________________ 15 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० वास्तवं जलादौ प्रतिबिम्बमभ्युपमन्तव्यम्, किन्तु तेन प्रतिहता रश्मयो व्यावृत्य मुखादिबिम्बमेव जलादौ दर्शयन्तीत्यभ्युपगन्तव्यमिति / अत्र प्रतिविधीयते। यत्तावदुक्तम्-'जलादौ न प्रतिबिम्ब नाम वस्त्वन्तरं संभवति' तनिरसनपरस्सा इत्यादि; तदसमीक्षिताभिधानम् ; यतोऽस्य असंभवः ग्राहकप्रमाणाप्रतिबिम्बस्य परमा- संभवात्, उत्पादककारणाभावाद्वा स्यात् ? तत्रांद्यः पक्षोऽनुपपन्नः; र्थतः पुद्गलात्मकत्व- निखिलप्रमाणज्येष्ठस्य प्रत्यक्षप्रमाणस्यैव तत्र तत्सद्भावावेदकस्य संभप्रसाधनम्- वात् / 'निर्मले हि जलादौ चन्द्रादिप्रतिबिम्ब पश्यामि' इति प्रतीतिः प्रतिप्राणि प्रसिद्धा / नहि ईयं 'चन्द्रं पश्यामि' इत्येवं रूपोपजायते, नापि जलम् / किं तर्हि ? चन्द्रादेः प्रतिबिम्बँमिति / न चेयं प्रतीतिर्धान्ता; सर्वत्र सर्वदा सर्वेषाम् एकादृशे10 नैव रूपेण उपजायमानत्वात् / यत् सर्वत्र सर्वदा सर्वेषामेकादृशेनैव रूपेण उपजायते नै तद् भ्रान्तम् यथा घटादिसंवेदनम् , तथाभूता चेयं प्रतिबिम्बप्रतीतिः, तस्मान्न भ्रान्ता इति / भ्रान्तसंवेदनस्य तथाविधस्वरूपेणोत्पत्त्यनुपपत्तेः। नहि भ्रान्तं शुक्तिकादौ रजतादिसंवेदनं सर्वत्र सर्वदा सर्वेषाम् एकादृशेनैव रूपेण उपजायते, दुष्टेन्द्रिययोगिनामेव पुंसां तदुत्पत्तिप्रतीतेः, अदुष्टेन्द्रिययोगिनां तेषां तदनुपपत्तेः / किश्च, यंत्र ज्ञाने समुत्पन्ने बाधकप्रत्ययः कारणदोषज्ञानं वा प्रादुर्भवति तद् भ्रान्तं भवति, यथा शुक्तिकायां रजतादिज्ञानम् / न च आदर्शादौ प्रतिबिम्बप्रतीतौ 'नैतदेवम्' इत्येवंरूपो बाधकप्रत्ययः कदाचिदप्याविर्भवति / न च बाधकाभावेऽप्यस्य भ्रान्तत्वं वाच्यम् ; अतिप्रसङ्गात्। कारणदोषाऽप्रतीतेश्च न तत्प्रतीतिर्धान्ता। प्रतिबिम्ब प्रतीतेः खलु कारणम् आत्ममनश्चक्षुरादिलक्षणम् , न च तत्र दोषाः प्रतीयन्ते / नहि 20 क्षुदादिरात्मनो दोषः निद्रादिमनसः काचकामलादिश्चक्षुषः तत्प्रतीत्युत्पत्तौ प्रतीयते; सन्तृप्तस्य निद्राद्यनुपहंतचेतसो निर्मलनेत्रस्यापि प्रतिपत्तुः प्रतिबिम्बप्रतिपत्तेः प्रतीयमानत्वात् / तदेवं सिद्धमभ्रान्तमिदं प्रत्यक्षं बिम्बात् प्रतिबिम्बस्य अर्थान्तरत्वप्रसाधकम् / तथा अनुमानमप्यस्य आँश्रय-बिम्बाभ्यामर्थान्तरत्वप्रसाधकमस्त्येव / तथाहि (1) जलदर्पणादिना / (2) पृ० 451 पं० 2 / (3) तुलना-"न हि दृष्टाज्ज्येष्ठ गरिष्ठमिष्टम्”–अष्टश, अष्टसह पृ०८०। “न हि दृष्टाद् गरिष्ठं प्रमाणमस्ति"-नयच० व० पृ० 18 / “न च प्रत्यक्षाद् गरिष्ठं प्रमाणमस्ति ।"-हेतुबि०टी० पृ० 87 A. / (4) जलादौ / (5) प्रतिबिम्ब / (6) प्रतीतिः / (7) पश्यामीत्येवं रूपोपजायते इति शेषः / (८)एकादृश-आ० टि० / (9) पुरुषाणाम् / (१०)तुलना-"तस्मात् यस्य च दुष्टं कारणम्, यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः प्रत्ययः नान्य इति ।"-शाबरभा०१। 1 / 5 / (11) प्रतिबिम्बज्ञानस्य। (12) आत्ममनश्चक्षुरादिषु / (13) प्रतिबिम्बप्रतीति। (14) प्रतिबिम्बस्य / (15) जलादि / 1 यतो यस्यासंभ-श्र० / 2-द्यपक्षो-श्र०। 3 इति प्रतिप्रा-ब०। 4 न तेन तद् ब०। 5 -विधरूपेणो-ब० ।-विधरूपेणो-ब०। 6-दृशेनैकरूपेण श्र.। 7 न हि चक्षुरादि-श्र०, ब० / 8-हतमनसो ब० // 9 प्रतिबन्धप्रति-ब० / .