________________ प्रमाणप्र० का० 15 ] - अभावप्रमाणविचारः / 471 स्पर्शसंवित्तिः स्यात् / तस्मादानुमानिकमेव इदं विज्ञानं 'येद् रूपवत् तत् स्पर्शवत्, यदि वा, यदेवंविधरूपवत् तदेवंविधस्पर्शवत्' इति सामान्यतो विशेषतश्च : प्रतिपन्नाऽविनाभावहेतुसामर्थेन उत्पत्तेः, यदित्थमुत्पद्यते तदनुमानमेव यथा 'यद् धूमवत् तदग्निमत्, यद्वा यदेवंविधधूमवत् तदेवंविधाग्निमत्' इत्याद्यवगताविनाभावहेतुप्रभवं विज्ञानम्, प्रतिपन्नाविनाभावहेतुसामर्थ्येनोत्पद्यते च रूपोपलम्भानन्तरभाविस्पर्शविज्ञानमिति / ततः स्थितमेतत्-देशाद्यविप्रकृष्टार्थसम्बन्ध्यभावः प्रत्यक्षत एव परिच्छिद्यत इति / यस्तु देशादिविप्रकृष्टार्थसम्बन्ध्यभावः सोऽनुमानादेः; तत्र देशविप्रकृष्टस्य कमलाकरकमलादेः सम्बन्धी विकासाद्यभावः दिनकरोदयाद्यभावादवसीयते / कालविप्रकृष्टस्य च शर्कंटादेः मुहूर्तान्ते उदयाभावः अश्विन्युदयात् प्रतीयते / स्वभावविप्र- 10 कृष्टस्य च चैतन्यस्य शवशरीरे सत्त्वाभावः व्यापारव्याहाराकारविशेषाभावादनुमीयते / न खलु एवंविधाभावः एवंविधलिङ्गादन्यतः कुतश्चित् प्रतिपत्तुं शक्यः / एतेन यदुक्त–'यद्यभावः प्रत्यक्षपरिच्छेद्यः स्यात् कथमपवरकादौ इन्द्रियेणाऽसन्निकृष्टो देवदत्ताद्यभावः परिच्छिद्येत' इत्यादि; तदपि प्रतिव्यूढम् ; 'नासीदपवरके देवदत्तः' इत्यादिप्रतीतेः स्मृतित्वात् 'आसीत् तत्र घटः' इत्यादिप्रतीतिवत् / अपवरक- 16 प्राहिणा हि प्रत्यक्षेण तत्राऽसन्निहितार्थानामभावा युगपत्प्रतिपन्नाः तंत्र सन्निहितार्थसद्भाववत् / तदुत्तरकालश्च संस्कारप्रबोधवशात् तद्भावाभावविषया प्रतीति: उदयमासा• दयन्ती स्मृतित्वन्न जहातीति / ने चैतद् वक्तव्यम्-'सकृदनुभूतेषु सकलपदार्थाभावेषु (1) रूपदर्शनान्तरभावि स्पर्शज्ञानम् अनुमानात्मकम् सामान्यतो विशेषतश्च प्रतिपन्नाविनाभावहेतुसामर्थ्येनोत्पद्यमानत्वात्। (2) इयं सामान्येन व्याप्तिः / (3) एषा विशेषतो व्याप्तिः / (4) सामान्यतो विशेषतश्च / (5) तुलना-"कश्चित्पुनरसनिकृष्टदेशवृत्तिरनुमेयोऽपि भवत्यभावः यथा सन्तमसे सलिलधाराविसरसिक्तसस्यमूलमभिवर्षति देवे घनपवनसंयोगाभावोऽनुमीयते, यथा वाऽर्थापत्ताबुदाहृतं गृहभावेन चैत्रस्य बहिरभावकल्पनमिति / आगमादप्यभावस्य क्वचिद् भवति निश्चयः / चौरादिनास्तिताज्ञानमध्वगानामिवाप्ततः ॥"-न्यायम०पू०५४। (6) रोहिण्यादिनक्षत्रस्य / (7) 10 466 पं०१। (8) तुलना-“अस्य स्मरणत्वात् / यद्यपि पूर्वं हस्ती नास्तीत्यादि सविकल्पकं ज्ञानं नोत्पन्नं तथापि हस्त्याद्यभावविशिष्टे देवकुले निर्विकल्पकं ज्ञानमुत्पन्नम् / अन्यथा हि यदाहं देवकुलमद्राक्षं न तदा तं समीपतिनं हस्तिनमिति प्रश्नानन्तरं स्मरणं न स्यात् / तत्तु दृष्टम् / यस्य वस्तुनः पूर्व नाभाव: परिच्छिन्नस्तत्र परप्रश्नानन्तरं संशेते 'न निरीक्षितं मया किं तत्र देवदत्तोस्त्युत हस्ती' इति / न चेदानीमभावं निश्चिनोति। अतः पूर्वमेव हस्त्याद्यभावस्य प्रतीतेर्युक्तमेतत् स्मरणं 'न मया तत्र हस्ती दृष्टः' इत्यादि ।"-प्रश० व्यो० पृ० 593 / न्याममं० पृ० 53 / प्रश० कन्द० पृ० 227 / (9) देवदत्तादीनाम् / (10) अपवरके। (11) येषामर्थानां सद्भावः तेषां सद्भावतया येषाञ्च देवदत्तादीनामभावस्तेषामभावरूपेण। (12) तुलना-“ननु मेचकबुद्धया सकलाभावग्रहणे सहसैव सकलाभावस्मृतिरुप 1 महान्ते श्र० / 2-स्य चै-श्र० / 3 परिच्छिद्यते श्र०, परिच्छेद्यते आ० / 4-हिणा प्रआ०, श्र० / 6-नामभावो युगपत्प्रतिपत्तेः तत्र ब० /