________________ प्रमाणप्र० का० 14] वैशेषिकाभिमतहेतुसंख्यानिरासः भविष्यति भस्म इति। कार्यात् कारणानुमानम् ; यथा नदीपूरोपलम्भात् वृष्टेः / संयोगिदर्शनात् संयोगिनोऽनुमानम् ; यथा धूमदर्शनाद् वह्नः / समवायिदर्शनात् समवायिनोऽनुमानम् ; यथा शब्दाद् आकाशस्य / एकार्थसमवायिदर्शनात् एकार्थसमवायिनोऽनुमानम् ; यथा रूपाद् रसस्य / विरोधिदर्शनाद् विरोध्यन्तरानुमानम् ; यथा विस्फूर्जितनकुलर्दशनात् सन्निहितसर्पज्ञानमिति / अत्र प्रतिविधीयते। यत्तावदुक्तम्-'सूत्रोपात्ता एव पञ्च हेतवो लैङ्गिकाङ्गम्' इत्यादि; ..तदसमीक्षिताभिधानम् ; तदतिरिक्तानां कृत्तिकोदयादिहेतूनां तदङ्गत्वतत्प्रतिविधान पुरस्सर कृत्तिकोदयादीनां पूर्व- प्रतिपादनात् / अविनाभाववशाद्धि हेतोरनुमानाङ्गत्वं न कारणादिचरादिहेतूनामपि पृथक् रूपतामात्रेण अस्याऽव्यापकत्वादतिप्रसङ्गाच्च। अविनाभावस्य तु सकलरूपेण गमकत्वप्रदर्श- हेतुकलापव्यापित्वात् तदाभासेभ्यो व्यावृत्तत्वाच्च तद्वशादेव हेतोर्गम- 10 ___ कत्वं प्रतिपत्तव्यम् / नहि तद्व्यतिरेकेण कचिदपि हेतोर्गमकत्वं प्रतीयते; सर्वत्र गमकत्वस्य अविनाभावे सत्येव उपपत्तेः / कार्यकारणभावस्य च षट्पदार्थपरीक्षायां प्रपञ्चतः प्रतिषिद्धत्वात् परमते कार्यकारणलिङ्गयोरसिद्धिः / संयोगसमवाययोरपि तत्रैव निषेधात् संयोगिसमवायिलिङ्गयोरपि असिद्धिः / विरोधिनोप्यविनाभावादेव विरोध्यन्तरानुमापकत्वम् , नान्यथा अतिप्रसङ्गात् / नम् 15 गमकम्, यथाहि-विशिष्टनदीपूरोपलम्भादुपरिष्टाद् वृष्टो देवः इति / तथा च बहलस्वरूपफेनफेनिलपर्णकाष्ठादिवहनविशिष्टस्य नदीपूरस्य वृष्टिकार्यत्वेन पूर्वमुपलम्भात् पुनस्तदुपलम्भे सति युक्तमनुमानम्अयं नदीपूरो वृष्टिकार्यो विशिष्टनदीपूरत्वात् पूर्वोपलब्धनदीपूरवदिति / पूरस्तु उभयतटव्यापकोदकसंयोगः। स पारम्पर्येण वृष्टिकार्य इति / कारणमिति कार्यजनकत्वेन पूर्वमुपलब्धरुपलभ्यमानं तल्लिगं यथा च विशिष्टमेघोन्नतिवर्षकर्मणः / ......तथा धूमोऽग्नेः संयोगी ..समवायी च उष्णस्पर्शो वारिस्थं तेजो गमयतीति। विरोधीच यथाहिर्विस्फूर्जनविशिष्टो नकुलादेलिङ्गमिति ।"-प्रश० व्यो० पृ० 572 / प्रश० किर० पृ० 302 / (1) पृ० 460 पं० 19 / (2) तुलना-“समुद्रवृद्ध्यादौ यथोदितसम्बन्धाभावेऽप्यनुमानदर्शनात् / संयोगसमवायैकार्थसमवायास्तु नानुमानोत्पत्तौ कारणम् / नहि कमण्डलुना छात्रानुमानम्, नापि रूपादेः पृथिव्याद्यनुमानम्, नापि रूपाद्रसानुमानमिति / यच्च विरुद्धस्यानुमानस्योदाहरणं भूतं वर्षणकर्म अभूतस्य वाय्वभूसंयोगस्यानुमापकं तथाऽभूतं वर्षणकर्म भूतस्य वाय्वभूसंयोगस्यानुमापकमिति; तदनुपपन्नम् ; भावाभावयोमुत्र गम्यगमकता, न च तयोविरोधोऽस्ति तस्मात् कार्यकारणभावादय एव सम्बन्धाः यस्य येन नियता अव्यभिचारिणः स हेतुरिति...'' -प्रक० पं० पृ० 68 / न्यायवा० ता० 10 164 / स्या० र० 10532 / लघी० ता०प० 34 / (3) कारणादिरूपतामात्रस्य कृत्तिकोदयादिहेतुषु अव्याप्तिः, धूमादिसाध्यं प्रति व्यभिचारित्वाद्धत्वाभासभूतेषु अग्न्यादिषु सद्भावाच्चातिप्रसंगः / (4) अविनाभावं विना / (5) पृ० 220 / (6) वैशेषिकमते / (7) षट्पदार्थपरीक्षायाम् पृ० 297 / __ 1 'एकार्थसमवापिदर्शनात्' नास्ति ब० / 2 तदव्यतिरि-ब० /