________________ प्रमाणप्र० का 15 ] अभावप्रमाणविचारः 466 चक्षुषा यथा रूपस्य असम्बद्धस्य ग्रहणं तथा अभावस्यापि। ननु चासम्बद्धस्याप्यभावस्य चक्षुषा प्रहणे देशान्तरवर्त्तिनोऽपि ग्रहणप्रसङ्गः अविशेषात्; इत्यपि रूपेण कृतोत्तरम्। नहि तस्य असम्बद्धस्य ग्रहणेऽपि सकलदेशकालवर्सिनो ग्रहणं दृष्टम् / अथ रूपे चक्षुषः संयुक्तसमवायसम्बन्धसद्भावादसम्बद्धत्वमसिद्धम् ; तन्न; चक्षुषोऽप्राप्यकारित्वस्य प्रागेव प्रतिपादनात् / तत्सम्बन्धात् तस्य तेन ग्रहणे च रसादेरपि ग्रहणप्रसक्तिः तैदविशेषात् / / अयोग्यत्वातंदग्रहणे देशान्तरादिस्थस्य अभावस्याप्यते एवाग्रहणमस्तु अविशेषात् / . किच, आश्रयग्रहणसापेक्षम् अभावग्रहणम् , आश्रयश्च सन्निहित एव गृह्यते, तत्कथं देशान्तरादिस्थस्य अभावस्य ग्रहणसम्भावनाऽपि ? तन्नेन्द्रियेणासम्बद्धत्वादस्य अप्रत्यक्षता युक्तां / नाप्यरूपित्वात् ; तस्य प्रत्यक्षता प्रत्यनङ्गत्वात् , नहि रूपित्व प्रत्यक्षता प्रत्यङ्गम् , 10 परमाणूनां रूपित्वेऽपि अप्रत्यक्षत्वात् / गुण-कर्म-सामान्येन अनेकान्ताच; न खलु रूपादिगुणस्य गमनादिकर्मणः गोत्वादिसामान्यस्य च रूपित्वमस्ति, अथ च प्रत्यक्षत्वं तत्र विद्यते। असद्रूपत्वमपि न प्रत्यक्षतां प्रतिहन्ति; असद्रूपस्य हि सद्रूपतया प्रत्यक्षत्वमनुपपमं न पुनरसदूपतया, स्वस्वभावेन अर्थानां प्रत्यक्षत्वाऽविरोधात् / नहि घटस्य 15 पटात्मना प्रत्यक्षत्वविरोधे स्वात्मनापि तद्विरोधो युक्तः; सर्वत्र प्रत्यक्षव्यवहारोच्छेदप्रसङ्गात् / ततस्तैमिच्छता भाववद् अभावस्यापि स्वस्वभावेन प्रत्यक्षत्वमभ्युपगन्तव्यम् / ननु तथापि अभावस्य कथं प्रत्यक्षता विरोधादिति चेत् ? भावस्य कथम् ? प्रत्यक्षग्राह्यत्वाञ्चेत्; इतरत्र समानम् / तथाहि-उन्मीलिते चक्षुषि भूतलं घटाभावश्च प्रतिभासते, न निमीलिते / अतः समाने तद्भावभावित्वे कथं भूतलज्ञानमेव प्रत्यक्षं न घेटाभाव- 20 झानमिति नियमविभागो युक्तः ? प्रयोगः-यच्चक्षुर्भावाऽभावानुविधायि तत् प्रत्यक्षम् यथा भूतलादिज्ञानम् , तदनुविधायि च घटाद्यभावज्ञानमिति / अप्रत्यक्षत्वे चास्य आलोकापेक्षापि अतिदुर्घटा, आलोको हि चक्षुष एव उपकारकत्वेन प्रसिद्धः / तद्रुपकृतचक्षुःप्रभवत्वानभ्युपगमे च घटाद्यभावज्ञानस्य, अन्धस्यापि तदुत्पत्तिः स्यात् / (1) अभावस्य / (2) असम्बद्धत्वस्य समानत्वात् / (3) पृ० 77 / (4) संयुक्तसमवायसम्बन्धात् / (5) रूपस्य-आ० टि० / (6) इन्द्रियेण-आ० टि० / (7) संयुक्तसमवायाविशेषात् 'चक्षुःसंयुक्तमामादिकं तत्र च रसस्य समवायात् / (8) रसस्याग्रहणे / (9) अयोग्यत्वादेव / (10) तुलना-“नचासम्बद्धत्वाविशेषाद्देशान्तरादिषु सर्वाभावग्रहणमाशङ्कनीयम्; आश्रयग्रहणसापेक्षत्वादभावप्रतीतेः, आश्रयस्य च सन्निहितस्यैव प्रत्यक्षत्वात् ।"-न्यायमं० पृ० 52 / (11) आश्रयो भूतलादिः / (12) अभावस्य / (13) रूपित्वस्य / (14) प्रत्यक्षत्वविरोधः / (15) प्रत्यक्षव्यवहारम् / (16) प्रत्यक्षश्चेत् कथमभावः, अभावश्चेत् कथं प्रत्यक्ष इति विरोधः / (17) अभावेऽपि / (18) चक्षुः-आ० टि०। (19) घटाद्यभावज्ञानस्य / (20) आलोकसहकृत / 1 तस्य तत्र प-श्र०। 2 रूपत्वं श्र०। 3 घटभाव-ब० / 4 प्रतिसिद्धः व०।