________________ 10 प्रमाणप्र० का० 13 ] प्रतिबिम्बवादः 457 तत्प्रतीतेः / परिमाणगौरवोत्कर्षनियमोपि सावयवयोर्नास्ति; जलकनकादिसंयुक्ताऽनलादौ तंदप्रतीतेः। यच्चान्यदुक्त-'अप्सूर्यदर्शिनां नित्यं द्वेधा चक्षुः प्रवर्तते' इत्यादि; तदप्यविचारितरमणीयम्; रश्मिरूपस्य चक्षुषः कुतश्चिदपि प्रमाणादप्रसिद्धेः / ततस्तदंप्रसिद्धिः चक्षुषोऽप्राप्यकारित्वसिद्धौ प्रपञ्चतः प्ररूपिता / ____ ननु प्रतिबिम्बोदयवादिनां मते बिम्बानुकारिणा प्रतिबिम्बेन भवितव्यम् तत्कथं सव्यदक्षिणविपर्ययेण प्रतिबिम्बस्य प्रतीतिः; इत्यप्यचोद्यम् ; स्वसामग्रीतः तस्य सव्यदक्षिणस्वभावतयैव उत्पत्तेः / बिम्बाभिमुखेन हि प्रतिबिम्बेन भवितव्यम्, आभिमुख्यश्च सव्यदक्षिणविपर्यासव्यतिरेकेण अस्य नोपपद्यते इति तथैव अस्योत्पत्तिरुपपन्ना, अन्यथा प्रतिबिम्बम्' इति व्यपदेशोऽस्य अनुपपन्नः स्यात् / किञ्च, यन्मते प्रतिबिम्बमर्थान्तरं तस्य सव्यदक्षिणविपर्यासो गुण एव, यत एव (1) तुलना-“करम्बितकनकपारदाभ्यामनैकान्तिकत्वात्.." -स्या० र० पृ० 861 / (2) उष्णजले हि जलाग्न्योः द्वयोः सावयवयोः समानदेशता जाता न च परिमाणगौरवयोरुत्कर्षः, तथा तप्तसुवर्ण सुवर्णाग्न्योः सावयवयोः सम्बन्धेऽपि न तयोरुत्कर्षः सन्दृश्यते इति भावः / (3) परिमाणगौरवयोरप्रतीते:आ० टि०। (4) पृ० 452 पं० 15 / (5) तुलना-"स्वप्रदेशस्थतया सवितुर्ग्रहणासिद्धेः चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितमिति चातीवासंगतं प्रमाणाभावात् ।"-प्रमेयक पृ० 425 / चाक्षुष तेजः प्रतिस्रोतः प्रवर्तितमिति चातीवासङ्गतम् ; प्रमाणाभावात् / न हि चक्षुस्तैजांसि जलेनाभिसम्बन्ध्य पुनः सवितारं प्रति प्रवृत्तानि प्रत्यक्षादिप्रमाणतः प्रतीयन्ते / यथा च नायनरश्मीनां विषयं प्रति प्रवृत्तिनास्ति तथा चक्षुषोप्राप्यकारित्वप्रघट्टके प्रतिपादितमित्यलमतिप्रसङ्गेन ।"-स्या० र० पृ० 698 / (6) * पृ०७५-८२ / (7) सव्यदक्षिणविपर्ययेणैव / (8) तुलना-“तदपि प्रतिबिम्बशब्दनिरुक्त्यैव कृतोत्तरम्, परं मिथ्याभिनिवेशान्न चेतयते भवान् / प्रत्यर्थिबिम्बं प्रतिबिम्बमुच्यते / प्रत्यथिता चास्य सकलतदीयालकतिलकभ्रूभङ्गभ्रकूटयादिविशेषस्वीकरणेनाभिमुखतया पुरःस्थायित्वम् / तच्च सव्यदक्षिणपार्श्वविपर्यासव्यतिरेकेणास्य नोपपद्यते इति तथैवोत्पत्तिस्पपन्ना, अन्यथा तु प्रतिबिम्बमिति व्यपदेश एवास्यानुपपन्न: स्यात्।"-स्या०र० प्र०८६२। (9) तुलना-"किञ्च, यन्मते प्रतिबिम्बमर्थान्तरं तस्य सव्यदक्षिणपार्श्वयोविपर्यासो गुण एव / यत एव बिम्बविपरीतधर्मयोगोऽत एवातोऽस्यान्यत्वमिति ।"-स्या० 2050 682 / "आदर्शतलादिष प्रसन्नद्रव्येष मखादिच्छाया तद्वर्णादिपरिणतोपलभ्यते इतरत्र प्रतिबिम्बमात्रमेव / अत्राह-विपरीतग्रहणं कुतः प्राङमुखस्य प्रत्यङमुखा छाया दृश्यते इति? प्रसन्नद्रव्यपरिणामविशेषाद भवति / अत्र चोद्यते नादर्शतलादिच्छायासद्भावः / किं तर्हि ? नयननिर्गतेन रश्मिना घनद्रव्यात् प्रतिहतनिवृत्तेन स्वमुखस्यैव ग्रहणमिति; तदयुक्तम् ; विपर्यासग्रहणाभावप्रसङ्गात् कुड्यादिषु अतिप्रसङ्गात् ग्रहणशक्त्यभावाच्च / विपर्यासग्रहणाभावप्रसङ्गस्तावत् यदि प्रतिनिवृत्तेन नयनरश्मिना स्वशरीरस्यैव ग्रहणं प्राङमुखस्य प्राङमुखमेव ग्रहणं स्यात् विपर्यासहेत्वभावात् / कुड्यादिषु वाऽतिप्रसङ्गः स्यात्, नयनरश्मेः प्रतिघातस्य तत्रापि सद्भावात्।" -राजवा० पृ० 233 / न्यायवि० वि० पृ० 567 B. / "कथं पुनर्पणतलादिषु प्रतिबिम्बं मुखादीनां सम्मुखमेव छायाकारेण परिणमते न पराङमुखम् ? कथं वा कठिनमादर्शमण्डलं प्रतिभिद्य मुखतो विनिर्गताः पुद्गलाः प्रतिबिम्बमाजिहत इति ? यत्तावदुच्यते सम्मुखमेव प्रतिबिम्बमुदेति नान्यतो मुखमिति; तत्र परिणामः स तादृशः पुद्गलानाम्, नहि तद्विषयः पर्यनुयोगः कर्तुं शक्यः”-तत्त्वार्थभा० व्या० पृ० 364 / (10) मम-आ० टि० / जैनस्य / ___1 परिणाम-ब०। तदप्रतिपत्तेः ब०। 3-वसिद्धिश्च चक्षु-ब०14 -विपर्ययो गुण ब०।