________________ प्रमाणप्र० का० 15 ] , अभावप्रमाणविचारः 467 न च अवस्तुविषयत्वादस्य अप्रामाण्यम् ; अभावस्य प्रमाणेन परिच्छिद्यमानतया अवस्तुत्वानुपपत्तेः / यत् प्रमाणेन परिच्छिद्यते न तदवस्तु यथा भावः, प्रमाणेन परिच्छिद्यते च अभाव इति / अवस्तुत्वे चास्य भेदो दुर्घटः, यदवस्तु न तस्य भेदः यथा खपुष्पादेः, अस्ति च प्रागभावादिभेदोऽभावस्य इति / तदवस्तुत्वे च अर्थानां साङ्कय स्यात्, दध्यादेः क्षीराद्यवस्थायां प्रागभावादेरवस्तुतयाऽसाकर्याऽहेतुत्वात् , तथा च / प्रतिनियतव्यवहारवालॊच्छेदः स्यादिति / तदुक्तम् - "र्ने च स्याद्वयवहारोऽयं कोरणादिविभागतः / प्रागभावादिभेदेन नाभावो यदि भिद्यते // यद्वाऽनुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् / तस्माद् गवादिवद्वस्तु प्रमेयत्वाच गृह्यताम् / ने चावस्तुन एते स्युः भेदाः तेनौस्य वस्तुता ।कार्यादीनामभावः को भावो यः कारणादितः(ना)।। वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यं समाश्रिता / 'क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते // 10 नास्तिता पयसो दभि प्रध्वंसाभावलक्षणम् / गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते॥ (1) अभावस्य / (2) अभावस्य। (3) परस्परात्मत्वम् / (4) व्याख्या-“यत् खलु दधिरूपं प्रागभूत्वा भवति तदुपादेयं कार्यम्, यच्च प्रागवस्थितं क्षीररूपं पश्चान्न भवति तदुपादानकारणम्, सोऽयं कार्यकारणविभागः। तथा गौरश्वो न भवति, अश्वो न भवति गौः, विषाणशून्यः शश इत्यादि व्यवहारोऽसत्यभावस्य प्रागभावादिरूपभेदे नोपपद्यत इति ।"-मी० श्लोक - * न्यायर० पृ० 474 / (5) कार्यस्य प्रागभावः कारणम्-आ० टि०। (6) व्याख्या-"अस्ति ह्यभावस्य प्रागभावादिरूपेण व्यावृत्तिरभावरूपेण चानुवृत्तिरिति / तत्रैव हेत्वन्तरमाह प्रमेयेति"-मी० श्लो. न्यायर० पृ० 475 / “अभावो वस्तु इति पक्षः, अनुवृत्तिव्यावृत्तिबुद्धिग्राह्यत्वात् प्रमेयत्वाच्चेति हेतद्वयं गवादिवदिति दृष्टान्तः ।"-तत्त्वसं० पं० पृ० 473 / (7) अभाव इति-आ० टि० / (8) प्रागभावादि-आ० टि० / (9) व्याख्या-“न ह्यवस्तुनो भेदो युक्त: वस्त्वधिष्ठानत्वात्तस्य तस्मादभावो वस्तु / कीदृशं पुनरस्य वस्तुत्वमित्याह-कार्यादीनामिति / क्षीरादेः कारणस्य यो भावः स एव दध्यादेः कार्यस्याभावः, कार्यस्य दध्यादेर्यो भावः स एव क्षीरादेः कारणस्याभाव इत्येतदभाववस्तुत्वम् ।"-तत्त्वसं० पं० पृ०४७३। (10) भेदवत्त्वेन / (11) को योऽभावः कारणादिनः' -मी० श्लो। 'स यो भावः कारणादिना'-तत्त्वसं० / 'को भावो यः कारणादि न' -सन्मति० टी०। 'को भावो यः कारणादिनः-स्या०र०। 'को भावो यः कारणादिना' -बड़व०बह / (12) व्याख्या-"प्रत्यक्षादिभिः सद्रूपेण प्रमीयमाणमपि घटादिकमसद्रूपेण अभावस्य प्रमेयम्, असंकरोऽसद्रूपमभाव इति यावत् ।"-मी० श्लो० न्यायर० पृ० 473 / (13) 'तत्प्रामाण्यसमाश्रया' -मी० श्लो० / (14) व्याख्या-"क्षीरमृदादौ कारणे दधिघटादिलक्षणं कार्य नास्तीत्येवं यत्प्रतीयते लोके स प्रागभाव उच्यते / यदि तु प्रागभावो न भवेत् क्षीरादौ दध्यादि कार्य भवेदेव / एवं दध्नि क्षीराख्यस्य यन्नास्तित्वमयं प्रध्वंसाभावः, अन्यथा दध्नि क्षीरं भवेदेव। गवादौ अश्वादेरभावोऽन्योन्याभाव उच्यते / यस्मात्तस्य गवादेः पररूपमश्वादिस्वभावो नास्ति तस्मात्तयोरन्योन्याभाव उच्यते / अन्यथा गवादी भवेदश्वादि यद्यन्योन्याभावो न भवेत् / शशशिरसोऽवयवा निम्ना (अनुन्नताः) वृद्धिकाठिन्याभ्यां रहिता विषाणादिरूपेण अत्यन्तमसन्तः अत्यन्ताभाव उच्यते। यदि त्वत्यन्ताभावो न भवेत् शशे शृङ्गं भवेदेव ।"-तस्वसं० पं० पृ० 472 / उद्धृतोऽयम्-न्यायमं० पृ० 65 / हेतुबि० टी०पू० 81 B.I. .. 1-वस्तुतत्तयासांकर्यहेतुत्वात् ब० / 2 उक्तञ्च श्र० /