________________ 472 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० सहसैव स्मृतिः स्यात्' इति; अनुभूतत्वमात्रस्य स्मृत्यकारणत्वात् , अनुभूतेष्वपि हिं भावाभावस्वभावेषु निखिलार्थेषु यस्य यस्य संस्कारोबोधनिमित्ता प्रश्नादिसामग्री सम्पद्यते तस्य तस्य रूपस्य स्मृतिः प्रादुर्भवति 'इदं तत्रासीत् , इदं नासीत्' इति / यदपि-'अभावप्रमाणोत्पत्तौ भूतलाद्याश्रयग्रहणेरूपा सामग्री' इत्याद्युक्तम् / तद। प्यसारम् ; आश्रयग्रहणस्य प्रत्यक्षेऽप्यविशिष्टत्वात् / न खलु 'भूतले घटोऽस्ति' इति प्रत्यक्षं भूतलग्रहणाहते घटते / न चाश्रयग्रहणपूर्वकमेव अभावग्रहणमिति नियमोऽस्ति; अन्धकारे प्रदीपाभावप्रतिपत्तेराश्रयाऽग्रहणेप्युत्पत्तेः / न चान्धकार एव आश्रयः इत्यभिधातव्यम् ; प्रकाशाभावमात्रतया भवता तैस्य इष्टेः, स एव च प्रदीपाभाव इति नाश्रयस्य तेव्यतिरिक्तस्य कस्यचित्तत्र ग्रहणम् / तथा 'गन्धो नास्ति' इत्यपि प्रतीतिः 10 आश्रयग्रहणनिरपेक्षवोत्पद्यते, निमीलिताक्षस्यापि हि घाणेन्द्रियव्यापारादनन्तरं गन्धाभावप्रतीतिः उत्पद्यते। न च तत्र घ्राणेन्द्रियेण आश्रयस्य द्रव्यस्य ग्रहणं सम्भवति; दर्शन-स्पर्शनाभ्यामेव द्रव्यस्य ग्रहणसम्भवात् / तथा 'नास्ति शब्दः' इति श्रोत्रव्यापारादेव आश्रयग्रहणनिरपेक्षाद्भवति अभावप्रतीतिः / न हि श्रोत्रेन्द्रियेण शब्दस्य आश्रयो ग्रहीतुं शक्यः; तस्य अत्यन्तपरोक्षस्य अनुमानेनैवावसायात् / तन्नाश्रयग्रहणमभावप्रमाण15 सामग्र्यामनुप्रविशति / अनुप्रविशतु वा; तथापि आश्रयस्य ग्रहणं किं "निषेध्याभावसहितस्य, केवलस्य वा ? "प्रतियोगिनोऽपि स्मरणम्-किम् अभावाक्रान्तस्य, तद्विपरीतस्य वा ? तत्र अभावविशेषितयोः आश्रयप्रतियोगिनोः ग्रहणस्मरणपथप्राप्तयोः तत्कारणत्वाभ्युपगमे 'अभावज्ञानादेव अभावज्ञानम्' इत्युक्तं स्यात् / न च स्वात्माश्रयस्य कस्यचित् सिद्धियुक्ता अतिप्रसङ्गात् / चक्रकप्रङ्गश्च-अभावप्रमाणोत्पत्तौ हि प्रतियोग्यभावप्रतिपत्तिः, तत्प्रतिपत्तौ च तद्विशेषितयोः आश्रयप्रतियोगिनोः प्रतिपत्तिः, तस्याश्च सत्याम् अभावजायेत; मैवम् ; यत्रैव प्रश्नादि स्मरणकारणमस्य भवति तदेव स्मरति न सर्वम् अविद्यमानस्मरणनिमित्तम्। अन्यत्र तु युगपदुपलब्धेष्वपि वर्णषु युगपदन्त्यवानुभवसमनन्तरं स्मरणम् / अन्यत्र तु यगपदपलब्धेऽपि क्रमेण स्मरणं भविष्यतीति न मेचकबुद्धावयं दोषः ।"-न्यायमं०पू०५३। (1) 10 464 पं० 2 (2) वैशेषिकेण (3) अन्धकारस्य / “द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः ।"-वशे० सू० 5 / 2 / 19 / (4) प्रकाशाभाव एव / (5) प्रदीपाभावभिन्नस्य / (6) प्रदीपाभावप्रतिपत्तौ। (7) आकाशम् / (8) तुलना-"तत्र निषेध्याधारो वस्त्वन्तरं प्रतियोगिसंसृष्टं वा प्रतीयते, असंसृष्टं वा ?.."प्रतियोगिनोऽपि स्मरणं वस्त्वन्तरसंसृष्टस्य असंसृष्टस्य वा ?"-प्रमेयक० 10203 / सन्मति० टी०प० 24 / जैनतर्कवा० वृ०१०९३ / स्या०र०पू०३११। (9) भूतलस्य (10) घटाभावसहितस्य / (11) घटस्य / (12) भूतलघटयोः (13) अभावप्रतीतिहेतुत्वे / (14) स्वस्य स्वापेक्षया प्रतीतौ स्वात्माश्रयत्वम् / (15) अग्नेरेव अग्निसिद्धिप्रसङ्गात् / तथा च सर्वं सर्वस्य सिद्धयेत् (16) अभावविशिष्टयोः / 1-ग्रहणत्वारूपा श्र० / 2-प्युपपत्तेः श्र०। 3-पि घा-आ०, श्र०। 4-क्तं भवतिन श्र० / 5-तौ तद्वि-आ०, ब० /