________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० कारणम्, गगनतलावलम्बिनं चन्द्र निमित्तीकृत्य जलादेस्तथापरिणामात् / - यदप्युक्तम्-'तत्सन्निधाने गुणरूपम् द्रव्यरूपं वा तदुत्पद्येत' इत्यादि; तदप्ययुक्तम् ; द्रव्यरूपस्यैवास्य तत्सन्निधाने तेत्रोत्पादाभ्युपगमात् / / यदपि-निरवयवद्रव्यरूपं सावयवद्रव्यरूपं वा तत् स्यात्' इत्याद्युक्तम् ; तदप्युक्तिमात्रम् ; अस्मदादीन्द्रियग्राह्यद्रव्यस्य निरवयवत्वाऽसिद्धेः / / यत्पुनरुक्तम्-'नापि सावयवं जलादिस्पर्शात् पृथक् तत्पर्शोपलम्भाऽसंभवात्' इति; तदप्यसाम्प्रतम् ; यतो जलादिस्पर्शात् पृथक् तत्स्पर्शोपलम्भस्तदा स्यात् यदा जलादेः तत्प्रतिबिम्बमर्थान्तरभूतं द्रव्यं स्यात् , यदा तु जलादिकमेव तथा परिणमते तदास्य ततोऽर्थान्तरत्वासंभवात् कथं पृथक् तत्स्पर्शोपलम्भस्याशङ्काऽपि स्यात् ? 10 एतेन ‘जलादिपरमाणव एवास्य आरम्भका अन्ये वा' इत्यादि प्रत्युक्तम् ; जल परमाणूनामेव उक्तप्रकारेण तदारम्भकत्वप्रतिज्ञानात् / प्रतिबिम्बे जलरूपाद् विलक्षणरूपप्रतीतेः कथं ते" तदारम्भकाः ? इत्यप्यनुपपन्नम् ; पुद्गलानां विचित्ररूपादिपरिणामसामग्रीसन्निधाने विचित्ररूपादिपरिणत्युपपत्तेः / दृश्यते हि मुखादिबिम्बेऽपि तत्सन्निधाने विचित्रा रूपपरिणतिः, कोपाद् रक्ततया लज्जातः कृष्णतया हर्षात् सुकान्तिमत्तया मुखादेः 15 परिणामप्रतीतेः / अतो मुखचन्द्रादिबिम्बसन्निधाने जलादेर्विचित्रो रूपादिपरिणामो न विरोधमध्यास्ते / ___एतेन इदमपि प्रतिव्यूढम्-'द्वयोः सावयवयोः समानाकाशदेशत्वानुपपत्तिः, आश्रयद्रव्यस्य चादर्शदेः परिमाणगौरवयोरुत्कर्षः स्यात्' इति; द्वयोः सावयवद्रव्ययोः अंत्राऽसंभवात् , एकस्यैव जलादिद्रव्यस्य स्वसामग्रीविशेषवशात् तथापरिणामात् / नच समानाकाशदेशत्वं सावयवयोः विरुद्धम् ; जलभस्मनोः वातातपयोर्वा सावयवयोरपि श्चक्षुषो रश्मिविनिर्गमनं प्रतिक्षिपद्भिः मुखादिबिम्बात् छायापुद्गलविनिःसृतिः स्वीक्रियमाणा स्वबधाय कृत्योत्थापनमेव प्रतिभाति / स्था० रत्नाकरस्य 698 पृष्ठे तु एभिरेव प्रमेयकमलमार्तण्डमनुसरभिः स्पष्टमुक्तम् यत्-"स्वच्छताविशेषाद्धि जलदर्पणादयो मुखादित्यादिप्रतिबिम्बाकारविकारधारिणःसम्पद्यन्ते” इति, अत्रैव च चक्षुषो रश्मिनिर्गमनस्य प्रतिषेधात् ज्ञायते यत्तत्प्रकरणे तु वादिदेवसूरयः प्रभाचन्द्रमर्थतः शब्दतश्च अनुसरन्ति, अत्र तु तत्खण्डनाभिलाषेण पूर्वापरविरोधमपि न पश्यन्तीति चित्रमेतत् / (1) प्रतिबिम्बाकारतया। (2) पृ० 451 पं० 4 / (3) प्रतिबिम्बस्य। (4) बिम्ब / (5) जलादौ। (6) पृ०४५१५०६। (7) हस्तपादाद्यवयवैः सावयवमेव तत्प्रतिबिम्बमभ्युपगम्यते / (8) पृ० 451 पं० 7 / (9) प्रतिबिम्बरूपेण / (10) जलादेः / (11) प्रतिबिम्ब। (12) पृ०४५१५०९। (13) बिम्बसन्निधानेन जलादीनां प्रतिबिम्बाकारतया परिणमनप्रकारेण / (14) श्यामरूपं प्रतिबिम्बे जलादौ शुक्लं रूपम् / (15) जलादयः। (16) विचित्रकोपायुद्रेचकसामग्रीसनिधाने / (17) पृ०४५१५०१४। (18) प्रतिबिम्बोत्पत्तिस्थले। (19) प्रतिबिम्बाकारतया। (20) तुलना-“तदपि समानदेशप्रसारिसमीरातपाभ्यां व्यभिचारि"-स्या० 20 पृ०८६१ / 1 इत्यनुप-श्र०। 2 बिचित्ररूप-१०। 3 परिमाणात् आ०।