________________ 476 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० वन्ध्यास्तनन्वयः, स्वरूपेणाकिञ्चिद्रूपश्च परपरिकल्पितमभावप्रमाणमिति / परिच्छेदकत्वं हि ज्ञानधर्मः, सोऽश्वविषाणप्रख्यस्य अध्यक्षाद्यभावस्यातिदुर्घटः / ततश्च 'प्रमाणाभावः प्रमाणञ्च' इति प्रतिज्ञा-पदयोः विरोधः, यथा 'इदश्च, नास्ति च' इति / * अन्यवस्तुविज्ञानपक्षेऽपि किमन्यस्मिन् वस्तुमात्रे, घटाभावाश्रये वा ज्ञानमभाव5 परिच्छेदकं स्यात् ? तत्राद्यपक्षे यत्र कुत्रचिद् यस्य कस्यचिद् अभावस्य ज्ञानं स्यात् / अथ घटाभावाश्रयस्य; नन्वेतत् घटाभावे सिद्धे सिद्धयेत्, न चासौ भवत्पक्षे सिद्धः / प्रतियोगितापि एतेन प्रत्याख्याता; सिद्धे हि घटाभावे 'अयमस्य आश्रयः, अयश्च प्रतियोगी' इति सिद्धयेत्। ततोऽभावप्रमाणस्य यथाभ्युपगतस्वरूपसामग्रीविषयफलाना- . मव्यवस्थिते: वस्तुधर्म एवाभावः प्रत्यक्षादिप्रमाणसिद्धश्च भाववदभ्युपगन्तव्य इति / अत्र सुगतमतावलम्बिनः प्राहुँः - नै भावस्वरूपव्यतिरिक्तः कश्चिदभावः नभावलम्पयनि- प्रत्यक्षतोऽनुमानतो वा प्रतीयते / प्रत्यक्षस्य हि स विषयो भवति यो रिक्तः कश्चिदभावः जनकत्वे सति आकारसमर्पकः, अभावस्य च जनकत्वमाकारसमर्पप्रत्यक्षानुमानग्राह्यः, कत्वश्चातिदुर्घटम् / यद् अभावरूपं न तत् कस्यचिज्जनकं स्वाकार इति बौद्धस्य पूर्वपक्षः- समर्पकञ्च यथा खपुष्पम्, अभावरूपश्चाभावो भवद्भिरिष्ट इति / 15 स्वाकारमर्पयतो ज्ञानजनकत्वे चास्यं भावरूपतैव स्यात् / यत् स्वाकारमर्पयत् ज्ञानं (1) प्रत्यक्षाद्यनुत्पत्तिरूपतया अभावप्रमाणं प्रमाणाभावात्मकम्, अथ च अभावपरिच्छेदकत्वेन परिच्छेदकत्वधर्माधारभूतं प्रमाणात्मकञ्चेति विरोधः। (2) प्रमाणाभावरूपस्वीकरणं प्रतिज्ञा, परिच्छेदकत्वेन प्रमाणरूपतोवर्णनं पदम् / (3) भूतलादौ वा। (4) "एवम्मन्यते-अभावो नाम नास्त्येव केवलं मूढस्य भावविषयमेव प्रत्यक्षमन्याभावं व्यवहारयति ।"-प्रमाणवा स्ववृ० टी० 116 / "एकज्ञानसंसर्गिवस्त्वन्तरं तदुपलब्धिश्चानुपलब्धिर्विवक्षिता उपलब्धेरन्यत्वादभक्ष्याऽस्पर्शनीयवत्, स एवाभावः, तदतिरिक्तस्य विग्रहवतोऽभावस्याभावात् ।"-प्रमाणवा० मनोरथ० 2 / 3 / “तस्मादुपल ब्धिविज्ञानादन्या वस्त्वन्तरविषया उपलब्धिःज्ञानात्मिकाऽनुपलब्धिः / कथं पुनरुपलब्धिरेवानुपलब्धिरुच्यते इत्याह विवक्षितेत्यादि / यथा भक्ष्याभक्ष्यप्रकरणे विवक्षिताद् भक्ष्यादन्यत्वादभक्ष्यो ग्राम्यकुक्कुटो भक्ष्योऽपि सन् तदन्यस्योच्यते, यथा च स्पर्शनीयाऽस्पर्शनीयाधिकारे विवक्षितात् स्पर्शनीयादन्यत्वादस्पर्शनीयश्चाण्डालादिस्तदन्यस्य स्पर्शनीयोऽपि सन्नुच्यते तद्वदुपलब्धिरेवानुपलब्धिमन्तव्या.तस्मात् प्रतिषेध्याद् घटादेः स्वविषयविज्ञानजननयोग्याद् योऽन्य उपलम्भजननयोग्य एव न तद्विपरीतः स्वभावो घटविविक्तप्रदेशरूपः स एव चात्र अनुपलब्धिशब्देनोच्यते ।"-हेतुबि० टी० पृ० 163 A.I "तस्यान्यस्य प्रदेशस्य केवलस्य यत् तत् कैवल्यम् एकाकित्वमसहायता तदेवापरस्य प्रतियोगिनो घटादेवैकल्यमभाव इति / तस्मादन्यभाव एव भावांश एव त्वदभिमतस्तदभावः प्रतियोग्यभावांशो न ततः पृथग्भूतं धर्मान्तरमित्युच्यते सुगतसुतैः ।"-हेतुबि० टी० पृ०१७९ B. / "न ह्यभावः कश्चिद्विग्रहवान् यः साक्षात्कर्तव्यः अपि तु व्यवहर्त्तव्यः।"-क्षणभङ्गसि० पृ० 65 / (5) अभावः कस्यचिज्जनकः स्वाकारसमर्पकश्च न भवति अभावरूपत्वात् / (6) अभावस्य / 1 स्वरूपेणास्वरूपेणा-श्र० / 2 'यस्य कस्यचित्' नास्ति आ० / 3 अभावज्ञानं श्र० / 4-बेघ-आ० / 6-सिद्धभावव-आ० / 6 न तावत्स्व-ब०।