________________ 46 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० __ यदि चाभावः प्रत्यक्षपरिच्छेद्यः स्यात् , कथमिन्द्रियेणाऽसन्निकृष्टः परिच्छिद्येत ? यदा हि केनचिद् अपवरकः स्वरूपेण गृहीतः जिज्ञासाऽभावाद् 'देवदत्तोऽत्र नास्ति' इति न निश्चितम् , पश्चाद् दूरदेशमसौ गतः, यदा केनचित्पृष्टः 'किं तत्र देवदत्त आसीन वा' इति ? प्रतिवेचनश्चासौ तदैवे तद्देशमनुस्मृत्य देवदत्ताभावं प्रतिपद्य प्रयच्छति 5 'नासीत्' इति / नहि तैत्र इन्द्रियसन्निकर्षोऽस्ति इति कथं तत्र प्रत्यक्षसंभवः ? ततो न प्रत्यक्षपरिच्छेद्योऽभावः / / नाप्यनुमानादिपरिच्छेद्यः; तदविनाभाविनो लिङ्गादेरसंभवात् / अनुपलब्ध्यादेश्व तल्लिङ्गादेरनन्तरमेव कृतोत्तरत्वात् / अतः पारिशेष्याद् अभावप्रमाणगोचर एव अभाव इति नासिद्धं भिन्नविषयत्वम् / उक्तञ्च "प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते / वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता // " [ मी० श्लो० अभाव० श्लो० 1] नापि भिन्नफलसाधकत्वम् ; अभावावगतिलक्षणफलस्य अभावप्रमाणप्रसादौदेव प्रसिद्धेः / अतः प्रत्यक्षादिभ्यो विलक्षणस्य प्रतिषेध्याधारग्रहणादिसामग्रीप्रभवस्य नबर्थविषयस्य नबर्थसंवित्तिफलस्य अभावप्रमाणस्य प्रमाणान्तरत्वमभ्युपगन्तव्यम् / (1) "स्वरूपमात्रं दृष्ट्वाऽपि पश्चात्किञ्चित्स्मरन्नपि / तत्रान्यनास्तितां पृष्टस्तदैव प्रतिपद्यते // यदा हि कश्चित् प्रातःकाले कञ्चिद्देशमध्यासीनस्तत्र व्याघादिकमदृष्ट्वा तदस्मरणाच्च तदभावमप्यगृहीत्वा देशमात्रं दृष्ट्वा देशान्तरगतो मध्यन्दिने पृच्छयते 'कश्चित्तस्मिन्देशे प्रातःकाले व्याघा गजः सिंहः पार्थिवो वा समागतः ?' इति / स तदा तं देशमवगतत्वात्स्मरन्नपि तत्र देशेऽन्येषां : व्याघादीनामभावं प्रागगृहीतं तदैव गणाति / न च मध्यन्दिने समये प्रातःकालिकस्याभावस्यानिन्द्रियसनिकृष्टस्य संभवति प्रत्यक्षेण ग्रहणम्, तस्येन्द्रियसन्निकृष्टवर्तमानविषयत्वात् ।"-मी० श्लो० न्यायर० पृ० 483 / शास्त्रदी० पृ० 339 / (2) उत्तरम्। (3) देवदत्ताभावे। (4) "नाप्यनुमेयः; अज्ञातेन तेन कस्यचिल्लिङ्गस्य सम्बन्धग्रहणासंभवात् / " -शास्त्रदी० पृ० 340 / (5) "मेयो यद्वदभावो हि मानमप्येवमिष्यताम् / भावात्मके यथा मेये नाभावस्य प्रमाणता। तथाऽभावप्रमेयेऽपि न भावस्य प्रमाणता // अभावो वा प्रमाणेन स्वानुरूपेण मीयते / प्रमेयत्वाद्यथा भावस्तस्माद् भावात्मकात् पृथक् // " -मी० श्लो० अभाव० श्लो० 45, 46, 55 / (6) व्याख्या-“ओंचक: ( उम्बेकः ) त्वेवं व्याख्यातवान् यत्र घटाख्ये वस्तुनि प्रत्यक्षादि सद्भावग्राहकं नोपजायते तस्य नास्तिता भूप्रदेशाधिकरणाभावप्रमाणस्य प्रमेया"-स्या० र० पू०२७९। “तत्र सदसद्रूपेणोभयात्मके वस्तुनि व्यवस्थिते यस्मिन् वस्तुरूपे वस्त्वंशेऽसद्रपाख्ये प्रमाणपञ्चकमर्थापत्तिपर्यन्तं न जायते। किमर्थम् ? वस्तुनः सत्तांशावबोधार्थम्। तत्र अभावांशे प्रमेये अभावस्य प्रमाणता।" -तत्त्वसं० पं० पृ० 470 / उद्धृतोऽयम्-प्रश० व्यो० पृ० 592 / हेतुबि० टी० पृ० 190 A. / तत्त्वसं० का० 1648 / षड्द० इलो० 76 / प्रमेयक पृ० 189 / सन्मति० टी० पृ० 580 / नन्दि० मलय० पृ०२५ / स्या० 2010 279 / 'वस्त्वसत्तावबोधार्थ'-षड्द० श्लो० 50, बृह०पू० 120 A, I प्रमेयर०पू०१३९ / विश्वतत्वप्र. पृ०१३ / चित्सु०पू० 268 / बृहत्सव०पू० 165 / नन्वि० मलय० 10 25 / (7) असिद्धमित्यत्रापि योज्यम्-आ० टि० / (8) प्रतिषेध्यो घट: तस्याधारो भूतलादिः (9) प्रतियोगिस्मरणम् प्रतियोग्यनुपलब्धिश्च ग्राह्या / 1-हितद्दे -श्र०12 -देव सिद्धःथः।