________________ प्रमाणप्र० का० 15 ] अभावप्रमाणविचारः तर्हि इतरेतराभावोऽपि घेट: स्यात् / यस्य यतो व्यावृत्तिर्नास्ति न तस्य ततो भेदः यथा घटस्वरूपाद् घटस्य, नास्ति च इतरेतराभावाद् व्यावृत्तिर्घटस्य इति / यदपि-अभावस्य वस्तुत्वमभिहितम् ; तदैपि वस्तुधर्मस्यैवोपपन्नं न पुनः सर्वथा तुच्छस्वभावस्य, तथाविधस्यास्य वस्तुत्वानुपपत्तेः / येत् सर्वथा तुच्छस्वभावं न तद्वस्तु यथा गगनेन्दीवरम् , सर्वथा तुच्छस्वभावश्च परैरभ्युपगतोऽभाव इति / अस्तु वा अस्य / वस्तुत्वम् ; तथापि तत् केन गृह्यताम्-किमभावाख्येन प्रमाणेन, प्रमाणान्तरेण वा ? प्रथमपक्षे किं तद्वस्तुत्वं भावः, अभावो वा ? यदि भावः ; कथमभावग्राह्यः तस्य तद्विषयत्वाऽनभ्युपगमात् ? तुच्छस्वभावाभावस्य भावस्वरूपवस्तुत्वाश्रयत्वविरोधाच्च / येत् तुच्छस्वभावं न तद् भावस्वभाववस्तुत्वाश्रयः यथा शशविषाणम् , तुच्छस्वभावश्च परैः परिकल्पितोऽभाव इति / अथ अभावः ; तन्न; वस्तुत्वस्य अभावरूपत्वे नीलादावपि 10 तस्य अभावरूपत्वप्रसङ्गाद् भाववात्तॊच्छेदः स्यात् / अथ प्रमाणान्तरेण गृह्यते तत् ; तन्नः प्रमाणान्तरीणामभावग्राहकत्वानभ्युपगमे तेंद्ग तवस्तुत्वग्राहकत्वाभ्युपगमविरोधात् / तन्न अभावप्रमाणस्य सामग्रीवद् विषयोऽपि विचार्यमाणो व्यवतिष्ठते / नापि फलम् ; अभावावगतिलक्षणफलस्य प्रत्यक्षादितोऽपि सद्भावप्रतिपादनात् / किञ्च, सिद्धे स्वरूपे कारणविषयफलव्यवस्था वक्तुं युक्ता / न च अस्य तत्सिद्धम् / 15 ननु सदुपलम्भकप्रमाणपश्चकानुत्पत्तिलक्षणम् अभावप्रमाणस्वरूपं प्रतिप्राणि प्रसिद्धत्वात् कथमपह्नोतुं शक्यम् ? इत्यप्यनुपपन्नम् ; यतः केयं तदनुत्पत्तिः-किं निषेध्यविषयज्ञानरूपतया आत्मनोऽपरिणामः, ॐन्यवस्तुविज्ञानं वा ? तत्र अंपरिणामस्य अभावस्वभावत्वात् कथं तथाविधज्ञानजनने सामर्थ्यं स्यात् ? कथं वा प्रामाण्यम् ? प्रमेयपरिच्छेदकस्य हि प्रामाण्यं प्रसिद्धम् , यच्च स्वरूपेण न किञ्चित् तत्कथं कस्यचित्परिच्छे- 20 दकमतिप्रसङ्गात् ? यत् स्वरूपेणाऽकिश्चिद्रूपम् न तत् कस्यचित्परिच्छेदकं यथा . (1) इतरेतराभावः घटात्मकः तस्मादव्यावर्तमानत्वात् / (2) पृ० 467 पं०१। (3) वस्तुत्वम् / (4) अभावस्य / (5) अभावो न वस्तु सर्वथा तुच्छस्वरूपत्वात्। (6) वस्तुत्वम् / (7) भावस्वरूपस्य वस्तुत्वस्य / (8) अभावविषयत्व। (9) अभावो न वस्तुत्वाश्रयः तुच्छस्वभावत्वात् / (10) वस्तुत्वस्य / (11) वस्तुत्वम् / (12) अभावगत / (13) अभावस्य / (14) प्रमाणपञ्चकानुत्पत्तिः / (15) निषेध्यो घटादिः। (16) भूतलाद्याश्रयात्मकमन्यवस्तु / (17) तुलना-"नीरूपस्य हि विज्ञानरूपहानौ प्रमाणता। न युज्यते प्रमेयस्य सा हि संवित्तिलक्षणा / यत्प्रमेयाधिगतिरूपं न भवति न तत्प्रमाणं यथा घटादि , प्रमेयाधिगतिशून्यश्चाभाव इति व्यापकानु.. पलब्धिः ।"-तत्त्वसं० पं० पृ० 478 / “यतः प्रमाणपञ्चकाभावो निरुपाख्यत्वात् कथं प्रमेयाभावं परिच्छिन्द्यात् परिच्छित्तेनिधर्मत्वात्।"-प्रमेयक० पृ० 205 / सन्मति० टी० पृ० 578 / स्या० 20 पृ० 310 / (18) 'अत्र घटो नास्ति' इत्याकारकज्ञानोत्पादने / (19) खरविषाणादेरपि परिच्छेदक'त्वप्रसक्तिः / (20) आत्मनोऽपरिणामरूपोऽभावः न प्रमेयपरिच्छेदकः स्वरूपेणाऽकिञ्चिद्रूपत्वात् / 1 पटः ब०। 2-श्च परि-ब०। 3 अभावस्वरू-श्र० / 4-ते तन्न श्र०।। सिद्धस्वरूपे ब० / 6 युक्तम् ब०। 7-विषयज्ञानतया ब०। 8 अभावस्य भावत्वात् आ०। 9-विधस्य ज्ञान-श्र० /