________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० यदपि सांख्यैरभिहितम्-मात्रामात्रिक-कार्य-विरोधि-सहचारि-स्वस्वामि-वध्य . घाताद्यैः सप्तधाऽनुमितिः / तत्र मात्रामात्रिकानुमानम् ; यथा चक्षुषो सांख्यपरिकल्पितेभ्यो विज्ञानानुमानम् / कार्यात् कारणानुमानम् ; यथा विद्युदर्शनात् कारणमात्रामात्रिकादिसप्तहेतुभ्योऽपि कृत्तिको- विज्ञानम्। प्रकृतिविरोधिर्दशनात् तद्विरोध्यन्तरानुमानम् ; यथा न / दयादि पूर्वचरदिहे- वर्षिष्यति बलाहकः प्रत्यनीकपवनयोगित्वात् / सहचराऽनुमानम् ; यथा तूना पृथक्तया गम- चक्रवाकयोरन्यतरदर्शनात् द्वितीयज्ञानम् / स्वदर्शनात् स्वामिनोऽनुकत्वासाचन मानम् ; यथा छत्रविशेषदर्शनात् राज्ञोऽनुमानम् / वध्यघातानुमानम् ; यथा सहर्षनकुलदर्शनात् 'घातितोऽनेन सर्पः' इति ज्ञानम् / आदिग्रहणात् संयोग्यनु मानम् ; यथा समुदायवर्तिनि परिव्राजके 'कः परिव्राजकः' इति संशये त्रिदण्डदर्शनात् 10 'परिव्राजकोऽयम्' इति ज्ञानमिति / तदप्येतेनैव प्रत्याख्यातम् ; कृत्तिकोदयादिहेतूनां नैयायिकोपकल्पितहेतुभ्य इव अंतोप्यर्थान्तरभावाऽविशेषात् / / अथेदानीम् 'दृश्यानुपलब्धिरेव गमिका, नान्या संशयहेतुत्वात्' इति नियमं .. निराकुर्वन्नाह अदृश्यपरचित्तादेरभावं लौकिका विदुः। . तदाकारविकारादेरन्यथाऽनुपपत्तितः // 15 // विवृतिः-अदृश्यानुपलब्धेः संशयैकान्ते न केवलं परचित्ताभावो न सिद्धयति अपि तु स्वचित्तभावश्च, तदनंशतत्त्वस्य अदृश्यात्मकत्वात् / तथा च कुतः (1) आदिशब्दात् संयोग्यनुमानं सप्तमम्-आ० टि०। (2) विद्युतः कादाचित्कत्वेन कार्यत्वात् केनापि कारणेन भवितव्यमिति-आ० टि०। (3) तुलना-"एतेन सप्तविधः सम्बन्धः इति प्रत्यु. क्तम्"-न्यायवा० पृ० 57 / “एतेनैव-मात्रानिमित्तसंयोगिविरोधिसहचारिभिः / स्वस्वामिवध्यघाताद्यैः सांख्यानां सप्तधानुमा ।"-ज्यायवा० ता० पृ० 165 / नयचक्रवृ० पृ० 424 A. / लघी० ता०प० 34 / (4) सांख्यकल्पितहेतोरपि। (5) "प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः, सति वस्तुनि तस्या असंभवात्, अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्रकृष्टेषु आत्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावात् / (पृ० 42) विप्रकृष्टविषयानुपलब्धि: प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः प्रमाणनिवृत्तावपि अर्थाभावासिद्धेरिति ।"-न्यायबि० पृ० 59 / वादन्याय पृ० 18 / “अनपलब्धिलक्षणप्राप्तानुपलब्धेः संशयहेतुतयाऽगमकत्वादिति भावः ।"-बावन्यायटी० पृ० 19 / हेतुबि० टी० पृ० 162 A. / (6) “विदुर्जानन्ति, के ? लौकिकाः / अपिशब्दोऽत्र द्रष्टव्यः, तेन लौकिका गोपालादयोऽपि किं पुनः परीक्षकाः इत्यर्थः / कम् ? अभावम् असत्ताम्, कस्य ? अदृश्यपरचित्तादे: परेषामातुराणां चित्तं चैतन्यमादिर्यस्यासौ परचित्तादिः, अदृश्यश्चासौ परिचित्तादिश्च स तथोक्तस्तस्य। आदिशब्देन भूतग्रहव्याधिप्रभृतिर्गह्यते यस्य सूक्ष्मस्वभावः / कुतः ? तदित्यादि, तस्य परचित्तादेः कार्यभूतोऽविनाभावी आकार उष्णस्पर्शादिलक्षण: तस्य विकारोऽन्यथाभाव: आदिर्यस्य वचनविशेषारोग्यादेः तस्यानुपपत्तितः असंभवात्।"-लघी० ता० पृ० 34 / (7) “अदृश्यानुपलभ्भादभावासिद्धिरित्ययुक्तम् ; परचैतन्यनिवृत्तावारेकापत्तेः संस्कर्तृणां पातकित्वप्रसङ्गात्, बहुलमप्रत्यक्षस्यापि रोगादेविनिवृत्तिनिर्णयात् ।"-अष्टश०, अष्टसह० पृ० 52 / लघी० ता० पृ० 35 / 1 प्रतिकृतिवि-श्र० / -प्यर्थान्तरविशेषाभावात् श्र०।