________________ प्रमाणप्र० का० 15 अभावप्रमाणविचारः ऽविनाभूतं किञ्चिल्लिङ्गमस्ति / अनुपलब्धिरस्तीति चेत् ; नन्वसौ गृहीतव्याप्तिका, अगृहीतव्याप्तिका वा अभावमनुमापयेत् ? न तावदगृहीतव्याप्तिका; अतिप्रसङ्गात्। नापि गृहीतव्याप्तिका; यतो व्याप्तिग्रहणं धूमाग्निवद् उभयधर्मग्रहणपूर्वकम् / व्याप्तिग्रहणवेलायाश्च कुतः अभावाख्यधर्मग्रहणम्-अत एव अनुमानात् , तदन्तराद्वा ? यदि अत एव; अन्योन्याश्रयः; तथाहि-अतोऽनुमानादभावसिद्धौ अनुपलब्धेरभावेन अविनाभावित्वसिद्धिः, / तत्सिद्धौ चौऽतोऽनुमानादभावसिद्धिरिति / अनुमानान्तरात् तत्सिद्धौ चाऽनवस्था / किञ्च, अनुपलब्ध्याख्यं लिङ्गमपि उपलब्ध्यभावस्वभावम् , अतः तत्स्वरूपप्रतिपत्तावपि उक्तदोषानुषङ्गः। अनुपलब्धेरग्रहणे च अभावाऽनुपलब्ध्योः अविनाभावप्रतिपत्तिरतिदुर्घटा / अतो नाभावप्रमाणस्य अनुमानसामग्रीप्रभवता / नापि अर्थापत्त्युपमानागमसामग्रीसमुत्थता; प्राक् प्रतिपादिताया अभावप्रमाण- 10 सामग्याः अर्थापत्त्यादिसामग्रीतोऽन्यथानुपपद्यमानार्थ-उपमानोपमेयगतसादृश्यग्रहणशब्दादिलक्षणायाः सर्वथा भिन्नत्वात् / तन्न अभावप्रमाणस्य अध्यक्षादिभ्यो भिन्नसामग्रीप्रभवत्वमसिद्धम् / ... नापि भिन्नविषयत्वम् ; तथाहि-'इह भूतले घटो नास्ति' इति प्रत्ययः न तावद् भावविषयः, तद्वैलक्षण्येन प्रतिप्राणि संवेद्यमानत्वात् / भावविषयत्वे चास्य घटो विषयः, 15 भूतलम् , तत्संसर्गो वा ? प्रथमपक्षे सति घटे घटसत्ताप्रत्ययवत् अभावप्रत्ययोऽपि स्याद् आलम्बनस्य विद्यमानत्वात् / द्वितीपपक्षे तु सघटेऽपि भूतले अभावप्रत्ययप्रसङ्गः विषयभूतस्य भूतलस्य विद्यमानत्वात् / नापि तत्संसर्गः; घटसंयुक्तेऽपि भूतले 'घटो नास्ति' इति प्रत्ययप्रसङ्गात् / अथ घटविविक्तं भूतलम् अँस्य विषयः; ननु तद्वैविक्त्यं किं भूतलस्वरूपमात्रम् , तद्व्यतिरिक्तं वा ? यदि भूतलस्वरूपमात्रम् + तर्हि 20 विद्यमानेऽपि घटे तेत्प्रत्ययप्रसङ्गः / अथ 'तद्वयतिरिक्तम् ; तर्हि नाममात्रं भिद्यते नार्थः, विविक्तताशब्देन अभावस्यैव अभिधानात् / अतः सिद्धो भावादर्थान्तरम् अभावप्रमाणस्यैव परिच्छेद्योऽभावः, प्रत्यक्षादीनां भावविषयतया अभावगोचरचारित्वाभावात् / (1) "प्रत्यक्षादेरनुत्पत्तिर्न तु लिगं भविष्यति। .. न चानवगतं लिङ्गं गृह्यते चेदसावपि / अभावत्वादभावेन गृह्येतान्येन हेतुना // स चान्येन ग्रहीतव्यो गृहीते हि लिङ्गता। तद्गृहीतिर्हि लिनेन स्यादन्येनेत्यनन्तता // लिङ्गाभावे तथैव स्यादनवस्थेयमित्यतः / क्वाप्यस्य स्यात्प्रमाणत्व लिङ्गत्वेन विना ध्रुवम् // " -मी० श्लो० पृ० 486-88 / शास्त्रदी० पृ. 335 / (2) साध्यसाधनरूपोभयधर्म-आ० टि० / (3) असिद्धम् आ० टि० / (4) भावप्रत्ययविलक्षणतया। (5) विषयभूतस्य घटस्य / (6) “न भूतलम् ; सत्यपि घटे प्रसङ्गात्" -शास्त्रदी० पृ० 325 / (7) घटो नास्तीतिप्रत्ययस्य। (8) “कोऽयं घटविवेकः ? यदि भूतलरूपमेव; घटवत्यपि प्रसङ्गः / घटसंयोगाभावश्चेत्; अङ्गीकृतस्तर्हि अभावः ।"-शास्त्रदी० पृ० 327 / (9) नास्तीतिप्रत्यय / 1-हि अनुमा-आ012 वास्तो आ० / वाऽन-आ०। 4-ख्यलि-आ०, थ० विषयभतलस्य ब०। विषयभूतस्य भूतस्य श्र० / एतदन्तर्गतः पाठो नास्ति आ०। 6 विविक्तशब्देन आ० /