________________ प्रमाणप्र० का० 15 ] अभावस्वरूपविचारः 477 जनयति तद् भावस्वभावमेव यथा घटादि, स्वाकारमर्पयन् ज्ञानं जनयति च अभाव इति / यत् खलु कुतश्चिदुत्पन्नं केनचिद्रूपेण प्रतिभासमानं काश्चिदर्थक्रियां करोति तद् भावस्वरूपमुच्यते / किञ्च, अभावाकारस्य ज्ञानेऽनुप्रवेशे तस्यापि असत्त्वप्रसङ्गात् कुतः किं प्रतीयताम् ? न च 'इह भूतले घटो नास्ति' इत्येवं प्रत्यक्षं तत्सद्भावे प्रमाणमित्यभिधा- 5 तव्यम् ; शैब्दसंसर्गेणोपजायमानस्यास्य विकल्परूपतया प्रत्यक्षत्वानुपपत्तेः / विकल्पानाश्च अर्थे प्रामाण्यानुपपत्तिः अर्थाऽसंस्पर्शित्वात्तेषाम् / तन्न प्रत्यक्षतोऽभावसिद्धिः / नाप्यनुमानतः; तद्धि साध्यप्रतिबद्धलिङ्गबलादुदयमासादयति / प्रतिबन्धश्च साध्यसाधनयोः प्रत्यक्षतः, अनुमानतो वा प्रतीयते ? न तावत् प्रत्यक्षतः; अभावस्य उक्तप्रकारेण प्रत्यक्षाऽगोचरत्वे ततोऽस्य केनचित् लिङ्गेन सह प्रतिबन्धप्रतिपत्तेरनुपपत्तेः। 10 अनुमानतः तत्प्रतीतौ अनवस्था, तत्रापि अनुमानान्तरात् तत्प्रतीतिप्रसङ्गात् / तन्न कुतश्चित् प्रतिबन्धसिद्धिः / नचासिद्धप्रतिबन्धं लिङ्गं साध्यसाधनाय प्रभवति अतिप्रसङ्गादिति / अत्र प्रतिविधीयते / यत्तावदुक्तम्-'न भावस्वरूपव्यतिरिक्तोऽभावः' इत्यादि; पनि तदसमीक्षिताभिधानम् ; भावस्वरूपाऽतिरिक्तस्याऽभावस्य प्रतीतिभेदात् 15 अभावस्य भावान्तर- स्वरूपभेदात् सामग्रीभेदात् अर्थक्रियाभेदाच्च भेदसिद्धिः / यस्य रूपस्य वस्तुसतः यतः प्रतीत्यादिभेदः तस्य ततो भेदः यथा घटात् पटस्य, प्रतीत्यादिसमर्थनम्- भेदश्च भावादभावस्य इति / न चायमसिद्धः; तथाहि-भाँवाsभावयोस्तावत् प्रतीतिभेदः सुप्रसिद्ध एव 'इदमत्रास्ति, इदं नास्ति' इति / नहि प्रतीयमानापीत्थं भेदेन अभावप्रतीतिरपह्नोतुं युक्ता; भावप्रतीतेरप्यपह्नवप्रसङ्गात् / 20 ननु निर्विकल्पकसामर्थेन 'इदमिहास्ति, नास्ति' इति विकल्पद्वयमुत्पद्यते, न च तशादर्थव्यवस्था, विकल्पानामर्थे प्रामाण्याऽभावात् ; इत्यपि श्रद्धामात्रम् ; सविकल्पकसिद्धौ निर्विकल्पकस्य प्रामाण्यप्रतिषेधतः सविकल्पकस्यैव अन्तर्बहिर्वा वस्तुव्यव (1) अभावो भावस्वरूप एव स्वाकारार्पकत्वे सति ज्ञानजनकत्वात् / (2) ज्ञानस्यापि / (3) "एकोपलम्भानुभवादिदं नोपलभे इति / बुद्धरुपलभे वेति कल्पिकायाः समुद्भवः ॥"-प्रमाणवा० 41270 / (4) प्रत्यक्षस्य –आकटि०। (5) विकल्पानाम-आ० टि०(६) अनमानं हि / (7) अविनाभावः / (8) प्रत्यक्षात्-आ० टि० / (9) अभावस्य -आ० टि० / (10) द्वितीयानुमानेऽपि / (11) अविनाभावप्रतीति / (12) पृ० 476 पं० 10 / (13) अभावो भावस्वरूपातिरिक्तः प्रतीतिस्वरूपसामग्रयर्थक्रियाभेदात् / (14) तुलना-“इदं तावत्सकलप्राणिसाक्षिकं संवेदनद्वयमुपजायमानं दृष्टम् इह घटोऽस्ति इह नास्तीति ।"-न्यायमं० पृ० 58 / (15) विकल्पवशात्-आ० टि० / (16) अन्तश्चेतनात्मकस्य बहिश्चाचेतनस्वरूपस्य वस्तुनः / 1-स्याज्ञाने ब०। 2-संसर्गिणोप-ब०। 3-तीयेत् आ०। 4-प्रतिबन्धलिङ्गब० / 5 प्रामाण्यावित्यपि श्र०।।