________________ 460 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० विवृतिः-तदेतद् भविष्यद्विषयमविसंवादकं ज्ञानं प्रतिबन्धसंख्या प्रमाणसंख्याश्च प्रतिरुणद्धि / भविष्यद् भावि, प्रतिपद्येत जनः / किम् ? शकटम् / कुतः ? कृत्तिकोदयात् / तथा श्वः प्रातः आदित्य उदेता इति कारिकार्थः पाया प्रतिपद्येत अद्य आदित्योदयात् इति गम्यते। 'ग्रहणंवा भविष्यति' इति प्रतिपद्येत, कुतश्चित् फलकाङ्कादेः। ___करिकायाः तात्पर्यार्थमुपदर्शयन्नाह-'तद्' इत्यादि / तस्माद् ऐकलक्षणान्विता खेतोः एतद् भविष्यद्विषयं भाविशकटोदयादिगोचरम् अविसंवादक विवृतिव्याख्यानम् - ज्ञानं सिद्धम् / तत् किं करोति ? इत्याह-प्रतिबन्धसंख्यां प्रतिरुणद्धि 10 तादात्म्यतदुत्पत्त्योरत्राँऽसंभवात् / अर्थं कृत्तिकोदयादेः शकटोदयादिकार्यत्वादयमदोषः; तन्न; अतीतकृत्तिकोदयादेः शकटोदयात् प्रतीत्यभावप्रसङ्गात् / अन्योन्यकार्यत्वे अन्योन्याश्रयप्रसतिः / अन्यच्च तत् किं करोति ? इत्याह-प्रमाणसंख्याश्च प्रतिरुणद्धि परंपरिकल्पितस्य प्रतिबन्धस्य पक्षधर्मत्वादेश्वाऽभावेऽपि कृत्तिकोदयाद्यनुमानस्य भावात् / तन्न कार्यस्वभावानुपलब्धिलिङ्गप्रभवं त्रिविधमेव अनुमानम् इत्यनुमानप्रमाणसङ्ख्या15 नियमः सौगतानां व्यवतिष्ठते प्रागुक्तलिङ्गप्रभवानुमानानां ततोऽर्थान्तरत्वप्रसिद्धेः / एतेन नैयायिकोपकल्पितः पञ्चवैवानुमानमित्यनुमानसङ्ख्यानियमः प्रत्याख्यातः; पूर्वोक्तानुमानानां पञ्चस्वनुमानेषु अनन्तर्भावात् / ननु “अस्येदं कारणं कार्य संयोगि समवायि विरोधि चेति लैङ्गिकम्', [वैशे०सू० 9 / 2 / 2] कारणादयः पञ्च हेतव इति सूत्रोपात्ता एव पञ्च हेतवो लैङ्गिकाङ्गम् अविनाभावस्य अत्रैव 20 एव गमकाः इति वैशे- परिसमाप्तेः, तत्कथं नैयायिकानामनुमानसंख्यानियमो न व्यवषिकस्य पूर्वपक्षः- "तिष्ठेत ? अत्र कारणात् कार्यानुमानम् ; यथा ज्वलदिन्धनदर्शनात् (1) फलके पट्टके खंडद्याद्यगणनायाः (खटिकादिलिखिताङ्कगणनायाः) -आ० टि०। (2) अविनाभावैक / (3) कृत्तिकोदय-शकटोदययोः / तुलना-"न पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेः ।"-परीक्षामु० 3161 / प्रमाणनय० 3 / 67 / (4) भाविकारणवादी प्रज्ञाकरगुप्तः प्राह / प्रज्ञाकरगुप्तस्य भाविकारणतासूचक मतमित्थम्-'भावेन च भावो भाविनाऽपि लक्ष्यत एव मृत्युप्रयुक्तमरिष्टमिति लोके व्यवहारः। यदि मृत्युन भविष्यन्न भवदेवम्भूतमरिष्टमिति... तस्मादनागतस्यापि कारणत्वमव्यभिचारादिति युक्तमेतत् ।"-प्रमाणवातिकालं० पृ० 177 / (5) भवत्येवमपि प्रयोगः-जातः कृत्तिकोदयः शकटोदयात्-आ० टि०। (6) कृत्तिकोदयानुमाने सिद्धे सति ततः शकटोदयानुमानम्, तस्माच्च कृत्तिकोदयानुमानमिति। (7) सौगत / (8) तादात्म्यादिसम्बन्धस्य / (9) हेतो रूपत्रयस्य / (10) कृत्तिकोदयादिहेतुजन्यानुमानानाम् / (11) तादात्म्यतदुत्पत्तिसम्बन्धनिबन्धनानुमानात् / (12) "कार्य कारणपूर्वकत्वेनोपलम्भादुपलभ्यमानं सद् -पयेत् आ० / 2-श्रयत्वप्रस-ब०। 3 प्रतिबिम्बस्य ब०। 4 पञ्चतैवा-श्र० / ' 6-तिष्ठेत् आ०।