________________ प्रमाणप्र० का 15 ] अभावप्रमाणविचारः 473 प्रमाणोत्पत्तिरिति / अभावनिरपेक्षतया च आश्रये प्रतियोगिनि च गृह्यमाणे यद्यभावप्रतीतिः स्यात् तदा सघटेऽपि भूतले 'घटो नास्ति' इति प्रतीतिः स्याद् विशेषाभावात् / ततो यथोक्तंसामय्या विचार्यमाणाया अनुपपत्तेः चक्षुरादिसामग्रीत एव अभावप्रमाणस्य उत्पत्तिः स्वपरात्मना सदसद्रूपघटाद्यर्थविषयता चाभ्युपगन्तव्या / ननु परात्मना घटादेरसत्त्वं प्रतीयमानं न स्वात्मतया प्रतिपन्नं स्यात् , यच्च स्वात्मतया न प्रतीयते कथं तत्तस्य / रूपम् अतिप्रसङ्गात् ? इत्यप्यसुन्दरम् ; यतः परात्मनाऽपि प्रतीयमानमसत्त्वं घटादेरेव प्रतीयते नतु परस्य, 'घटो हि पटो न भवति' इत्येवं नअर्थः प्रतीयते, नतु 'पटः पटो न भवति' इत्येवम्। अतः परात्मना प्रतीयमानोऽपि नयर्थः घटादेरेव प्रतीयते इति तस्यैव तद्रूपेण असत्त्वमिति व्यपदिश्यते / __ यच्चान्यदुक्तम्-'घटविविक्तत्वं किं भूतलस्वरूपमात्रम् , तद्वयतिरिक्तं वा' इत्यादि; 10 तदप्ययुक्तम् ; यतः तद्विविक्तत्वं तद्धर्मतया ततः कथंश्चिद् व्यतिरिक्तं पृच्छयते, पदार्थान्तरतया वा ? तत्र तद्धर्मतयैव तत् कथञ्चिद्भिन्नमुपपन्नं न पुनः पदार्थान्तरतया / स्वहेतुतो हि भावाः परस्पराँऽसङ्कीर्णस्वभावविशिष्टाः समुत्पन्नाः, तद्विपरीता वा ? प्रथमविकल्पे सिद्धमेषां स्वकारणकलापादेव अन्याऽसंसृष्टस्वभावत्वम्, अतो वैयर्थ्यमर्थान्तरभूताभावपरिकल्पनायाः। यत् स्वरूपतो विविक्तस्वभावं न तत्र अर्थान्तर- 15 भूताऽभावपरिकल्पना फलवती यी प्रागभावादौ, स्वरूपतो विविक्तस्वभावाश्च भावाः स्वहेतुतः समुत्पन्ना इति / द्वितीयविकल्पस्त्वनुपपन्नः; स्वरूपतोऽविविक्तानामर्थानां . व्यतिरिक्ताभावेन वैविक्तवस्य कर्तुमशक्यत्वात् / यत् स्वभावतोऽविविक्तस्वरूपम् न तत्र अर्थान्तरभूताभावेन विवेकः कर्तुं शक्यः यथा एकव्यक्तौ, स्वभावतोऽविविक्तस्वरूपाश्च परमते पदार्था इति / 20 (1) घटस्यैव / (2) पटरूपेण (3) पृ०४६५ पं०२०। (4) घटधर्मतया। (5) घटात् / (6) द्विविधा हि विविक्तता-धर्मर्मिरूपेण कथञ्चिद्विविक्तता यथा ज्ञानात्मनोः, पदार्थान्तररूपेण सर्वथा यथा घटपटयोः / (7) तुलना-"सर्वे हि भावाः स्वस्वरूपस्थितयो नात्मानं परेण मिश्रयन्ति तस्यापरत्वप्रसङ्गात्...” -प्रमाणवा० स्वव० 1242 / “नाप्येषां परस्पराभिन्नानामभावेन भेदः शक्यते कर्तुम, तस्य भिन्नाभिन्नभेदकरणेऽकिञ्चित्करत्वात। न चाभिन्नानामन्योन्याभावः संभवति। नापि परस्परभिन्नानामभावेन भेदः क्रियते, स्वहेतुभ्य एव भिन्नानामुत्पत्तेः / नापि भेदव्यवहारः क्रियते, यतो भावानामात्मात्मीयरूपेणोत्पत्तिरेव स्वतो भेदः, स च प्रत्यक्षप्रतिभासनादेव भेदव्यवहारहेतुः।"-प्रमाणवा० स्ववृ० टी०१६ / “यतः स्वकारणकलापात् स्वस्वभावव्यवस्थितयो भावाः समुत्पन्नाः नात्मानं परेण 'मिश्रयन्ति तस्याऽपरत्वप्रसङ्गात्..."-प्रमेयक पृ० 208 / सन्मति० टी० पृ० 588 / स्या० र० पृ० 581 / (8) अन्योन्यममिलितस्वरूपाः भिन्ना इत्यर्थः / (9) भिन्नस्वभावत्वम् / (10) प्रागभावे नास्ति प्रध्वंसादिरित्यत्र। (11) भिन्नतायाः / 1 इति स्या-ब०। 2-मानं स्वा-श्र० / न तु पटो न ब०। 4-त्त्वमित्येवं व्य-ब०। 5-तभावाश्च श्र० / 6 विविक्तस्य ब० / 7-तो विवि-ब० / 10