________________ प्रमाणप्र० का० 14 ] पूर्वचरादिहेतुसमर्थनम् प्रतिबिम्ब चलति तिष्ठति तु तिष्ठति / न खलु घटे नियमेन निमित्तकारणक्रियानुविधानं न दृष्टम् इत्येतावता सर्वत्र तनिषेद्धमुचितम् , प्रदीपप्रकाशादावपि तनिषेधप्रसङ्गात् / घटे च तद्वद् भासुररूपादिकमपि नोपलब्धम् अतः प्रदीपप्रकाशादावपि तन्निषिद्ध्यतामविशेषात् / प्रतीतिविरोधः अन्यत्राप्यविशिष्टः / यच्चान्यदुंक्तम्-'निमित्तकारणापाये कार्यस्यापायाप्रतीतेः' इत्यादि; तदप्यनल्प- 5 तमोविलसितम् ; प्रदीपछत्रादेनिमित्तकारणस्याऽपाये प्रकाशछाययोरपायप्रतीतेः / एतेन 'प्रतिबिम्बविनाशे पृथक् तदवयवोपलम्भप्रसङ्गः' इत्यादि प्रत्युक्तम् ; प्रदीपादेविनाशेऽपि तदप्रतीतेः / न खलु प्रदीपविद्युदादिद्रव्याणां विनाशेऽपि पृथक तदवयवाः क्वचित् कदाचित् कस्यचित् प्रतीतिपथप्रस्थायिनो भवन्तीति / साम्प्रतम् 'अतीतैकैकालानां गतिः नाऽनागतानां व्यभिचारात्'' प्रमाणवा० 10 स्ववृ० 1 / 12] इत्येतन्निराकुर्वन्नपरमपि कार्यादिभ्योऽर्थान्तरं हेतुमुपदर्शयति भविष्यत् प्रतिपद्येत शैकटं कृत्तिकोदयात्। .. श्व आदित्य उदेतेति ग्रहणं वा भविष्यति // 14 // (1) दण्डादि-आ० टि०। (2) प्रतिबिम्बेऽपि। (3) निमित्तकारणक्रियानुविधानम् / (4) निमित्तकारणक्रियानुविधान / (5) निमित्तकारणभूतदण्डादिवच्छुक्लरूपादिकमपि / (6) निमित्तकारणभूतप्रदीपवत् भासुररूपादिकं तत्प्रकाशे निषिद्धयताम् / (7) पृ० 453 पं० 10 / (8) तुलना-"न खल मृदाद्यपाये कलशादावपायो नोपलब्धः इति ।"-स्या० र०पू० 863 / (9) 20453 पं०११। (10) तुलना-"सौदामिनीप्रदीपादिद्रव्याणां विनाशेऽपि पथक तदवयवानामन पलम्भात् ।"-स्या० र० पृ०८६३ / (11) अवयवोपलम्भ-आ०टि०। (12) 'अतीतानामेककालानाम्' -प्रमाणवा० स्ववृ० / व्याख्या-“तत्रापि रसादे रूपाद्यनुमाने अतीतानामेककालानाञ्च गतिः रसोपादानसमानकालभाविनोऽतीताः लिङ्गभूतरससहभाविनः एककालाः तेषाङ्गतिः नानागतानाम् वर्तमानेन लिङ्गेनानुमानं व्यभिचारात्, अनागतं हि कारणान्तरप्रतिबद्धं तत्र प्रतिबन्धवैकल्यसंभवान्न भवेदपि / यच्चाद्योदयात् श्वः सूर्योदयाद्यनुमानन्न तदनुमानं नियामकलिङ्गाभावात्, अद्य गर्दभदर्शनात् श्वः सूर्योदयानुमानवत् ।”-प्रमाणवा० स्ववृत्तिटी० 1112 / उद्धृतमिदम्-सिद्धिवि० टी० पृ० 311A. / प्रमेयक० पृ० 381 / स्या० र० पृ० 590 / (13) रोहिणीनक्षत्रम् / (14) "शकटं रोहिणी धर्मी मुहुर्तान्ते भविष्यदुदेष्यदिति साध्यधर्मः, कुतः ? कृत्तिकोदयादिति साधनम् / न खलु कृत्तिकोदयः शकटोदयस्य कार्य स्वभावो वा; केवलमविनाभावबलाद् गमयत्येव स्वोत्तरमिति प्रतिपद्येत अनुमन्य त सर्वोऽपि जनः इति / तथा श्वः प्रातः आदित्यः सूर्यः उदेता उदेष्यति अद्यादित्योदयादिति प्रतिपद्येत / तथा श्वो ग्रहणं राहुस्पर्शो भवष्यति एवंविधफलकाङ्कादिति वा प्रतिपद्येत सर्वत्राऽव्यभिचारात..."-लघी० सा०पू०३३। तुलना-“कृत्तिकोदयमालक्ष्य रोहिण्यासत्तिक्लूप्तिवत् ।"-मी० श्लो० पृ० 351 / प्रश० व्यो० पू० 571 / प्रमाणप० पृ०७१। परीक्षामु० 3171 / सन्मति०टी०प०५९१ / प्रमाणनय० 3380 / प्रमाणमी० पृ० 41 / जैनतर्कभा० पृ० 16 / “प्रतिबन्धपरिसंख्यायाम् उदेष्यति शकटं कृत्तिकोदयादिति किं प्रमाणम् ?"-सिद्धिवि० पृ० 317 B. / 1-क्रियानुमानं ब०, -क्रियाविधानं आ० / 2-प्रदीपादावपि ब०। 3-विशिषः आ० / -बिम्बप्रकाशे ब०।। तत्प्रतीतेः श्र०। 6 प्रतीतै-आ० /