) निर्विकल्पक -आ० टि० / तुलना-"तत्र विकल्पमात्रसंवेदनमनालम्बनमात्मांशालम्बनं वेत्यादि यदभिलप्यते तन्नास्तिताज्ञान इव अस्तित्वज्ञानेऽपि समानमतो द्वयोरपि प्रामाण्यं भवतु द्वयोरपि वा मा भूत्।"-न्यायमं० पृ०५८ / (3) भावविकल्पात् / (4) निर्विक. ल्पकप्रत्यक्षम्-आ० टि०। (5) अनेके भावा अभावाश्च उपाधयः विशेषणानि तैः खचितं शबलितं चित्रितम् उपाधिमन्तं विशेष्यभूतमर्थम् / (6) गृहीतसङ्केतः / (7) यस्याऽभावः सः प्रतियोगी / (8) इह भूतले घटो नास्तीति प्रतीतिः विशेषणग्रहणपूर्विका विशिष्टप्रतीतित्वात्। (9) भाव एव / (10) अभावप्रतीते:-आ० टि० / (11) इह भूतले नास्ति घट इत्यभावप्रतीतेः / (12) घटाभावाश्रयो / (13) भावाभावप्रतीत्योर्वैलक्षण्यं विषयवैलक्षण्यपूर्वकम् निर्बाधप्रतीतिवैलक्षण्यात् / तुलना-"नहि विषयवलक्षण्यमन्तरेण विलक्षणाया बुद्धरस्त्युदयः, नापि व्यवहारभेदस्य संभवः ।"-प्रश० कन्द० पृ० 229 / (14) अन्योन्यं भिन्नस्वभावतया। (15) भावसत्ताक्षणे (16) भावदेशे / - 1-नाच्चाभाव-श्र०। 2-अभावसि-ब०। 3 अनेकमभावा-ब०। 4 प्रदर्श-श्र० / / घटा- . दिभावः ब०। 6-चिदभा-ब०। 7-शोऽभावमेव भावतया आ०, श्र०। 8 यदि भाव ब०।