________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः / शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते // क्षीरे दधि भवेदेवं दनि क्षीरं घट पटः / शशे शङ्ख पृथिव्यादौ चैतन्यं मूर्तिरामनि // अप्सु गन्धो रसश्चाग्नौ वायौ रूपेण तौ सह / व्योग्नि संस्पर्श (शि)ता ते च न चेदैस्य प्रमाणता।" मी० श्लो० अभाव० श्लो० 7, 9, 8, 2-6 / ] इति / अत्र प्रतिविधीयते / यत्तावदुक्त –'अभावप्रमाणं प्रत्यक्षादिभ्यो भिन्नम्' इत्यादि पनि विधान पारस- तदसमीक्षिताभिधानम् ; तद्विषयस्य प्रत्यक्षादिभिः परिच्छिद्यमानतया रम अभावस्य प्रत्य- तेस्य ततो भेदानुपपत्तेः / द्विविधो हि अभावः-विकृष्टार्थसम्बन्धी, क्षाद्यन्यतमग्राह्यत्व- अविप्रकृष्टार्थसम्बन्धी चेति / तत्र यो देशाद्यविप्रकृष्टार्थसम्बन्ध्यभावः समर्थनम्- सप्रत्यक्षत एव परिच्छिद्यते, इन्द्रियव्यापारादनन्तरम् 'अघटं भूतलम्' 10 इत्यादिप्रत्ययप्रतीते: / अप्रत्यक्षत्वञ्च अभावस्य इन्द्रियेणाऽसम्बद्धत्वात्, अरूपित्वात् , असद्रूपत्वाद्वा ? न तावदसम्बद्धत्वात् ; रूपस्याप्यप्रत्यक्षत्वप्रसङ्गात्, अप्राप्यकारिणा हि (1) उन्नता अथ च वृद्धिमन्तः कटिना अवयवा विषाणत्वेन व्यपदिश्यन्ते, यदा च शशशिरसोऽवयवाः निम्नाः अनुन्नता अथ च वृद्धिकाठिन्यविरहिताः तदा त एव शृङ्गाभावरूपेण व्यपदेशार्हाः / (2) रसगन्धौ। (3) संस्पर्शिणो भावः संस्पर्शिता स्पर्श इत्यर्थः / 'संस्पर्शकास्ते च'-तत्त्वसं०, स्या० र० / 'सस्पर्शता ते च' -सन्मति० टी०। (4) रूपरसगन्धा:-आ० टि० / (5) अभावस्य / (6) एतेऽष्टावपि श्लोकाः निम्नग्रन्थेषु उद्धृताः-तत्त्वसं०, तत्त्वसं० 50 पृ० 471-473 / प्रमेयक० पृ० 190 / सन्मति० टी० पृ० 580-81 षड्द० बृह० पृ० 120 B. / 'न च स्याद्व्य' इति श्लोक विना सप्त श्लोकाः-स्या० र० पृ० 281-83 / (7) पृ० 463 पं०८। "अभावोऽप्यनुमानमेव, यथोत्पन्नं कार्य कारणसद्भावे लिङ्गम्, एवमनुत्पन्नं कार्य कारणासद्भावे लिङ्गम् ।'-प्रश० भा० पृ० 577 / (8) तुलना-"प्रत्यक्षादिनैवाभावस्य प्रतीतेः, तथा चाक्षव्यापारादिह भूतले घटो नास्तीति ज्ञानमपरोक्षमुत्पद्यमानं दृष्टम्"-प्रश० व्यो० 50 592 / प्रश० कन्द० पृ० 226 / “शब्दे ऐतिह्यानर्थान्तरभावाद् अनुमानेऽर्थापत्तिसंभवाभावानर्थान्तरभावाच्चाप्रतिषेधः ।"-न्यायसू० 2 / 2 / 2 / "अभावोऽप्यनुमानमेव"-न्यायवा० पृ० 276 / “सत्यमभावः प्रमेयमभ्युपगम्यते प्रत्यक्षाद्यवसीयमानस्वरूपत्वान्न प्रमाणान्तरमात्मपरिच्छित्तये मृगयते / अदूरमेदिनीदेशवर्तिनस्तस्य चक्षुषा / परिच्छेदः परोक्षस्य क्वचिन्मानान्तरैरपि ॥"-न्यायमं० 1051 / “अन्यस्य घटादिविविक्तस्य भूतलस्योपलब्ध्या घटानुपलब्धिरिति प्रत्यक्षसिद्धानुपलब्धिः / एतदुक्तम्भवति-घटग्राहकत्वस्य भूतलग्राहकत्वस्य चैकज्ञानसंसर्गित्वात् यदा भूतलग्राहकमेव तज्ज्ञानं भवति तदा घटग्राहकत्वाभावं निश्चाययतीति प्रतीतिप्रत्यक्षसिद्धव घटानुपलब्धिः ।"-प्रमाणवा० स्ववृ० टी० 106 / “यदि वस्तु प्रमाभावः मेयाभावस्तथैव च / प्रत्यक्षेऽन्तर्गतोऽभावः तथा सति कथन ते॥"-तत्त्वसं०१० 475 / "भावांशवदितरस्यापि प्रत्यक्ष एव.." -सिद्धिवि० टी० पृ० 179 A. / “एवञ्चाभावप्रमाणवैयर्थम् असदंशस्यापि प्रत्यक्षादिसमधिगम्यत्वसिद्धेः।" -तत्वार्थश्लो० पृ. 182 / “अभावप्रमाणं तु प्रत्यक्षादावेवान्तर्भवति" -स्या०र० पृ. 310 / न्यायाव० टी० टि० पृ० 21 / (9) अभावस्य-आ० टि० / (10) प्रत्यक्षादे:-आ० टि। (11) "न चाभावस्यासत्त्वं प्रत्यक्षादिप्रमाणैर्व्यवसीयमानत्वात्; तथाहि-इह भूतले घटो नास्तीति ज्ञानमिन्द्रियभावव्यतिरेकानुविधानादिन्द्रियजम् / " -प्रश० व्यो० पृ० 400 / ___1-तामेव न ब०।-दस्त्यप्र-ब०। 3 विप्रकृष्टोऽर्थसम्बन्धी चेति ब०। 4-सम्बन्धाभावः आ०। 6-सम्बन्धत्वात् आ० /