________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० बिम्बधर्मविपरीतधर्मयोगोऽत एव अस्य अतोऽन्यत्वम् / यदि चे प्रतिबिम्बमन्यन्न स्यात्, आदर्शादिना प्रतिहतैर्नायनरश्मिभिर्व्यावृत्य देशविपर्यासेन मुखादेरेव आदर्शादौ प्रकाशनात् ; तदा कुडयादिनाऽपि प्रतिहतास्ते व्यावृत्य किमिति कुडचादौ मुखन्न प्रका शयन्ति विशेषाभावात् ? नचा स्वच्छता उपयोगिनी; रश्मिप्रतीघातमात्रस्यैव तत्रो5 पयोगात्, तच्चे उभयंत्राप्यविशिष्टंम् , प्रत्युत कुडथादिनी घनद्रव्येण अतिशयवान प्रतीघातो विधीयते, अतः तत्र अतिशयवता तत्प्रतिभासेन भाव्यम् / कारणातिशयाद्धि कार्यातिशयो दृष्टः, यथा पित्तातिशयात् शङ्खादिषु पीतत्वावभासातिशयः / अस्मन्मते तु निर्मले स्वच्छ एव आदर्शादौ बिम्बसन्निधाने प्रतिबिम्बमुत्पद्यते न पुनः कुड्यादौ तद्विपरीते, अतस्तत्र तत्प्रतिभासाभावः / / 10 किञ्च, आदर्शादिना प्रतिहता रश्मयः व्यावृत्य यदि बिम्बमेव प्रकाशयन्ति; तदी महतो हैस्त्यादेः स्वपरिमाणानतिक्रमेणैव प्रतीतिप्रसङ्गात् लघुत्वप्रतीतिर्न स्यात् / नचैवम् / अतः प्रतिबिम्बमेव तत्र तांभूतमुत्पन्नं प्रतिभासते इत्यभ्युपगन्तव्यम् / स्वपरिमाणानुसारितया हि दर्पणादिना प्रतिबिम्बमारभ्यते, अतो महतो. लघुत्वप्रतिपत्ति रविरुद्धा / यदि च कृपाणादौ काँचादौ चाश्रये प्रतिहारते व्यावृत्त्य बिम्बमेव प्रका18 शयन्ति; तदा आयत-श्याममुखप्रतीतिर्न स्यात् / अस्मन्मते तु आश्रयस्य आयतत्वात् श्यामत्वाच्च तदारब्धस्य प्रतिबिम्बस्यापि आयतत्वं श्यामत्वञ्चोपपन्नम् / जलादेस्तु अतिस्वच्छत्वात् बिम्बाकारानुकारेणैव तत्र प्रतिबिम्बोत्पत्तिः / यदप्युक्तम्-'यदि प्रतिबिम्बमर्थान्तरमुत्पन्नम्' इत्यादि; तदप्यचर्चिताभिधानम् ; अर्थान्तरस्यास्योत्पत्तावपि नियमेन निमित्तकारणक्रियानुकारितया सक्रियायां नियमेन 20 क्रियावत्त्वोपपत्तेः प्रदीपप्रकाशवत्, छत्रछायावद्वा। यथैव हि प्रदीपे छत्रे च चलति प्रकाशश्छाया च नियमेन चलति स्थिरे तु स्थिरा भवति, एवं बिम्बे चलति नियमेन (1) प्रतिबिम्बस्य / (2) बिम्बात्। (3) तुलना-“यदि चादर्शादिप्रतिहता रश्मयः मुखं प्रकाशयन्ति तदा शिलातलादिप्रतिहता अपि ते तत्प्रकाशयेयुः विशेषाभावात्"-स्या० 2010 864 / (4) व्यावृत्त्य बिम्बप्रकाशने / (5) प्रतिघातमात्रम्। (6) दर्पणादौ कुडयादौ च / (7) बिम्बप्रतिभासेन / (8) जैनमते। (9) अस्वच्छेऽपारदर्शिनि। (10) कुड्यादौ / (11) बिम्ब / (12) तुलना-"तदा महतो हस्त्यादेः स्वपरिमाणानतिक्रमेणैव प्रतीतिप्रसङ्गाल्लघुत्वप्रतीतिर्न स्यात्।" -स्या० 20 पृ०८६४। (13) दर्पणादौ। (14) लघ्वाकारोपेतम् / (15) तूलना-"अपि च यदि काचकृपाणादौ प्रतिहतास्ते व्यावृत्त्य बिम्बमेव प्रकाशयन्ति तदा तत्रायतश्याममुखप्रतीतिर्न स्यात्।"-स्या०र० पृ०८६४। (16) श्यामकाचादौ। (17) रश्मयः / (18) कृपाणस्य काचादेश्च। (19) पृ० 453 पं० 5 / (20) तुलना-अर्थान्तरस्योत्पत्तावापि नियमेन परिणामकारणक्रियानुकारितया तस्मिश्चलति चलनस्य तिष्ठति स्थानस्य च तत्रोपपत्तेः ।"-स्या० 20 10 862 / (21) मुखादिबिम्ब। (22) मुखादौ क्रियायां सत्याम्। - 1-दर्शनादौ ब०।-टं पटकुडया-ब०।-ना द्रव्येण ब०।4 हस्तादेः आ०। 5 लघुप्रति-श्र०।