________________ प्रमाणप्र० का० 13 ] प्रतिबिम्बवादः 455 यद् यतो विलक्षणप्रतीतिग्राह्यं तत् ततो भिन्नम् यथा मुद्रातः प्रतिमुद्रा, जल-चन्द्रादिबिम्बाभ्यां विलक्षणप्रतीतिग्राह्यञ्च चन्द्रादिप्रतिबिम्बमिति / न चैतदसिद्धम् ; बिम्बाकारानुकारितया हि बिम्बं प्रति आभिमुख्येन यद् वर्त्तते तत् प्रतिबिम्बम् , यथा मुद्राकारानुकारिणी प्रतिमुद्रा। तत्प्रतीतौ च कथं ततो विलक्षणप्रतीतिग्राह्यत्वमस्य असिद्धम् / न चैतद् बिम्बस्यैव ग्रहणमित्यभिधातव्यम् ; जलादौ दृक्पातानन्तरमेव चन्द्रादिबिम्बमपश्यतः तत्प्रतीतिदर्शनात् / न चात्र विलक्षणा प्रतीतिः प्रतीयमानापि अँस्य ततो भेदं न प्रसाधयतीति वाच्यम् ; सर्वत्र भेदवातॊच्छेदप्रसङ्गात्, सर्वत्र अस्याः प्रतीतिभेदैनिबन्धनत्वात् / अतः बिम्बात् प्रतिबिम्बमन्यदभ्युपगन्तव्यम्। कथमन्यथा यद्वस्तु कदाचिदपि न प्रतीतं तस्मिन्नपरिदृश्यमाने व्यवहितेऽपि तद्विम्बावारकाभावे तत्प्रतिबिम्बप्रतीतिः स्यात् ? तद्विम्बे दर्शनस्य स्मरणस्य प्रत्यभिज्ञानस्य वा सर्वथाऽसंभवात् / तन्न 10 ग्राहकप्रमाणासंभवात् प्रतिबिम्बासंभवः / नाप्युत्पादककारणाभावात् ; तदुत्पादककारणस्य उपादानरूपस्य निमित्तभूतस्य चात्र संभवात्। प्रतिबिम्बोत्पत्तौ हि जलादिकमुपादानकारणम् , चन्द्रादिकं तु निमित्त (1) प्रतिबिम्बं जलाद्याश्रयात् चन्द्रादिबिम्बाच्च भिन्नं तद्विलक्षणप्रतीतिग्राह्यत्वात् / तुलना"तथा यद्यतो विलक्षणप्रतीतिग्राह्यं तत्ततो भिन्नं यथा मुद्रातः प्रतिमुद्रा ...."-स्या० र० पृ०८६३ / (२)बिम्बाकारानुकारितया प्रतीतौ च / (3) चन्द्रादिबिम्बादाश्रयभूतदपर्णादेश्च / (4) प्रतिबिम्बस्य / (5) जलादौ चन्द्रादिप्रतिबिम्बदर्शनं / (6) पुरुषस्य / (7) प्रतिबिम्ब / (8) प्रतिबिम्बस्य / (9) आश्रयाद् बिम्बाच्च / (10) भेदवार्तायाः / (11) प्रतीतिभेदो निबन्धनमस्या इति। (12) वस्तुनि बिम्बाख्ये / (13) बिम्बस्य आवरणं यदि स्यात् तदा प्रतिबिम्बस्योत्पत्तिरेव न स्यात् अत आह तद्विम्बावारकाभावे / (14) प्रत्यक्षमूलकत्वात् स्मरणप्रत्यभिज्ञानयोः, अव्यवहितत्वनिबन्धनत्वाच्च प्रत्यक्षस्य / (15) स्याद्वादरत्नाकरे। (पृ० 865) अस्य सोद्धरणं खण्डनमित्थम्-“यदपि प्रभाचन्द्रः प्राह-प्रतिबिम्बोत्पत्तौ हि जलादिकमुपादानकारणं चन्द्रादिकं च निमित्तकारणं गगनतलावलम्बिनं चन्द्र निमित्तीकृत्य जलादेस्तथा परिणामात् इति; तदस्यात्यन्तार्जवविजृम्भितम् ; यथा हि तेजोऽभावमपेक्ष्य ते पत्रादेश्छायापुद्गलाः पृथिव्यादावाश्रये छायाद्रव्यरूपतया परिणमन्ते तथात्रापि यदि वदनादिबिम्बस्य छायापुद्गला दर्पणादिप्रसन्नद्रव्यसामग्रीमपेक्ष्य प्रतिबिम्बरूपतया परिणमन्ते तदा किन्नाम क्षणं स्यात् अस्यापि छायाविशेषस्वभावत्वात् / तथा चागमः-सामा उदिया छायाऽभासुरगया निसिम्मि कालाभा। सा च्चेह भासुरगया सदेहवन्ना मुणेयव्वा ॥आदरिसस्संतो देहावयवा हवेति संकता। तेसि तत्थुवलद्धी पगासजोगा न इयरेसिं // प्रकरणचतुर्दशशतीकारोपि धर्मसारप्रकरणे प्राह-न ह्यङ्गनावदनछायानुसंक्रमातिरेकेणादर्शके तत्प्रतिबिम्बसंभवः इत्यादि।" -स्या०र० पृ० 865 / तच्च चिन्त्यम्-आ० वादिदेवसूरिमतेन हि मुखादिबिम्बस्य छायापुद्गलाः मुखाद्विनिर्गच्छन्तः दर्पणादौ स्वच्छतादिसमाग्रीवशात् प्रतिबिम्बमारभन्ते 'अस्मन्मते त स्वच्छ एवादर्शादौ बिम्बसन्निधाने तदगतछायापूदगलसंक्रमात प्रतिबिम्बमत्पद्यते' (स्या० 2050 864 ) इति स्वयमभिधानात् / तत्रेदं विचारणीयं यत्-मुखादिभ्यः छायापुद्गलविनिर्गमनं किन्निबन्धनम् ? यदि तेषां स्वभावोयं यत्ते सदैव विनिर्यान्ति तदा चक्षुषो रश्मिविनिर्गमनं नैयायिकादिभिः उक्तं कथं प्रतिक्षिप्यते। यदि हि अभास्वरान्मखात् घटावा छायापुद्गलविनिःसृतिः युक्तिपथप्रस्थायिन्यभिमन्यते तदा भास्वररूपशालिचक्षुषो रश्मिविनिर्याणं तु न्यायानुभवसङ्गतं सुतरामेव स्यात् / अत 1-तिरदर्शनात् ब० / 2 तस्मिन्नुपरि-श्र० / 3 व्यवहितोऽपि आ० /