________________ 470 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० ___ ननु घटाद्यभावज्ञाने लोचनान्वयव्यतिरेकानुविधानम् अन्यथासिद्धम् रूपज्ञानानन्तरभाविस्पर्शसंवेदनवत्, यथैव हि दूरदेशस्थितज्वलज्ज्वलनज्वालारूपोपलम्भानन्तरभाविनि तद्गतोष्णस्पर्शसंवेदने लोचनान्वयव्यतिरेकानुविधानम् अन्यथासिद्धं तथा भूत लोपलम्मानन्तरभाविनि घटाद्यभावज्ञानेऽपि; इत्यप्यसाम्प्रतम् ; 'इह भूतले घटो नास्ति' / इति ज्ञानस्य भेदाऽसिद्धेः / सिद्धे हि ज्ञानभेदे तदन्वयव्यतिरेकानुविधानस्य अन्यथासिद्धत्वं वक्तुं युक्तम् रूपस्पर्शज्ञानवत् / न चात्रै तद्भेदोऽस्ति, 'इह कुण्डे दधि' इत्यादिज्ञानवत् 'इह भूतले घटो नास्ति' इत्यादिज्ञानस्यापि एकस्य उभयांशावलम्बिनः अनुपरतनयनव्यापारे प्रतिपत्तरि प्रतीतेः / अस्तु वा तद्भेदः, तथापि इन्द्रियान्वयव्यतिरेकानु विधायित्वेन उभयस्योपलम्भाऽविशेषे कथमेकस्य प्रत्यक्षत्वमन्य॑स्याऽप्रत्यक्षत्वं वक्तुं युक्तं 10 स्वेच्छाकारित्वप्रसङ्गात् ? प्रतियोगिस्मरणानन्तरभावित्वात् घटाद्यभावप्रतीतेरप्रत्यक्षत्वे संविकल्पकप्रत्यक्षाय दत्तो जलाञ्जलिः / तद्धि निर्विकल्पकप्रत्यक्षानन्तरं शब्दार्थसम्बन्धस्मरणे सति 'घटोयम्' इत्याद्याकारमुपजायते / तथाविधस्याप्यस्य इन्द्रियान्वयव्यतिरेकानुविधा यितया प्रत्यक्षत्वे घटाद्यभावप्रत्ययस्यापि तदैस्तु अविशेषात् / न चैवं रूपोपलम्भा15 नन्तरभाविस्पर्शसंवेदनेऽपि चाक्षुषत्वप्रसङ्गः इत्यभिधातव्यम्; स्पर्शग्रहणयोग्यताशून्यत्वाच्चक्षुषः स्पर्शनस्यैव तद्रहणयोग्यतासद्भावात् , अन्यथा उपहँतत्वगिन्द्रियस्यापि (1) अनुमया -आ० टि० / “अवश्यक्लप्तनियतपूर्ववृत्तिन एव कार्यसंभवे तदभिन्नमन्यथासिद्धम्"-मुक्ता० का० 19-20 / तुलना-"न च दूरव्यवस्थितहुतवहरूपदर्शनपूर्वकस्पर्शानुमानवदिदमन्यथासिद्धं तद्भावभावित्वम्; तत्र हि बहुशः स्पर्शदर्शनकौशलशून्यत्वमवधारितं चक्षुषः, स्पर्शपरिच्छेदि च कारणान्तरं त्वगिन्द्रियमवगतम् / अविनाभाविता च पुरा तथाविधयो रूपस्पर्शयोरुपलब्धेत्यनुमेय एवासौ स्पर्श इति युक्तं तत्रान्ययासिद्धत्वं चक्षुापारस्य, प्रकृते तु नेदृशः प्रकारः समस्ति ।"-न्यायमं० पृ० 51 / “यत्तु भूप्रदेशग्रहणजन्मन्येव अक्षाणामुपयोगित्वादक्षापेक्षित्वमन्यथासिद्धमभावज्ञानस्येत्युक्तम् / तदनुपपन्नम् ; न खल ज्ञानद्वयं क्रमेणोत्पद्यमानमिदमनुभूयते प्रथममिन्द्रियजं भूप्रदेशज्ञानं ततः प्रतियोगिस्मरणे सति मानसमिन्द्रियानपेक्षं नास्तिताज्ञानं च / एकस्यैव कुम्भादिविविक्तभूप्रदेशग्राहिणो ज्ञानस्याभावग्राहित्वेनाप्यनुभूयमानत्वात, तस्य चेन्द्रियजत्वेन त्वयापि प्रतिपन्नत्वान्नान्यथासिद्धमक्षापेक्षित्वमभावज्ञानस्य।" -स्या० र० पृ० 310 / (2) इन्द्रिय। (3) इह भूतले घटो नास्तीत्यत्र। तुलना"तथा चेह घटो नास्तीति ज्ञानमेकमेवेदमिह कुण्डे दधीति ज्ञानवद् उभयालम्बनमनुपरतनयनव्यापारस्य भवति, तत्र भूप्रदेशमात्र एव नयन ज्ञानिमतरत्र प्रमाणान्तरजमिति कुतस्त्योऽयं विभागः।"-न्यायमं० पृ० 51 / (4) भूतलघटाभावौ उभयम् / (5) ज्ञानभेदः। (6) भूतलघटाभावौ उभयम् / (7) भूतलस्य। (8) घटाभावस्य / (9) घटस्मरण। (10) वैशेषिकाद्यभिमताय-आ० टि०। (11) सविकल्पकम्-आ० टि०। (12) स्मरणानन्तरभाविनोऽपि सविकल्पकस्य / (13) प्रत्यक्षत्वम् / (14) इन्द्रियान्वयव्यतिरेकानुविधानस्य समानत्वात् / (15) स्पर्शग्रहण / (16) चक्षुषा स्पर्शग्रहणे सति-आ० टि०। (17) बधिरत्वरोगवत्त्वगिन्द्रियस्यापि-आ० टि०। पक्षाघातादिना शून्यस्पर्शनेन्द्रियस्य पुंसः / 1-वियत्वातिरेका-ब०। 2 तदा श्र०। 3 ज्ञानस्यास्य भे-श्र० / 4 ज्ञानस्य भे-श्र० / 5 प्रतिपत्ति प्र-आ०, श्र०। 6-प्रत्यक्षस्यापि श्र०। ..